बृहद्देवता - पञ्चमोऽध्यायः

बृहद्देवता संस्कृत भाषेतील छंदशास्त्र ह्या विषयातील शौनकऋषींनी रचलेला एक प्राचीन ग्रंथ आहे.
The Bruhaddevatā (Sanskrit: बृहद्देवता), is a metrical Sanskrit work, traditionally ascribed to Shaunaka.


प्रेति पञ्चार्भवं त्रीणि दाधिक्राणि पराण्यतः।
ऋग्द्यावापृथिव्यौ स्तौति दाधिक्राणां मुखे तु या ॥१॥
परोक्षैरमुतो वाग्भिर नामभिश्च स्तुतास्त्रयः।
अग्निर्वायुश्च सूर्यश्च हंसः शुचिषदित्यृचि ॥२॥
नियुक्ता सूर्यदेवत्या हंस इत्यैतरेयके ।
द्वै त्वैन्द्रावरुणे सूक्ते ततस्त्रीण्याश्विनानि कः ॥३॥
अग्रं वायो विहीत्येषु वायव्याः सप्त कीर्तिताः ।
नव चैवेन्द्रवायव्या इन्द्रस्तिस्रः शतेन षट् ॥४॥
इदं कथितदेवत्यं यस्तस्तम्भोत्तमो द्वृचः।
स्तुतिरिन्द्राबृहस्पत्योर् अष्टावेता ऋचः स्मृताः ॥५॥
सूक्तं तु तद्बार्हस्पत्यम् इदमित्यौषसे परे।
पुरोधातुः कर्मशंसा स इन्द्राजोच्यते तृचे ॥६॥
तत्सावित्रे द्वे तु को वैश्वदेवं मही द्यावापृथिवीयं परं तु यत् ।
[१]क्षेत्रस्येति तिस्रस्तु क्षैत्रपत्याः शुनं वाहाः शुनदेवी त्वृगुत्तरा ॥७॥
वायुः शुनः सूर्य एवात्र सीरः शुनासीरौ वायुसूर्यौ वदन्ति ।
शुनासीरं यास्क इन्द्रं तु मेने सूर्येन्द्रौ तौ मन्यते शाकपूणिः ॥८॥
शुनासीरौ पञ्चम्यां तु स्तुतौ तौ द्वे तु सीतायै षष्ठी सप्तमी च ।
शुनं नः फालाः कृषिं स्तौति पादः शुनं कीनाशाः कृषिजीवान्मनुष्यान् ॥९॥
स्तुतः पादेऽत्र पर्जन्यस्तृतीये अन्त्यं त्वृषिर्धनकामो जगाद ।
कृषिं वा स्तौति सर्वं हि सूक्तं समुद्रादित्यग्नेर्मध्यमस्य ॥१०॥
आदित्यं वा ब्राह्मणोक्तं प्रदिष्टम् आग्नेयं वाप्याज्यसूक्तं हि दृष्टम् ।
अपां स्तुतिं वा यदि घृतस्तुतिं गव्यमेके सौर्यमेतद्वदन्ति ॥११॥
स्वर्भानुदृष्टं सूर्यस्य अपहत्य तमोऽत्रयः।
सप्तविंशतिभिः सूक्तैर् अबोधीत्यग्निमस्तुवन् ॥१२॥
त्रैवृष्णस्त्रसदस्युश्च अश्वमेध ऋणंचयः।
स्तूयमानाः परीक्ष्याः स्युर् अत्रिष्वेते क्वचित्क्वचित् ॥१३॥
ऐक्ष्वाकुस्त्र्यरुणो रात्रा त्रैवृष्णो रथमास्थितः।
संजग्राहाश्वरश्मींश्च वृशो जानः पुरोहितः ॥१४॥
स ब्राह्मणकुमारस्य रथो गच्छञ्छिरोऽच्छिनत् ।
एनस्वीत्यब्रवीच्चैव स राजैनं पुरोहितम् ॥१५॥
सोऽथर्वाङ्गिरसान्मन्त्रान् दृष्ट्वा संजीव्य तं शिशुम् ।
क्रोधात्संत्यज्य राजानम् अन्यदेशं समाश्रितः ॥१६॥
हरोऽव्यग्नेर्ननाशास्य तस्यापक्रमणादृषेः।
अग्नौ प्रास्तानि हव्यानि न ह्यपच्यन्त कानिचित् ॥१७॥
ततः प्रव्यथितो राजा सोऽभिगम्य प्रसाद्य तम् ।
आभीत्वा स वृशं जानं पुनरेव पुरोदधे ॥१८॥
 स प्रसन्नो वृशोऽन्वैच्छद् धरमग्नेर्नृपक्षये ।
अविन्दत पिशाचीं तां जायां तस्य च भूपतेः ॥१९॥
निषणः स तया सार्धम् आसन्द्यां कशिपावपि ।
तामुपामन्त्रयां चक्रे कमेतं त्वमिति त्वृचा ॥२०॥
हरः कुमाररूपेण ब्रुवंस्तामभ्यभाषत ।
विज्योतिषेति चोक्तायां सहसाग्निरुदज्वलत् ॥२१॥
सहमानः समायान्तं प्रकाशं च प्रकाशयन् ।
पिशाचीमदहत्तां स यत्र चोपविवेश सा ॥२२॥
एव एव परामृष्टो भाल्लविब्राह्मणे द्वृचः।
निदानसंज्ञके ग्रन्थे छन्दोगानामिति श्रुतिः ॥२३॥
भवेदेव परामर्शः सूक्तस्यास्य व्यपेक्षया।
भवन्ति बाह्या मन्त्रा हि विधिदृष्टेन चोदिताः ॥२४॥
दृश्यन्ते ब्राह्मणे मन्त्रा एकदेशे प्रदर्शिताः।
जामदग्न्यस्तथैवाप्र्य स्तोकीयाश्चैतरेयके ॥२५॥
आप्रियः सुसमिद्धाय पञ्चमं सूक्तमत्र तु।
एवमृग्वैश्वदेवी वा अन्त्या चैन्द्राग्न्युपोत्तमे ॥२६॥
ऐन्द्राणि द्वादश त्रीति उशना त्वत्र संस्तुतः।
उशनेति तु पादेन सं ह यद्वामनेन च ॥२७॥
इन्द्राकुत्सेति चैतस्यां कुत्सेनेन्द्र स्तुतः सह ।
यत्त्वा सूर्येति चात्रीणां पञ्चर्ये कर्म कीर्त्यते ॥२८॥
अनस्वन्तेति सूक्तेऽस्मिन्न् आग्नेयेऽत्रिर्ऋषिः स्वयम् ।
दानतुष्टः शशंसैतान् राजर्षीनिति केचन ॥२९॥
आशीरध्येषणाच्चैभ्यो अग्निं प्रति च दृश्यते ।
अयुतं च गवां त्रीणि शतान्यथ च विंशतिम् ॥३०॥
सौवर्णं शकटं गोभ्यां त्र्यरुणोऽदान्नृपोऽत्रये ।
अश्वमेधः शतं चोक्ष्णां त्रसदस्युर्धनं बहु ॥३१॥
राज्ञः प्रति च तत्सूक्तं बभाष इति केचन।
आत्मा हि नात्मने दद्याद् अग्रहीन्नृपतेर्ऋषिः ॥३२॥
अत्रेः सुतमृषिं बभ्रुम् आर्त्विज्याय ऋणंचयः॥
सहस्रदक्षिणे सोमे वव्रे तं सोऽप्ययाजयत् ॥३३॥
ददौ च रौशमो राजा सहस्राणि शतानि च।
तस्मै चत्वारि चत्वारि महावीरं च काञ्चनम् ॥३४॥
प्रवर्ग्येषु महावीराः सौवर्णास्तस्य चाभवन् ।
प्रतिगृह्य ऋषिर्गच्छन् मध्यमेनाग्निना पथि ॥३५॥
पृष्ट इन्द्रेण चाचख्यौ भद्रं चतसृभिश्च तत् ।
को नु वां वैश्वदेवानि एकादश पराण्यतः ॥३६॥
मारुतानि दश प्रेति इळाभीत्यृचि तु स्तुता।
उदित्यृचि तृतीयायां सविता शौनकोऽब्रवीत् ॥३७॥
उपेति बार्हस्पत्यस्तु तृचो मारुत्यृगुत्तरा ।
तमु ष्टुहीति रौद्री तु प्र सुष्टुतिरिति त्वृचि ॥३८॥
शौनकादिभिराचार्येर् देवता बहुधेरिता ।
इळस्पतिं शाकपूणिः पर्जन्याग्नी तु गालवः ॥३९॥
यास्कस्तु पूषणं मेने स्तुतमिन्द्रं तु शौनकः।
वैश्वानरं भागुरिस्तु मारुत्येष समाश्विना ॥४०॥
वायव्याध्वर्यवः सौमी दशेत्यैन्द्री परा तु या।
अग्निं धर्मं पराञ्जन्ति अश्विनौ स्तोत्यृगच्छ च ॥४१॥
प्रेति वायुं पूषणं च अर्धर्चेऽग्निरिहोच्यते ।
प्रथमेऽथ द्वितीये च स्तुता एति दिवौकसः ॥४२॥
आ वाचं मध्यमां स्तौति ततोऽन्या तु बृहस्पतिम् ।
ज्यायांसमिति चादित्यं प्र वो वायुरिहोच्यते ॥४३॥
[२]तं प्रत्नथेति सौमो वा दैव्यैन्द्री वा प्रजापतेः।
परोक्षवैश्वदेवं तद् आह कौषीतकिः स्वयम् ॥४४॥
तेषु तृतीयमित्युक्तं देवान्हुव इदं परम् ।
देवानां पत्नीरिति तु देवपत्न्यो द्वृचे स्तुताः ॥४५॥
अयं चतुर्णामिति चेन्द्रवायू त्रिभि स्तुतौ वायवा याहि वायुम् ।
रथं त्वृचा रोदसी स्तूयतेऽत्र यस्या स्तुता मरुतो रुद्रपत्न्याः ॥४६॥
आ रुद्रास इति त्वस्यां रुद्राणां संस्तुतो गणः ।
मरुतां तु गणस्यैतन् नाम रुद्रा इति स्मृताः ॥४७॥
असावग्निरयं चोभाव् अग्नी पार्थिवमध्यमौ ।
अग्ने मरुद्भिरित्यस्यां मरुद्भिः सह संस्तुतौ ॥४८॥
मध्यमा वाक स्त्रियः सर्वाः पुमान् सर्वश्च मध्यमः।
गणाश्च सर्वे मरुतो गुणभेदात्पृथक् पृथक् ॥४९॥
राजर्षिरभवद्दार्भ्यो रथवीतिरिति श्रुतः ।
स यक्ष्यमाणो राजात्रिम् अभिगम्य प्रसाद्य च ॥५०॥
द्र. ऋ.५.६१
आत्मानं कार्यमर्थं च ख्यापयन्प्राञ्जलि स्थितः।
अवृणीतर्षिमात्रेयम् आर्त्विज्यायार्चनानसम् ॥५१॥
स सपुत्रोऽभ्यगच्छत्तं राजानं यज्ञसिद्धये ।
श्यावश्वश्चात्रिपुत्रस्य पुत्रः खल्वर्चनानसः ॥५२॥
साङ्गोपाङ्गान्सर्ववेदान् यः पित्राध्यापितो मुदा।
अर्चनानाः सपुत्रोऽथ गत्वा नृपमयाजयत् ॥५३॥
यज्ञे च विततेऽपश्यद् राजपुत्रीं यशस्विनीम् ।
स्नुषा मे राजपुत्री स्याद् इति तस्य मनोऽभवत् ॥५४॥
श्यावाश्वस्य च तस्यां वै सक्तमासीत्तदा मनः।
संयुज्यस्व मया राजन्न् इति याज्यं च सोऽब्रवीत् ॥५५॥
श्यावाश्वाय सुतां दित्सुर् महिषीं स्वां नृपोऽब्रवीत् ।
किं ते मतमहं कन्यां श्यावाश्वाय ददामि हि ॥५६॥
अत्रिपुत्रोऽदुर्बलो हि जामाता त्वावयोरिति ।
राजानमब्रवीत्सापि नृपर्षिकुलजा ह्यहम् ॥५७॥
नानृषिर्नौ तु जामाता नैष मन्त्रान् हि दृष्टवान् ।
ऋषये दीयतां कन्या वेदस्याम्बा भवेत्तथा।
ऋषिर्मन्त्रदृशं वेदपितरं मन्यते यतः ॥५८॥
प्रत्याचष्टे स तं राजा सह संमन्त्र्य भार्यया।
अनृऋषिर्नैव जामाता कश्चिद्भवितुमर्हति ॥५९॥
प्रत्याख्यात ऋषिस्तेन वृत्ते यज्ञे न्यवर्तत ।
श्यावाश्वस्य तु कन्याया मनो नैव न्यवर्तत ॥६०॥
ततस्तौ तु निवर्तेताम् उभावेवाभिजग्मतुः।
शशीयसीं तरन्तं च पुरुमीळहं च पार्थिवम् ॥६१॥
तरन्तपुरमीळ्हौ तु राजानौ वैददश्व्यृषी।
ताभ्यां तौ चक्रतुः पूजाम् ऋषिभ्यां नृपती स्वयम् ॥६२॥
ऋषिपुत्रं महिष्याश्च दर्शयामास तं नृपः।
तरन्तानुमता चैव प्रादाद्बहुविधं वसु ॥६३॥
अजाविकं गवाश्वं च श्यावाश्वाय शशीयसी ।
अत्रिं याज्यार्चितो गत्वा पितापुत्रौ स्वमाश्रमम् ॥६४॥
अभ्यवादयतामत्रिं महर्षिं दीप्ततेजसम् ।
श्यावाश्वस्य मनस्यासीन् मन्त्रस्यादर्शनादहम् ॥६५॥
न लब्धवानहं कन्यां हन्त सर्वाङ्गशोभनाम् ।
अप्यहं मन्त्रदर्शी स्यां भवेद्धर्षो महान्मम ॥६६॥
इत्यरण्ये चिन्तयतः प्रादुरासीन्मरुद्गणः।
ददर्श संस्थितान्पार्श्वे तुल्यरूपानिवात्मनः ॥६७॥
समानवयसश्चैव मरुतो रुक्मवक्षसः।
तांस्तुल्यवयसो दृष्ट्वा देवान्पुरुषविग्रहान् ॥६८॥
श्यावाश्वो विस्मितोऽपृच्छत् के ष्ठेति मरुतस्तदा ।
ततस्तु मरुतो देवान् रुद्रसूनूनबुध्वत ॥६९॥
य ईं वहन्त इत्याभिर् बुद्ध्वा तुष्टाव तांस्तथा ।
अतिक्रमं हि तं मेने ऋषिर्विपुलमात्मनः ॥७०॥
यन्न दृष्ट्वैव तुष्टाव यच्च के ष्ठेति पृष्ठवान् ।
स्तुता स्तुत्या तथा प्रीता गच्छन्तः पृश्निमातरः ॥७१॥
अवमुच्य स्ववश्नोभ्यो रुक्मं तस्मै तदा ददुः।
मरुत्सु तु प्रयातेषु श्यावाश्वः सुमहायशाः ॥७२॥
रथवीतेर्दुहितरम् अगच्छन्मनसा तदा।
स सद्य ऋषिरात्मानं प्रवक्ष्यन् रथवीतये ॥७३॥
एतं मे स्तोममित्याभ्यां दौत्ये रात्रीं न्ययोजयत् ।
रथवीतिमपश्यन्तीं संप्रेक्ष्यार्षेण चक्षुषा ॥७४॥
रम्ये हिमवतः पृष्ठे एष क्षेतीति चाब्रवीत् ।
ऋषेर्नियोगमाज्ञाय देव्या रात्र्या प्रचोदितः ॥७२॥
आदाय कन्यां तां दार्भ्य उपेयायार्चनानसम् ।
पादौ तस्योपसंगृह्य स्थित्वा प्रह्वः कृताञ्जलिः ॥७६॥
रथवीतिरहं दार्भ्य इति नाम शशंस च।
मया संगतिमिच्छन्तं त्वां प्रत्याचक्षि यत्पुरा ॥७७॥
तत्क्षमस्व नमस्तेऽस्तु मा च मे भगवन्क्रुधः ।
ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः ॥७८॥
हन्त प्रतिगृहाणेमां स्नुषामित्येवमब्रवीत् ।
पाद्यार्घ्यमधुपर्कैश्च पूजयित्वा स्वयं नृपः ॥७९॥
शुक्लमश्वशतं दत्त्वा अनुजज्ञे गृहान्प्रति ।
शशीयसीं तरन्तं च पुरुमीळ्हं च पार्थिवम् ॥८०॥
षडभिःसनदिति स्तुत्वा जगामर्षिरपि क्षयम् ।
ऋतेन मैत्रावरुणान्य् एकादश पराणि तु ॥८१॥
 षडश्विनानि गर्भार्थं पञ्चर्चोपनिषत्स्तुतिः।
सप्त कृत्वापराधान्यै विफले दारसंग्रहे ॥८२॥
ऋषिः कृतोऽश्वमेधेन भारतेनेति वै श्रुतिः।
तमष्टमेऽपराधे तु वृक्षद्रोण्यां स पार्थिवः ॥८३॥
ऋबोसे ह विनिक्षिप्य स्कन्नं रात्रौ न्यधारयत् ।
सोऽश्विनाविति सूक्तेन तुष्टावर्षिः शुभस्पती ॥८४॥
तौ तं तस्मात्समुद्धृत्य चक्रतुः सफलं पुनः ।
तृचः स्वस्यैव गर्भार्थं स्वपतस्तस्य गर्भवत् ॥८५॥
यथा वात इति ज्ञेये त्वश्विन्यामितरे ऋचौ।
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ॥८६॥
भाववृत्तं तु तद्वत्स्यात् तथारूपं हि दृश्यते।
जरायुगर्भशब्दाभ्याम् एतद्रूपं हि दृश्यते ॥८७॥
महे उषस्ये सावित्रे युञ्जतेऽच्छेति वै स्तुतः।
पर्जन्यो बलिति त्वस्मिन् पृथिवी मध्यमा स्तुता ॥८८॥
अद्या नो देव सवितर् इयं दुःस्वप्ननाशनी ।
वारुणं तु प्र सम्राजे इन्द्राग्न्यैन्द्राग्नमुत्तरम् ॥८९॥
विष्णुन्यङ्गं परं प्रेति मारुतं सूक्तमुत्तमम् ।
एवयामरुदाख्यातं द्योर्नैन्द्रं प्रतिपूर्वकम् ॥९०॥
श्रीसूक्तमाशीर्वादस्तु श्रीपुत्राणां पराणि षट् ।
तत्स्याद्वा लक्ष्म्यपनुदम् अग्निस्तत्र निपातभाक् ॥९१॥
प्रजावज्जीवपुत्रौ वा गर्भकर्मणि संस्तुतौ ।
नानारूपा पयस्विन्यः संस्रवन्तीति संस्तुताः ॥९२॥
आशीर्वादेषु संज्ञाषु कर्मसंस्थासु देवता ।
निपातभाग् लिङ्गवाक्यात् परीक्षेतेह मन्त्रवित् ॥९३॥
मन्त्र प्रयोगमन्त्रयोः प्रयोगो बलवत्तरः ।
विधेस्तयोः परीक्षा स्यान् मन्त्राः स्युरभिधायकाः ॥९४॥
तस्मात्तेन विसंवादो मन्त्राणां तद्गतानि तु ।
गुणाभिधायकानि स्युः संविज्ञानपदानि तु ॥९५॥
मन्त्रेषु गुणभूतेषु प्रधानेषु च कर्मसु ।
प्रधानगुणभूताः स्युर् देवता इति गम्यते ॥९६॥
त्रिसांवत्सरिकं सत्त्रं प्रजाकामः प्रजापतिः।
आहरत्सहितः साध्यैर् विश्वैर्देवैः सहेति च ॥९७॥
तत्र वाग्दीक्षणीयायाम् आजगाम शरीरिणी।
तां दृष्ट्वा युगपत्तत्र कस्थाथ वरुणस्य च ॥९८॥
शुक्रं चस्कन्द तद्वायुर् अग्नौ प्रास्यद्यदृच्छया।
ततोऽर्चिभ्यो भृगुर्जज्ञे अङ्गारेष्वङ्गिरा ऋषिः ॥९९॥
प्रजापति सुतौ दृष्ट्वा दृष्टा वागभ्यभाषत।
आभ्यामृषिस्तृतीयोऽपि भवेदत्रैव मे सुतः ॥१००॥
प्रजापतिस्तथेत्युक्तः प्रत्यभाषत भारतीम् ॥
ऋषिरत्रिस्ततो जज्ञे सूर्यानलसमद्युतिः ॥१०१॥
योऽङ्गारेभ्य ऋषिर्जज्ञे तस्य पुत्रो बृहस्पतिः।
बृहस्पतेर्भरद्वाजो विदथीति य उच्यते ॥१०२॥
मरुत्स्वासीद्गुरुर्यश्च स एवाङ्गिरसो नपात् ।
सपुत्रस्य तु तस्यैतन् मण्डलं षष्ठमुच्यते ॥१०३॥
त्वं ह्यग्न इति तत्रादाव् आग्नेयानि त्रयोदश।
सूक्तानि त्रीणि मूर्धानत् अग्नेर्वैश्वानरस्य तु ॥१०४॥
एकान्नत्रिंशदेवात्र पिबेत्यैन्द्राण्यतः परम् ।
अग्ने स क्षेषदित्यस्यां देवौ यौ तु निपातितौ ॥१०५॥
प्रोतये नू म इत्येते वैश्वदेव्यावृचौ स्मृते ।
ऋग्द्वितीया पदं चान्त्यम् ऐन्द्रमेति गवां स्तुतिः ॥१०६॥
आसस्राणास इत्यस्यां वायुरिन्द्रश्च संस्तुतौ ।
इन्द्रः प्राधान्यतो वात्र स्तुतो वायुर्निपातभाक् ॥१०७॥
अयं देवस्तृचं सौम्यम् ऐन्द्रमेके प्रचक्षते ।
य आनयदिति त्वस्य तृचोऽधीति बृबुस्तुतिः ॥१०८॥
पितरं स्तौति शंयुश्च तृचस्यान्त्ये पदे स्वकम् ।
स्वादुष्किलायमिति तु सौम्यः पञ्चर्च उत्तरः ॥१०९॥
इन्द्रः प्रधानतो वात्र स्तुतः सोमो निपातभाक्।
इन्द्रस्येन्द्रयोऽनुपानीयाः श्रूयन्ते ह्यैतरेयके ॥११०॥
अगव्यूति स्तौति देवान् पादो भूमिमथोत्तरः।
बृहस्पतिं तृतीयस्तु इन्द्रमेवोत्तमं पदम् ॥१११॥
वनस्पते वीड्वङ्गः परं यत् तदाचार्या भाववृत्तं वदन्ति ।
ऋचस्तु तिस्रस्तु रथाभिमर्शना उपेति तिस्रो दुन्दुभेः संस्तवोऽत्र ॥११२॥
समश्वपर्णा इति चार्यमैन्द्रं दशादितोऽग्नेस्तृणपाणिकस्य।
तृचः परो मारुतः पृश्निसूक्ते द्वृचः परो वैश्वदेवः पुनश्च ॥११३॥
आदित्यो वा मारुत एव वा स्याद्
आ मा पूषन्निति पौष्णाश्चतस्रः।
द्वृचं परं मारुतं तत्र विद्याद्
अन्त्या द्युभ्वोः कीर्तना पृश्नये वा ॥११४॥
स्तुषे सूक्तानि वै चत्वारि वैश्वदेवान्यतः परम् ।
द्वितीयाग्निं चतुर्थी च वायुं पञ्चम्यथाश्विनौ ॥११५॥
स्तौत्यृक् तु सप्तमी वाचम् अत्र पूषणमष्टमी ।
त्वष्टारं नवमो रुद्रं भुवनस्येत्यथोत्तरे ॥११६॥
मारुत्यौ यो रजांसीति विष्णुमेव जगावृषिः।
अभ्यन्द्रयेति च सावित्री रौदस्याग्नेव्युताश्विनी ॥११७॥
अग्नीपर्जन्यावनयो सौर्यौ चोदु त्यदित्यृचौ ।
वयं चत्वारि पौष्णानि त्वैन्द्रापौष्णस्य चोत्तरम् ॥११८॥
रथीतमं कपर्दिनं रौद्रमेके प्रचक्षते ।
ऐन्द्राग्ने प्र नु वोचेति इयं सारस्वतं स्तुषे ॥११९॥
आश्विने चोषसे चैव मारुतं तु वपुर्न्विति।
उपेति च द्वृचेऽश्विभ्याम् आराधनं च शंसति ॥१२०॥
मैत्रावरुणमेवैकं विश्वेषां वः सतामिति ।
श्रुष्टीति चैन्द्रावरणं समैन्द्रावैष्णवं परम् ॥१२१॥
द्यावापृथिव्यौ सविता इन्द्रासोमौ बृहस्पतिः।
पृथक्पृथक् परैः सूक्तैः सोमारुद्रेति तौ स्तुतौ ॥१२२॥
चक्रं रथो मणिर्भार्या भूमिरश्वो गजस्तथा।
एतानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम् ॥१२३॥
अभ्यावर्ती चायमानः प्रस्तोकश्चैव सार्ञ्जयः ।
आजग्मतुर्भरद्वाजं जितौ वारशिखैर्युधि ॥१२४॥
अभिगम्योचतुस्तौ तं प्रसाद्याख्याय नामनी ।
युधि वारशिवैर्ब्रह्मन्न् आवां विद्धि विनिर्जितौ ॥१२५॥
भवत्पुरोहितावावां क्षत्रबन्धूञ्जयेवहि ।
क्षत्रं तदपि विज्ञेयं ब्रह्म यत्पाति शाश्वतम् ॥१२६॥
ऋषिस्तौ तु तथेत्युक्त्वा पायुं पुत्रमभाषत।
अधर्षणीयौ शत्रूणां कुरुष्वैतौ नृपाविति ॥१२७॥
पितरं स तथेत्युक्त्वा युद्धोपकरणं तयोः ।
जीमूतस्येति सूक्तेन पृथक्त्वेनान्वमन्त्रयत् ॥१२८॥
प्रथमा त्वस्य सूक्तस्य योद्धारं स्तौति वर्मिणम् ।
धनुषश्च द्वितीया तु तृतीया ज्याभिमन्त्रिणी ॥१२९॥
स्तौत्यृगार्त्नी तु इषुधिं स्तौति पञ्चमी ।
अर्धेन सारथिः षष्ठ्या रश्मयोऽर्धेन संस्तुतः ॥१३०॥
अश्वांस्तु सप्तमी स्तौति आयुधागारमष्टमी।
नवमी रथगोपांस्तु दशमी रणदेवताः ॥१३१॥
इषुं चैकादशी स्तौति द्वादशी कवचस्तुतिः।
त्रयोदशी कशां स्तौति हस्तत्राणं चतुर्दशी ॥१३२॥
प्रथमे पञ्चदश्यास्तु पादे दिग्ध इषु स्तुतः।
अयोमुखी द्वितीये तु अर्धेऽस्त्रं वारुणं परे ॥१३३॥
षोळश्यां त्वस्य सूक्तस्य धनुर्मुक्त इषु स्तुतः।
सप्तदश्यां तु युद्धादेः कवचस्य तु बध्यतः ॥१३४॥
स्तुतिरष्टादशी ज्ञेया युयुत्सो स्तुतिरुत्तमा।
आशास्ते चोत्तमे पादे ऋषिरात्मन अशिषः ॥१३५॥
सूक्तनानेन तु स्तुत्वा संग्रामाङ्गान्यृषिस्तयोः।
ततः प्रस्थापयामास पुनर्वारशिखान्प्रति ॥१३६॥
एतत्त्यत्ते चतसृभी राज्ञो साहाय्यकाम्यया।
भरद्वाजोऽभितुष्टाव प्रोतस्तेन पुरंदरः ॥१३७॥
अभ्यावर्तिनमभ्येत्य हर्युपीयानदीतटे ।
सहितश्चायमानेन जघानैनान्छचीपतिः ॥१३८॥
तौ तु वारशिखाञ्जित्वा ततोऽभ्यावर्तिसार्ञ्जयौ।
भरद्वाजाय गुरवे ददतुर्विविधं वसु ॥१३९॥
भरद्वाजश्च गर्गश्च दृष्टाविन्द्रेण वै पथि ।
द्वयान् प्रस्तोक इत्याभिर् दानं तद्वै शशंसतुः ॥१४०॥
ऋषिरप्यभितुष्टाव दानं तत्र च तस्य तु ।
ऋचैकया द्वयाँ अग्ने दत्तं संकीर्तयन् स्वयम् ॥१४१॥
प्रसङ्गात्त्विह याः सूक्ते देवताः परिकीर्तिताः।
ता एव सूक्तभाजस्तु मेने रथीतर स्तुतौ ॥१४२॥
प्राजापत्यो मरीचिर्हि मारीचः कश्यपो मुनिः।
तस्य देव्योऽभवञ्जाया दाक्षायण्यस्त्रयोदश ॥१४३॥
अदितिदितिर्दनुः काला दनायुः सिंहिका मुनिः।
क्रोधा विश्वा वरिष्टा च सुरभिर्विनता तथा ॥१४४॥
कद्रूश्चैवेति दुहितः कश्यपाय ददौ स च ।
तासु देवासुराश्चैव गन्धर्वोरगराक्षसाः ॥१४५॥
वयांसि व पिशाचाश्च जज्ञिरेऽन्याश्च जातयः।
तत्रैका त्वदितिर्देवी द्वादशजनयत्सुतान् ॥१४६॥
भगश्चैवार्यमांशश्च मित्रो वरुण एव च ।
धाता चैव विधाता च विवस्वांश्च महाद्युतिः ॥१४७॥
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।
द्वन्द्वं तस्यास्तु तज्जज्ञे मित्रश्च वरुणश्च ह ॥१४८॥
तयोरादित्ययोः सत्त्रे दृष्ट्वाप्सरसमुर्वशीम् ।
रेतश्चस्कन्द तत्कुम्भे न्यपतद्वासतीवरे ॥१४९॥
तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ ।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी संबभूवतः ॥१५०॥
बहुधा पतिते शुक्रे कलशेऽथ जले स्थले॥
स्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः ॥१५१॥
कुम्भे त्वगस्त्यः संभूतो जले मत्स्यो महाद्युतिः।
उदियाय ततोऽगस्त्यः शम्यामात्रो महायशाः ॥१५२॥
मानेन संमितो यस्मात् तस्मान्मान्य इहोच्यते ।
यद्वा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते ॥१५३॥
कुम्भ इत्यभिधानं तु परिमाणस्य लक्ष्यते।
ततोऽप्सु गुह्यमाणासु वसिष्ठः पुष्करे स्थितः ॥१५४॥
१५५ ज्ञात नाही
नामास्य गुणतो जज्ञे वसतेः श्रैष्ठ्यकर्मणः ।
अदृश्यमृषिभिर्हीन्द्रं सोऽपश्यत्तपसा पुरा ॥१५६॥
सोमभागानथो तस्मै प्रोवाच हरिवाहनः ।
ऋषयो वा इन्द्रमिति ब्राह्मणात्तद्धि दृश्यते ॥१५७॥
वसिष्ठश्च वसिष्ठाश्च ब्राह्मणा ब्रह्मकर्मणि ।
सर्वकर्मसु यज्ञेषु दक्षिणीयतमास्तथा ॥१५८॥
तस्माद्येऽद्यापि वासिष्ठाः सदस्याः स्युस्तु कर्हिचित् ।
अर्हयेद्दक्षिणाभिस्तान् भाल्लवेयी श्रुतिस्त्वियम् ॥१५९॥
ऋषिस्तु मैत्रावरुणिः सूक्तैः षोळशभिः परैः।
तुष्टावाग्निमिति त्वग्निम् आप्र्यस्तत्र जुषस्व नः ॥१६०॥
प्राग्नयेऽथ प्र सम्राजो द्वितीयं प्राग्नये तृचम् ।
वैश्वानरीयाण्येतानि त्वे हैन्द्राणि पराण्यतः ॥१६१॥
दश पञ्च च सूक्तानि निपातो मरुतां स्तुतिः।
नकिः सुदास इत्यस्यां दानं पैजवनस्य तु ॥१६२॥
वसिष्ठेन चतुर्भिस्तु द्वे नप्तुरिति कीर्तितम् ॥
संवादं सूक्तमैन्द्रं वा श्वित्यञ्चस्तु प्रचक्षते ॥१६३॥
वसिष्ठागस्त्ययोरत्र कीर्त्यते तनयैः सह ।
इन्द्रेण चैव संवादो महिमा जन्म कर्म च ॥१६४॥
पराणि प्रेति चत्वारि वैश्वदेवानि तत्र तु।
स्तोत्यृगब्जामहिं तत्र मा नोऽहिं बुध्न्यमेव च ॥१६५॥
अहिराहन्ति मेघान्स एति वा तेषु मध्यमः।
योऽहिः स बुध्न्यो वुध्ने हि णोऽन्तरिक्षेऽभिजायते ॥१६६॥
उदु ष्य सवितुः सूक्तं शं नो वाजिनदैवतः।
द्वृचोऽर्धर्चश्च भागोऽत्र भगमुग्र इति श्रुतिः ॥१६७॥
पादश्चैव तृतीयोऽत्र पञ्चम्यामहिदैवतः।
यथार्धर्चो भगमुग्रस् तथा नूनं भगोऽपि च ॥१६८॥
स हि रत्नानि सविता सुवातीति भगः स वा।
वैश्वदेवानि पञ्चोर्ध्वः पञ्चर्चो भगदैवतः ॥१६९॥
प्रातर्जितमुषस्यान्त्या द्रष्टृभ्योऽत्राशिरेव वा।
एके तु द्रातरित्यस्यां भगमेव प्रचक्षते ॥१७०॥
आदावन्ते तु ऋषयः कीर्तयन्ति प्रसङ्गतः।
सूक्तेऽस्मिन्देवतास्त्वन्या अन्यास्तत्र भवन्ति च ॥१७१॥
सालोक्यात्साहचर्याद्वा संस्तवादथवा पुनः ।
गणस्थानाद्भक्तितो वा कीर्त्यन्तेऽन्यास्तु देवताः ॥१७२॥
दाधिक्रमथ सावित्रं रौद्रमित्यनुपूर्वशः।
दाधिके प्रथमायास्तु देवताः परिकीर्तिताः ॥१७३॥
ता ज्ञेया आप आप्यं स्याद् आर्भवः प्रथमस्तृचः।
उत्तमा वैश्वदेवी वा आर्भवी वा निगद्यते ॥१७४॥
वैश्वदेवे तथा शास्त्रे आर्भवं शस्यते हि तत् ।
दशमेऽह्नि समस्तं समुद्रज्येष्ठा अपां स्तुतिः ॥१७५॥

॥ इति बृहद्देवतायां पञ्चमोऽध्यायः ॥

N/A

References : N/A
Last Updated : March 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP