संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः ३० कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः ३० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ३० Translation - भाषांतर ॥ नारद उवाच ॥ततः स्कन्दः सुरैः सार्धं श्वेतपर्वत मस्तकात् ॥उत्तीर्य तारकं हन्तुं दक्षिणां स दिशं ययौ ॥१॥ततः सरस्वतीतीरे यानि भूतानि नारद ॥ग्रहाश्चोपग्रहाश्चैव वेतालाः शाकिनी गणाः ॥२॥उन्मादा ये ह्यपस्माराः पलादाश्च पिशाचकाः ॥देवैस्तेषामाधिपत्ये सोऽभ्यषिच्यत पावकिः ॥३॥यथा ते नैव मर्यादां संत्यजंति दुराशयाः ॥एतैस्तस्मात्समाक्रांतः शरण्यं पावकिं व्रजेत् ॥४॥अप्रकीर्णेन्द्रियं दांतं शुचिं नित्यमतंद्रितम् ॥आस्तिकं स्कन्दभक्तं च वर्जयंति ग्रहादिकाः ॥५॥महेश्वरं च ये भक्ता भक्ता नारायणं च ये ॥तेषां दर्शनमात्रेण नश्यंते ते विदूरतः ॥६॥ततः सर्वैः सुरैः सार्धं महीतीरं ययौ गुहः ॥तत्र देवैः प्रकथितं महीमाहात्म्यमुत्तमम् ॥७॥श्रृण्वन्विसिष्मिये स्कन्दः प्रणनाम च तां नदीम् ॥ततो महीदक्षिणतस्तीरमाश्रित्य धिष्ठितम् ॥८॥प्रणम्य शक्रप्रमुखा गुहं वचनमब्रुवन् ॥अभिषिक्तं विना स्कन्द सेनापतिमकल्मषम् ॥९॥न शर्म लभते सेना तस्मात्त्वमभिषेचय ॥महीसागरसंभूतैः पुण्यैश्चापि शिवैर्जलैः ॥१०॥अभिषेक्ष्यामहे त्वां च तत्र नो द्रष्टुमर्हसि ॥यथा हस्तिपदे सर्वपदांतर्भाव इष्यते ॥११॥सर्वतीर्थान्तरस्थानं तथार्णवमहीजले ॥सर्वभूतमयो यद्वत्र्यंबकः परिकीर्त्यते ॥१२॥सर्वतीर्थमयस्तद्वन्महीसागरसंगमः ॥अर्धनारीश्वरं रूपं यथा रुद्रस्य सर्वदम् ॥१३॥तथा महीसमुद्रस्य स्नानं सर्वफलप्रदम् ॥येनात्र पितरः स्कन्द तर्पिता भक्तिभावतः ॥१४॥तेन सर्वेषु तीर्थेषु तर्पिता नात्र संशयः ॥न चैतद्धृदि मंतव्यं क्षारमेतज्जलं हि यत् ॥१५॥यथा हि कटुतिक्तादि गवा ग्रस्तं हि क्षीरदम् ॥एवमेतत्त्विदं तोयं पितॄणां तृप्ति दायकम् ॥१६॥एवं ब्रुवत्सु देवेषु कपिलोऽपि मुनिर्जगौ ॥सत्यमेतदुमापुत्र सर्वतीर्थमयी मही ॥१७॥कर्दमो यस्त्वहमपि ज्ञात्वा तीर्थमहा गुणान् ॥सर्वां भुवं परित्यज्य कृत्वा ह्यश्रममास्तितः ॥१८॥ततो महेश्वरः प्राह सत्यमेतत्सुरोदितम् ॥ब्रह्माद्यास्तं तथा प्राहुरत्र भूयोऽप्यथो गुरुः ॥१९॥अत्राभिषेकं ते वीर करिष्यामः समादिश ॥ततः सुविस्मितस्तत्र स्नात्वा स्कन्दो महामनाः ॥२०॥अभिषिञ्चन्तु मां देवा इति तानब्रवीद्वचः ॥ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः ॥२१॥जुहुवुर्मंत्रपूतेऽग्नौ चत्वारो मुख्यऋत्विजः ॥ब्रह्मा च कपिलो जीवो विश्वामित्रश्चतुर्थकः ॥२२॥अन्ये च शतशस्तत्र मुनयो वेदपारगाः ॥तत्राद्भुतं महादेवो दर्शयामास भारत ॥२३॥यदग्निकुण्डमध्यस्थो लिंगमूर्तिर्व्यदृश्यत ॥अहमेवाग्निमध्यस्थो हविर्गृह्णामि नित्यशः ॥२४॥एतत्संदर्शनार्थाय लिंगमूर्तिरभूद्विभुः ॥तल्लिंगमतुलं देवा नमश्चक्रुर्मुदान्विताः ॥२५॥सर्वपापापहं पार्थ सर्वकामफलप्रदम् ॥तत्र होमावसाने च दत्ते हिमवता शुभे ॥२६॥दिव्यरत्नान्विते स्कन्दो निषण्णः परमासने ॥सर्वमंगलसंभारैर्विधिमंत्रपुरस्कृतम् ॥२७॥अभ्यषिंचंस्ततो देवाः कुमारं शंकरात्मजम् ॥इंद्रो विष्णुर्महावीर्यो ब्रह्मरुद्रौ च फाल्गुन ॥२८॥आदित्याद्य ग्रहाः सर्वे तथोभावनिलानलौ ॥आदित्या वसवो रुद्राः साध्याश्चैवाश्विनावुभौ ॥२९॥विश्वेदेवाश्च मरुतो गंधर्वाप्सरसस्तथा ॥देवब्रह्मर्षयश्चैव वालखिल्या मरीचिपाः ॥३०॥विद्याधरा योगसिद्धाः पुलस्त्यपुलहादयः ॥पितरः कश्यपोऽत्रिश्च मरीचिर्भृगुरंगिराः ॥३१॥दक्षोऽथ मनवो ये च ज्योतींषि ऋतवस्तथा ॥मूर्तिमत्यश्च सरितो महीप्रभृतिकास्तथा ॥३२॥लवणाद्याः समुद्राश्च प्रभासाद्याश्च तीर्थकाः ॥पृथिवी द्यौर्दिशश्चैव पादपाः पार्वतास्तथा ॥३३॥आदित्याद्या मातरश्च कुर्वंत्यो गुहमंगलम् ॥वासुकिप्रमुखा नागास्थथोभौ गरुडारुणौ ॥३४॥वरुणो धनदश्चैव यमः सानुचरस्तथा ॥राक्षसो निर्ऋतिश्चैव भूतानि च पलाशनाः ॥३५॥धर्मो बृहस्पतिश्चैव कपिलो गाधिनंदनः ॥बहुलत्वाच्च ये नोक्ता विविधा देवतागणाः ॥३६॥ते च सर्वे महीकूले ह्यभ्यषिंचन्मुदा गुहम् ॥ततो महास्वनामुग्रां देवदैत्यादिदर्पहाम् ॥३७॥ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ॥विष्णुर्ददौ वैजयंतीं मालां बलविवर्धिनीम् ॥३८॥उमा ददौ चारजसी वाससी सूर्यसप्रभा ॥गंगा कमंडलुं दिव्यममृतोद्भवमुत्तमम् ॥३९॥मही महानदी तस्य चाक्षमालां ससागरा ॥ददौ मुदा कुमाराय दंडं चैव बृहस्पतिः ॥४०॥गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् ॥अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥४१॥छागं च वरुणो राजा बलवीर्यसमन्वितम् ॥कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ जयम् ॥४२॥चतुरोऽनुचरांश्चैव महावीर्यान्बलोत्कटान् ॥नंदिसेनं लोहिताक्षं घण्टाकर्णं च मानसान् ॥४३॥चतुर्थं चाप्यतिबलं ख्यातं कुसुममालिनम् ॥ततः स्थाणुर्ददौ देवो महापारिषदं क्रतुम् ॥४४॥स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ॥जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश ॥४५॥यमः प्रादादनुचरौ यमकालोपमौ तदा ॥उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥४६॥सुभ्राजौ भास्करस्यैव यौ सदा चानुयायिनौ ॥तौ सूर्यः कार्तिकेयाय ददौ पार्थ मुदान्वितः ॥४७॥कैलासश्रृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ ॥सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥४८॥ज्वालजिह्वं ज्योतिषं च ददावग्निर्महाबलौ ॥परिघं च बलं चैव भीमं च सुमहाबलम् ॥४९॥स्कंदाय त्रीननुचरान्ददौ विष्णुरुरुक्रमः ॥उत्क्रोशं पंचजं चैव वज्रदण्डधरावुभौ ॥५०॥ददौ महेशपुत्राय वासवः परवीरहा ॥तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ॥५१॥वर्धनं बंधनं चैव आयुर्वेदविशारदौ ॥स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ॥५२॥बलं चातिबलं चैव महावक्त्रौ महाबलौ ॥प्रददौ कार्तिकेयाय वायुश्चानुचरावुभौ ॥५३॥घसं चातिघसं वीरौ वरुणश्च ददौ प्रभुः ॥सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् ॥५४॥हिमवान्प्रददौ पार्थ साक्षाद्दौहित्रकाय वै ॥कांचनं च ददौ मेरुर्मेघमालिनमेव च ॥५५॥उच्छ्रितं चातिशृंगं च महापाषाणयोधिनौ ॥स्वाहेयाय ददौ प्रीतः स विंध्यः पार्षदौ शुभौ ॥५६॥संग्रहं विग्रहं चैव समुद्रोऽपि गधाधरौ ॥प्रददौ पार्षदौ विरौ महीनद्या समन्वितः ॥५७॥उन्मादं पुष्पदंतं च शंकुकर्णं तथैव च ॥प्रददावग्निपुत्राय पार्वती शुभदर्शना ॥५८॥जयं महाजयं चैव नागौ ज्वलनसूनवे ॥प्रददुर्बलिनां श्रेष्ठौ सुपर्णः पार्षदावुभौ ॥५९॥एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ॥सर्वे जगति ये मुख्या ददुः स्कंदाय पार्षदान् ॥६०॥नानावीर्यान्महावीर्यान्नानायुधविभूषणान् ॥बहुलत्वान्न शक्यंते संख्यातुं ते च फाल्गुन ॥६१॥मातश्च ददुस्तस्मै तदा मातृगणान्प्रभो ॥याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥६२॥प्रभावती विशालाक्षी गोपाला गोनसा तथा ॥अप्सुजाता बृहद्दंडी कालिका बहुपुत्रका ॥६३॥भयंकरी च चक्रांगी तीर्थनेमिश्च माधवी ॥गीतप्रिया अलाताक्षी चटुला शलभामुखी ॥६४॥विद्युज्जिह्वा रुद्रकाली शतोलूखलमेखला ॥शतघंटाकिंकिणिका चक्राक्षी चत्वरालया ॥६५॥पूतना रोदना त्वामा कोटरा मेघवाहिनी ॥ऊर्ध्ववेणीधरा चैव जरायुर्जर्जरानना ॥६६॥खटखेटी दहदहा तथा धमधमा जया ॥बहुवेणी बहुशीरा बहुपादा बहुस्तनी ॥६७॥शतोलूकमुखी कृष्णा कर्णप्रावरणा तथा ॥शून्यालया धान्यवासा पशुदा धान्यदा सदा ॥६८॥एताश्चान्याश्च बह्व्यश्च मातरो भरतर्षभ ॥बहुलत्वादहं तासां न संख्यातुमिहोत्सहे ॥६९॥वृक्षचत्वरवासिन्यश्चतुष्पथनिवेशनाः ॥गुहास्मशानवासिन्यः शैलप्रस्रवणालयाः ॥७०॥ नानाभरणवेषास्ता नानामूर्तिधरास्तथा ॥नानाभाषायुधधराः परिवव्रुस्तदा गुहम् ॥७१॥ततः स शुशुभे श्रीमान्गुहो गुह इवापरः ॥सैनापत्ये चाभिषिक्तो देवैर्नानामुनीश्वरैः ॥७२॥ततः प्रणम्य सर्वांस्ता नेकैकत्वेन पावकिः ॥व्रियतां वर इत्याह भवब्रह्मपुरोगमान् ॥७३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कार्तिकेयस्य सेनानीत्वेऽभिषेकवर्णनंनाम त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP