संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः १२ कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः १२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः १२ Translation - भाषांतर ॥ नारद उवाच ॥अथ ते ददृशुः पार्थ संयमस्थं महामुनिम् ॥क्रियायोगसमायुक्तं तपोमूर्तिधरं यथा ॥१॥जटास्त्रिषवणस्नानकपिलाः शिरसा तदा ॥धारयन्तं लोमशाख्यमाज्यसिक्तमिवानलम् ॥२॥सव्यहस्ते तृणौघं च च्छायार्थे विप्रसत्तमम् ॥दक्षिणे चाक्षमालां च बिभ्रतं मैत्रमार्गगम् ॥३॥अहिंसयन्दुरुक्ताद्यैः प्राणिनो भूमिचारिणः ॥यः सिद्धिमेति जप्येन स मैत्रो मुनिरुच्यते ॥४॥बकभूपद्विजोलूकगृध्रकूर्मा विलोक्य च ॥नेमुः कलापग्रामे तं चिरंतनतपोनिधिम् ॥५॥स्वागतासनसत्कारेणामुना तेऽति सत्कृताः ॥यथोचितं प्रतीतास्तमाहुः कार्यं हृदि स्थितम् ॥६॥ ॥कूर्म उवाच ॥इन्द्रद्युम्नोऽयमवनीपतिः सत्रिजनाग्रणीः ॥कीर्तिलोपान्निरस्तोऽयं वेधसा नाकपृष्ठतः ॥७॥मार्कंडेयादिभिः प्राप्य कीर्त्युद्धारंच सत्तम ॥नायं कामयते स्वर्गं पुनःपातादिभीषणम् ॥८॥भवतानुगृहीतोऽयमिहेच्छति महोदयम् ॥प्रणोद्यस्तदयं भूपः शिष्यस्ते भगवन्मया ॥त्वत्सकाशमिहानीतो ब्रूहि साध्वस्य वांछितम् ॥९॥परोपकरणं नाम साधूनां व्रतमाहितम् ॥विशेषतः प्रणोद्यानां शिष्यवृत्तिमुपेयुषाम् ॥१०॥अप्रणोद्येषु पापेषु साधु प्रोक्तमसंशयम् ॥विद्वेषं मरणं चापि कुरुतेऽन्यतरस्य च ॥११॥अप्रमत्तः प्रणोद्येषु मुनिरेष प्रयच्छति ॥तदेवेति भवानेवं धर्मं वेत्ति कुतो वयम् ॥१२॥॥ लोमश उवाच ॥कूर्म युक्तमिदं सर्वं त्वयाभिहितमद्य नः ॥धर्मशास्त्रोपनतं तत्स्मारिताः स्म पुरातनम् ॥१३॥ब्रूहि राजन्सुविश्रब्धं सन्देहं हृदयस्थितम् ॥कस्ते किमब्रवीच्छेषं वक्ष्याम्यहं न संशयः ॥१४॥ ॥इन्द्रद्युम्न उवाच ॥भगवन्प्रथमः प्रश्रस्तावदेव ममोच्यताम् ॥ग्रीष्मकालेऽपि मध्यस्थै रवौ किं न तवाश्रमः ॥१५॥कुटीमात्रोऽपि यच्छाया तृणैः शिरसि पाणिगैः ॥१६॥॥ लोमश उवाच ॥मर्तव्यमस्त्यवश्यं च काय एष पतिष्यति ॥कस्यार्थे क्रियते गेहमनित्यभवमध्यगैः ॥१७॥यस्य मृत्युर्भवेन्मित्रं पीतं वाऽमृतमुत्तमम् ॥तस्यैतदुचितं वक्तुमिदं मे श्वो भविष्यति ॥१८॥इदं युगसहस्रेषु भविष्यमभविद्दिनम् ॥तदप्यद्यत्वमापन्नं का कथामरणावधेः ॥१९॥कारणानुगतं कार्यमिदं शुक्रादभूद्वपुः ॥कथं विशुद्धिमायाति क्षालितांगारवद्वद ॥२०॥तदस्यापि कृते पापं शत्रुषड्वर्गनिर्जिताः ॥कथंकारं न लज्जन्ते कुर्वाणा नृपसत्तम ॥२१॥तद्ब्रह्मण इहोत्पन्नः सिकताद्वयसम्भवः ॥निगमोक्तं पठञ्छृण्वन्निदं जीविष्यते कथम् ॥२२॥तथापि वैष्णवी माया मोहयत्यविवेकिनम् ॥हृदयस्थं न जानंति ह्यपि मृत्यु शतायुषः ॥२३॥दन्ताश्चलाश्चला लक्ष्मीर्यौवनं जीवितं नृप ॥चलाचलमतीवेदं दानमेवं गृहं नृणाम् ॥२४॥इति विज्ञाय संसारसारं च चलाचलम् ॥कस्यार्थे क्रियते राजन्कुटजादि परिग्रहः ॥२५॥ ॥इन्द्रद्युम्न उवाच ॥चिरायुर्भगवानेव श्रूयते भुवनत्रये ॥तदर्थमहमायातस्तत्किमेवं वचस्तव ॥२६॥॥ लोमश उवाच ॥प्रतिकल्पं मच्छरीरादेकरोमपरिक्षयः ॥जायते सर्वनाशे च मम भावि प्रमापणम् ॥२७॥पश्य जानुप्रदेशं मे द्व्यंगुलं रोमवर्जितम् ॥जातं वपुस्तद्बिभेमि मर्तव्ये सति किं गृहैः ॥२८॥॥ नारद उवाच ॥इत्थं निशम्य तद्वाक्यं स प्रहस्यातिविस्मितः ॥भूपालस्तस्य पप्रच्छ कारणं तादृशायुषः ॥२९॥ ॥इन्द्रद्युम्न उवाच ॥पृच्छामि त्वामहं ब्रह्मन्यदायुरिदमीदृशम् ॥तव दीर्घं प्रभावोऽसौ दानस्य तपसोऽथवा ॥३०॥॥ लोमश उवाच ॥श्रृणु भूप प्रवक्ष्यामि पूर्वजन्मसमुद्भवाम् ॥शिवधर्मयुतां पुण्यां कथां पापप्रणाशनीम् ॥३१॥अहमासं पुरा शूद्रो दरिद्रोऽतीवभूतले ॥भ्रमामि वसुधापृष्ठे ह्यशनपीडितो भृशम् ॥३२॥ततो मया महल्लिंगं जालिमध्यगतं तदा ॥मध्याह्नेऽस्य जलाधारो दृष्टश्चैवा विदूरतः ॥३३॥ततः प्रविश्य तद्वारि पीत्वा स्नात्वा च शांभवम् ॥तल्लिंगं स्नापितं पूजा विहिता कमलैः शुभैः ॥३४॥अथ क्षुत्क्षामकंठोऽहं श्रीकंठं तं नमस्य च ॥पुनः प्रचलितो मार्गे प्रमीतो नृपसत्तम ॥३५॥ततोऽहं ब्राह्मणगृहे जातो जातिस्मरः सुतः ॥स्नापनाच्छिवलिंगस्य सकृत्कमलपूजनात् ॥३६॥स्मरन्विलसितं मिथ्या सत्याभासमिदं जगत् ॥अविद्यामयमित्येवं ज्ञात्वा मूकत्वमास्थितः ॥३७॥तेन विप्रेण वार्धक्ये समाराध्य महेश्वरम् ॥प्राप्तोऽहमिति मे नाम ईशान इति कल्पितम् ॥३८॥ततः स विप्रो वात्सल्यादगदान्सुबहून्मम ॥चकार व्यपनेष्यामि मूकत्वमिति निश्चयः ॥३९॥मंत्रवादान्बहून्वैद्यानुपायानपरानपि ॥पित्रोस्तथा महामायासंबद्धमनसोस्तथा ॥४०॥निरीक्ष्य मूढतां हास्यमासीन्मनसि मे तदा ॥तथा यौवनमासाद्य निशि हित्वा निजं गृहम् ॥४१॥संपूज्य कमलैः शंभुं ततः शयनमभ्यगाम् ॥ततः प्रमीते पितरि मूढइत्यहमुज्झितः ॥४२॥संबंधिभिः प्रतीतोऽथ फलाहारमवस्थितः ॥प्रतीतः पूजयामीशमब्जैर्बहुविधैस्तथा ॥४३॥अथ वर्षशतस्यांते वरदः शशिशेखरः ॥प्रत्यक्षो याचितो देहि जरामरणसंक्षयम् ॥४४॥ ॥ईश्वर उवाच ॥अजरामरता नास्ति नामरूपभृतोयतः ॥ममापि देहपातः स्यादवधिं कुरु जीविते ॥४५॥इति शंभोर्वचः श्रुत्वा मया वृतिमिदं तदा ॥कल्पांते रोमपातोऽस्तु मरणं सर्वसंक्षये ॥४६॥ततस्तव गणो भूयामिति मेऽभीप्सितो वरः ॥तथेत्युक्त्वा स भगवान्हरश्चादर्शनं गतः ॥४७॥अहं तपसिनिष्ठश्च ततः प्रभृति चाभवम् ॥ब्रह्महत्यादिभिः पापैर्मुच्यते शिवपूजनात् ॥४८॥ब्रध्नाब्जैरितरैर्वपि कमलैर्नात्र संशयः ॥एवं कुरु महाराज त्वमप्याप्स्यसि वांछितम् ॥४९॥हरभक्तस्य लोकस्य त्रिलोक्यां नास्ति दुर्लभम् ॥बहिःप्रवृत्तिं सगृह्य ज्ञानकर्मेन्द्रियादि च ॥५०॥लयः सदाशिवे नित्यमतर्यो गोऽयमुच्यते ॥दुष्करत्वाद्वहिर्योगं शिव एव स्वयं जगौ ॥५१॥पंचभिश्चार्चनं भूतैर्विशिष्टफलदं ध्रुवम् ॥क्लेशकर्मविपाकाद्यैराशयैश्चाप्य संयुतम् ॥५२॥ईशानमाराध्य जपन्प्रणवं मुक्तिपाप्नुयात् ॥सर्वपापक्षये जाते शिवे भवति भावना ॥५३॥पापोपहतबुद्धीनां शिवे वार्तापि दुर्लभा ॥दुर्लभं भारते जन्म दुर्लभं शिवपूजनम् ॥५४॥दुर्लभं जाह्नवीस्नानं शिवे भक्तिः सुदुर्लभा ॥दुर्लभं ब्राह्मणे दानं दुर्लभं वह्निपूजनम् ॥५५॥अल्पपुण्यैश्च दुष्प्रापं पुरुषोत्तमपूजनम् ॥५६॥लक्षेण धनुषां योगस्तदर्धेन हुताशनः ॥पात्रं शतसहस्रेण रेवा रुद्रश्च षष्टिभिः ॥५७॥इति दमुक्तमखिलं मया तव महीपते ॥यथायुरभवद्दीर्घं समाराध्य महेश्वरम् ॥५८॥न दुर्लभं न दुष्प्रापं न चासाध्यं महात्मनाम् ॥शिवभक्तिकृतां पुंसां त्रिलोक्यामिति निश्चितम् ॥५९॥नंदीश्वरस्य तेनैव वपुषा शिवपूजनात् ॥सिद्धिमालोक्य को राजञ्छंकरं न नमस्यति ॥६०॥श्वेतस्य च महीपस्य श्रीकंठं च नमस्यतः ॥कालोपि प्रलयं यातः कस्तमीशं न पूजयेत् ॥६१॥ यदिच्छया विश्वमिदं जायते व्यवतिष्ठते ॥तथा संलीयते चांते कस्तं न शरणं व्रजेत् ॥६२॥एतद्रहस्यमिदमेव नृणां प्रधानं कर्तव्यमत्र शिवपूजनमेव भूप ॥यस्यांतरायपदवीमुपयांति लोकाः सद्योः नरः शिवनतः शिवमेव सत्यम् ॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे लोमशवृत्तान्ते शिवपूजनमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP