संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहद्देवता| प्रथमोऽध्यायः बृहद्देवता माहिती प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः बृहद्देवता - प्रथमोऽध्यायः बृहद्देवता संस्कृत भाषेतील छंदशास्त्र ह्या विषयातील शौनकऋषींनी रचलेला एक प्राचीन ग्रंथ आहे.The Bruhaddevatā (Sanskrit: बृहद्देवता), is a metrical Sanskrit work, traditionally ascribed to Shaunaka. Tags : bruhaddevatasanskritबृहद्देवतासंस्कृत प्रथमोऽध्यायः Translation - भाषांतर ॥ अथ शौनकीयबृहद्देवताप्रारम्भः ॥मन्त्रदृग्भ्यो नमस्कृत्वा समाम्नायानुपूर्वशः ।सूक्तर्गर्धर्चपादानाम् ऋग्भ्यो वक्ष्यामि दैवतम् ॥१॥वेदितव्यं दैवतं हि मन्त्रे मन्त्रे प्रयत्नतः ।दैवतज्ञो हि मन्त्राणां तदर्थमवगच्छति ॥२॥ तद्धितांस्तदभिप्रायान् ऋषीणां मन्त्रदृष्टिषु ।विज्ञापयति विज्ञानं कर्माणि विविधानि च ॥३॥न हि कश्चिदविज्ञाय याथातथ्येन दैवतम् ।लौक्यानां वैदिकानां वा कर्मणां फलमश्नुते ॥४॥प्रथमो भजते त्वासां वर्गोऽग्निमिह दैवतम् ।द्वितीयो वायुमिन्द्रं वा तृतीयः सूर्यमेव च ॥५॥अर्थमिच्छन्नृषिर्देंवं यं यमाहायमस्त्विति ।प्राधान्येन स्तुवन्भक्त्या मन्त्रस्तद्देव एव सः ॥६॥स्तुतिस्तु नाम्ना रूपेण कर्मणा बान्धवेन च ।स्वर्गायुर्धनपुत्राद्यैर् अर्थैराशीस्तु कथ्यते ॥७॥स्तुत्याशिषौ तुऽ यास्वृक्षु दृश्येतेऽल्पास्तु ता इह ।ताभ्याश्चाल्पतरास्ताः स्युः स्वर्गो याभिस्तु याच्यते ॥८॥स्तुवन्तं वेद सर्वोऽयम् अर्थयत्येष मामिति ।स्तौतीत्यर्थं ब्रुवन्तं च सार्थं मामेष पश्यति ॥९॥स्तुवद्भिर्वा ब्रुवद्भिर्वा ऋषिभिस्तत्त्वदर्शिभिः ।भवत्युभयमेवोक्तम् उभयं ह्यर्थतः समम् ॥१०॥प्रत्यक्षं देवतानाम यस्मिन्मन्त्रेऽभिधीयते ।तामेव देवतां विद्यान् मन्त्रे लक्षणसंपदा ॥११॥तस्मात्तु देवतां नाम्ना मन्त्रे मन्त्रे प्रयोगवित् ।बहुत्वमभिधानां च प्रयत्नेनोपलक्षयेत् ॥१२॥सम्पूर्णमृषिवाक्यं तु सूक्तमित्यभिधीयते ।दृश्यन्ते देवता यस्मिन्न् एकस्मिन् बहुषु द्वयोः ॥१३॥देवतार्षार्थछन्दस्तो वैविध्यं च प्रजायते ।ऋषिसूक्तं तु यावन्ति सूक्तान्येकस्य वै स्तुतिः ॥१४॥श्रूयन्ते तानि सर्वाणि ऋषेः सूक्तं हि तस्य तत् ।यावदर्थसमाप्तिः स्याद् अर्थसूक्तं वदन्ति तत् ॥१५॥समानछन्दसो याः स्युस् तच्छन्दः सूक्तमुच्यते ।वैविध्यमेवं सूक्तानाम् इह विद्याद्यथातथम् ॥१६॥देवतानामधेयानि मन्त्रेषु त्रिविधानि तु ।सूक्तभाञ्ज्यथवरभाञ्जि तथा नैपातिकानि तु ॥१७॥सूक्तभाञ्जि भजन्ते वै सूक्तान्यृग्भाञ्जि वै ऋचः ।मन्त्रैऽन्यदैवतेऽन्यानि निगद्यन्तेऽत्र कानिचित् ॥१८॥सालोक्यात्साहचर्याद्वा तानि नैपातिकानि तु ।तस्माद्बहुप्रकारेऽपि सूक्ते स्यात्सूक्तभागिनी ॥१९॥देवता तद्यथा सूक्तम् अविशेष्यं प्रतीयते ।भिन्ने सूक्ते वदेदेव देवतामिह लिङ्गतः ॥२०॥तत्र तत्र यथावच्च मन्त्रान्कर्मसु योजयेत् ।देवतायाः परिज्ञानात् तद्धि कर्म समृध्यते ॥२१॥आद्यन्तयोस्तु सूक्तानां प्रसङ्गपरिकीर्तनात् ।स्तोतृभिर्देवता नाम्ना उपेक्षेतेह मन्त्रवित् ॥२२॥तत्खल्वाहुः कतिभ्यस्तु कर्मभ्यो नाम जायते ।सत्त्वानां वैदिकानां वा यद्वान्यदिह किंचन ॥२३॥नवभ्य इति नैरुक्ताः पुराणाः कवयश्च ये ।मधुकः श्वेतकेतुश्च गालवश्चैव मन्वते ॥२४॥निवासात्कर्मणो रूपान् मङ्गलाद्वाच आशिषः ।यदृच्छयोपवसनात् तथामुष्यायणाच्च यत् ॥२५॥चतुर्भ्य इति तत्राहुर् यास्कगार्ग्यरथीतराः ।आशिषोऽथार्थवैरूप्याद् वाचः कर्मण एव च ॥२६॥सर्वाण्येतानि नामानि कर्मतस्त्वाह शौनकः ।आशी रूपं च वाच्यं च सर्वं भवति कर्मतः ॥२७॥यदृच्छयोपवसनात् तथामुष्यायणाच्च यत् ।तथा तदपि कर्मैव तच्छृणुध्वं च हेतवः ॥२८॥प्रजाः कर्मसमुत्था हि कर्मतः सत्त्वसंगतिः ।क्वचित्संजायते सच्च निवासात्तत्प्रजायते ॥२९॥यादृच्छिकं तु नामाभिधीयते यत्र कुत्रचित् ।औपम्यादपि तद्विद्याद् भावस्यैवेह कस्यचित् ॥३०॥नाकर्मकोऽस्ति भावो हि न नामास्ति निरर्थकम् ।नान्यत्र भावान्नामानि तस्मात्सर्वाणि कर्मतः ॥३१॥मङ्गलात्क्रियते यच्च नामोपवसनाच्च यत् ।भवत्येव तु सा ह्याशीः स्वस्त्यादेर्मङ्गलादिह ॥३२॥अपि कुत्सितनामायम् इह जीवेत्कथं चिरम् ।इति क्रियन्ते नामानि भूतानां विदितान्यपि ॥३३॥मन्त्रा नानाप्रकाराः स्युर् दृष्टा ये मन्त्रदर्शिभिः ।स्तुत्या चैव विभूत्या च प्रभावाद्देवतात्मनः ॥३४॥स्तुतिः प्रशंसा निन्दा च संशयः परिदेवना ।स्पृहाशीः कत्थना याञ्चा प्रश्नः प्रैषः प्रवह्लिका ॥३५॥नियोगश्चानुयोगश्च श्लाघा विलपितं च यत् ।आचिख्यासाथ संलापः पवित्राख्यानमेव च ॥३६॥आहनस्या नमस्कारः प्रतिराधस्तथैव च ।संकल्पश्च प्रलापश्च प्रतिवाक्यं तथैव च ॥३७॥प्रतिषेधोपदेशौ च प्रमादापह्नवौ च ह ।उपप्रैषश्च यः प्रोक्तः संज्वरो यश्च विस्मयः ॥३८॥आक्रोशोऽभिष्टवश्चैव क्षेपः शापस्तथैव च ।उपसर्गो निपातश्च नाम चाख्यातमित्यपि ॥३९॥भूतं भव्यं भविष्यं च पुमान् स्त्री च नपुंसकम् ।एवंप्रकृतयो मन्त्राः सर्ववेदेषु सर्वशः ॥४०॥वाक्यार्थदर्शनार्थीया ऋचोऽर्धर्चाः पदानि च ।ब्राह्मणे चाथ कल्पे च निगद्यन्तेऽत्र कानिचित् ॥४१॥शब्देनोच्चरितेनेह येन द्रव्यं प्रतीयते ।तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥४२॥अष्टौ यत्र प्रयुज्यन्ते नानार्थेषु विभक्तयः ।तन्नाम कवयः प्राहुर् भेदे वचनलिङ्गयोः ॥४३॥क्रियासु बह्वीष्वभिसंश्रितो यः पूर्वापरीभूत इहैक एव ।क्रियाभिनिर्वृत्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः ॥४४॥क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् ।संख्याविभक्त्यव्ययलिङ्गयुक्तो भावस्तदा द्रव्यमिवोपलक्ष्यः ॥४५॥यथा नानाविधैः शब्दैर् अपश्यन्नृषयः पुरा ।विविधानीह वाक्यानि तान्यनुक्रमतः शृणु ॥४६॥रूपादिभि स्तुतिः प्रोक्ता आशीः स्वर्गादिभिस्तथा ।यानि वाक्यान्यतोऽन्यानि तान्यपि स्यूरनेकधा ॥४७॥मन्त्रे प्रशंसा भोजस्य चित्र इत् सोभरे स्तुतिः ।आक्रोशार्थास्तु दृश्यन्ते माता चेत्यभिमेथति ॥४८॥ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वचि ॥४९॥आशीस्तु वात आ वातु दण्डेति परिदेवना ।प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक् ॥५०॥संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः ।इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ॥५१॥इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे ।प्रतिषेधोपदेशौ तु अक्षैर्मेत्यक्षसंस्तुतौ ॥५२॥आख्यानं तु हये जाये विलापः स्यान्नदस्य मा ।अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ॥५३॥नमस्कारः शुनःशेपे नमस्ते अस्तु विद्युते ।संकल्पयन्निदं तुल्योऽहं स्यामिति यदुच्यते ॥५४॥संकल्पस्तु यदिन्द्राहं प्रलापस्त्वैतशस्य यः ।महानग्न्याहनस्या स्यात् प्रतिराधो भुगित्यपि ॥५५॥प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः ।इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ॥५६॥होता यक्षदिति प्रैषः को अद्येति तु विस्मयः ।जामयेऽपह्नवो नैषा विततादिः प्रवल्हिका ॥५७॥न मृत्युरासीदित्येताम् आचिख्यासां प्रचक्षते ।अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे ॥५८॥बह्वप्येवंप्रकारं तु शक्यं द्रष्टुमितीदृशम् ।वक्तुं प्रयोगतश्चैषाम् ऋक्सूक्तार्धर्चसंश्रितम् ॥५९॥एते तु मन्त्रवाक्यार्था देवतां सूक्तभागिनीम् ।संश्रयन्ते यथान्यायं स्तुतिस्त्वत्रानुमानिकी ॥६०॥भवद्भूस्य भव्यस्य जङ्गमस्थावरस्य च ।अस्यैके सूर्यमेवैकं प्रभवं प्रलयं विदुः ॥६१॥असतश्च सतश्चैव योनिरेषा प्रजापतिः ।यदक्षरं च वाच्यं च यथैतद्ब्रह्म शाश्वतम् ॥६२॥कृत्वैष हि त्रिधात्मानम् एषु लोकेषु तिष्ठति ।देवान्यथायथं सर्वान् निवेश्य स्वेषु रश्मिषु ॥६३॥एतद्भूतेषु लोकेषु अग्निभूतं स्थितं त्रिधा ।ऋषयो गीर्भिरर्चन्ति व्यञ्जितं नामभिस्त्रिभिः ॥६४॥तिष्ठत्येष हि भूतानां जठरे जठरे ज्वलन् ।त्रिस्थानं चैनमर्चन्ति होत्रायां वृक्तबर्हिषः ॥६५॥इहैष पवमानोऽग्निर् मध्यमोऽग्निर्वनस्पतिः ।अमुष्मिन्नेव विप्रस्तु लोकेऽग्निः शुचिरुच्यते ॥६६॥इहाग्निभूतस्त्वृषिभिर् लोके स्तुतिभिरीळितः ।जातवेदा स्तुतो मध्ये स्तुतो वैश्वानरो दिवि ॥६७॥रसान् रश्मिभिरादाय वायुनायं गतः सह ।वर्षत्येव च यल्लोके तेनेन्द्र इति स स्मृतः ॥६८॥अग्निरस्मिन्नथेन्द्रस्तु मध्यतो वायुरेव च ।सूर्यो दिवीति विज्ञेयास् तिस्र एवेह देवताः ॥६९॥एतासामेव माहात्म्यान् नामान्यत्वं विधीयते ।तत्तत्स्थानविभागेन तत्र तत्रेह दृश्यते ॥७०॥तासामियं विभूतिर्हि नामानि यदनेकशः ।आहुस्तासां तु मन्त्रेषु कवयोऽन्योन्ययोनिताम् ॥७१॥यथास्थानं प्रदिष्टास्ता नामान्यत्वेन देवताः ।तद्भक्तास्तत्प्रधानाश्च केचिदेवं वदन्ति ताः ॥७२॥पृथक्पुरस्ताद्ये तूक्ता लोकादिपतयस्त्रयः ।तेषामात्मैव तत्सर्वं यद्यद्भक्तिः प्रकीर्त्यते ॥७३॥तेजस्त्वेवायुधं प्राहुर् वाहनं चैव यस्य यत् ।इमामैन्द्रीं च दिव्यां च वाचमेवं पृथक् स्तुताम् ॥७४॥बहुदेवता स्तुतयो द्विवत्संस्तुतयश्च याः ।प्राधान्यमेव सर्वासु पतीनामेव तास्वपि ॥७५॥स्थानं नामानि भक्तीश्च देवताया स्तुतौ स्तुतौ ।संपादयन्नुपेक्षेत यां कांचिदिह संपदम् ॥७६॥अग्निभक्तिस्तुतान्सर्वान् अग्नावेव समापयेत् ।यदिन्द्रभक्ति तच्चेन्द्रे सूर्ये सूर्यानुगं च यत् ॥७७॥निरुप्यते हविर्यस्यै सूक्तं च भजते च या ।सैव तत्र प्रधानं स्यान् न निपातेन या स्तुता ॥७८॥इति त्रयाणामेतेषाम् उक्तः सामासिको विधिः ।समासेनैवमुक्तस्तु विस्तरेण त्वनुक्रमः ॥७९॥अवश्यं वेदितव्यो हि नाम्नां सर्वस्व विस्तरः ।नहि नामान्यविज्ञाय मन्त्राः शक्या हि वेदितुम् ॥८०॥सत्त्वान्यमूर्तान्यपि च देवतावन्महर्षयः ।तुष्टुवुर्ऋषयः शक्त्या तासु तासु स्तुतिष्विह ॥८१॥यैस्त्वग्निरिन्द्रः सोमश्च वायुः सूर्यो बृहस्पतिः ।चन्द्रोऽथ विष्णुः पर्जन्यः पूषा चाप्यृभवोऽश्विनौ ॥८२॥रोदसी मरुतो देवाः पृथिव्यापः प्रजापतिः ।देवौ च मित्रावरुणौ पृथक् सह च तावुभौ ॥८३॥विश्वे च देवाः सविता त्वष्टा वै रूपकृन्मतः ।अश्वोऽन्नमृत्विजो वज्रो ग्रावणो रथसंयुताः ॥८४॥स्तुताः पृथक् पृथक् स्वैः स्वैः सूक्तैर्ऋग्भिश्च नामभिः ।स्तुतौ स्तुतौ प्रवक्ष्यामि तानि तेषामनुक्रमात् ॥८५॥व्यवस्येन्मन्त्रमाग्नेयं लिङ्गैरग्नेश्च लक्षितम् ।हविष्पङ्क्तिप्रधानैश्च नामाह्वानैश्च केवलैः ॥८६॥ऐन्द्रस्तु मन्त्रो वायव्यैर् लिङ्गैरैन्द्रैश्च लक्ष्यते ।नामधेयैश्च वज्रस्य बलकृत्या बलेन च ॥८७॥सौर्यस्तु लिङ्गैः सूर्यस्य गुणैः सर्वैश्च तैजसैः ।नामधेयैश्च चन्द्रस्य सूक्तं च भजतेऽत्र यैः ॥८८॥एतासां देवतानां तु नामधेयानुकीर्तनैः ।यस्य यस्येह यावन्ति न व्यवस्यन्त्यतोऽन्यथा ॥८९॥अयं प्रयोगस्त्वेतेषां ज्योतिषां त्रिषु वर्तताम् ।लोकेषु मन्त्रविद्विद्वान् प्रयोगे नावसीदति ॥९०॥नीयतेऽयं नृभिर्यस्मान् नयत्यस्मादसौ च तम् ।तेनेमौ चक्रतुः कर्म सनामानौ पृथक् पृथक् ॥९१॥यद्विद्यते हि जातः सञ् जातैर्यद्वात्र विद्यते ।तेनेमौ तुल्यनामानौ उभौ लोकौ समाप्न्रुतः ॥९२॥विसृजन्नयमेतेषां भ्राजते व्योम्नि मध्यमः ।निपातमात्रे कथ्यन्ते तथाग्नेयानि कानिचित् ॥९३॥अर्चिभिः केश्ययं त्वग्निर् विद्युद्भिश्चैव मध्यमः ।असौ तु रश्मिभिः केशी तेनैनानाह कैशिनः ॥९४॥एतेषां तु पृथक्त्वेन त्रयाणां केशिनामिह ।संलक्ष्यन्ते प्रक्रियासु त्रयः केशिन इत्यृचि ॥९५॥न चैवैषां प्रसूतिर्वा विभूतिस्थानजन्म वा ।निर्वक्तुं शक्यमेतैर्हि कृत्स्नं व्याप्तमिदं जगत् ॥९६॥वैश्वानरं श्रितो ह्यग्निर् अग्निं वैश्वानरः श्रितः ।अनयोर्जातवेदास्तु तथैते जातवेदसी ॥९७॥सालोक्याच्चैकजातत्वाद् व्याप्तिमत्त्वात्तु तेजसः ।तस्य तस्येह देवत्वं दृश्यन्ते च पृथक् स्तुताः ॥९८॥यत्त्वाग्नेयमिति ब्रूमः सूक्तभाक् तत्र पार्थिवः ।जातवेदस्यमित्युक्ते सूक्तेऽस्मिन्मध्यमः स्मृतः ॥९९॥वैश्वानरीयमिति तु यत्र ब्रूमोऽथ वा क्वचित् ।सूर्यः सूक्तस्य भाक् तत्र ज्ञेयो वैश्वानरस्तुतौ ॥१००॥सूर्यप्रसूतावग्नी तु दृष्टौ पार्थिवमध्यमौ ।एतेषामेव लोकानां त्रयाणामध्वरेऽध्वरे ॥१०१॥रोहात्प्रत्यवरोहेण चिकीर्षन्नाग्निमारुतम् ।शस्त्रं वैश्वानरीयेण सूक्तेन प्रतिपद्यते ॥१०२॥ततस्तु मध्यमस्थाना देवतास्त्वनुशंसति ।रुद्रं च मरुतश्चैव स्तोत्रियेऽग्निमिमं पुनः ॥१०३॥यथैतदुक्तमेतेषां विभूतिस्थानसंभवम् ।तथा च देवदेवस्य तत्र तत्रेह दृश्यते ॥१०४॥यद्यत्र पृथिवीस्थानं पार्थिवं चाग्निमाश्रितम् ।तत्सर्वमानुपूर्व्येण कथ्यमानं निबोधत ॥१०५॥जातवेदाः श्रितो ह्यग्निम् अग्निं वैश्वानरः श्रितः ।द्रविणोदास्तथेध्मश्च श्रितश्चाग्निं तनूनपात् ॥१०६॥नराशंसः श्रितश्चैनम् एनमेवाश्रितस्त्विलः ।बर्हिर्द्वारश्च देव्योऽग्निम् एनमेव तु संश्रिताः ॥१०७॥नक्तोषासा च दैव्यौ च होतारावेतदाश्रयौ ।देव्यस्तिस्रः श्रिताश्चैनं त्वष्टा चैवैतदाश्रयः ॥१०८॥श्रितो वनस्पतिश्चैनं स्वाहाकृतय एव च ।अश्वश्च शकुनिश्चैव मण्डूकाश्चैतदाश्रयाः ॥१०९॥ग्रावाणश्चैनमक्षाश्च नराशंसस्तथा रथः ।दुन्दुभिश्चेषुधिञ्चैनं हस्तघ्नोऽभीशवो धनुः ॥११०॥ज्या च तदाश्रितेषुश्च श्रिता अश्वाजनी च या ।वृषभो द्रुघणश्चैनम् एनं पितुरुलूखलम् ॥१११॥नद्यश्चैवैनमापश्च सर्वा ओषधयश्च ह ।रात्र्यप्वाग्नाय्यरण्यानी श्रद्धेळा पृथिवी तथा ॥११२॥भजेते चैनमेवार्ली द्वन्द्वभूते च रोदसी ।मुसलोलूखले चैनं हविर्धाने च ये स्मृते ॥११३॥जोष्ट्री चोर्जाहुती चैनं शुतुद्र्या च विपाट् सह ।यौ च देवौ शुनासीरौ तौ चाग्नी चैतदाश्रयौ ॥११४॥लोकोऽयं यच्च वै प्रातः सवनं क्रियते मखे ।वसन्तशरदौ चर्तुं स्तोमोऽनुष्टुबथो त्रिवृत् ॥११५॥गायत्री चैकविंशश्च यच्च साम रथंतरम् ।साध्याः साम च वैराजम् आप्त्याश्च वसुभिः सह ॥११६॥इन्द्रेण च मरुद्भिश्च सोमेन वरुणेन च ।पर्जन्येनर्तुभिश्चैव विष्णुना चास्य संस्तवः ॥११७॥अस्यैवाग्नेस्तु पूष्णा च साम्राज्यं वरुणेन च ।देवतामर्थतत्त्वज्ञो मन्त्रैः संयोजयेद्धविः ॥११८॥असंस्तुतस्यापि सतो हविरेकं निरुप्यते ।देवतावाहनं चैव वहनं हविषां तथा ॥११९॥कर्म दृष्टे च यत्किंचिद् विषये परिवर्तते ।इत्युक्तोऽयं गणः सर्वः पृथिव्यग्न्याश्रयो महान् ॥१२०॥यश्चैन्द्रो मध्यमस्थानो गणः सोऽयमतः परः ।विमानानि च दिव्यानि गणश्चाप्सरसां तथा ॥१२१॥इन्द्राश्रयस्तु पर्जन्यो रुद्रो वायुर्बृहस्पतिः ।वरुणः कश्च मृत्युश्च देवश्च ब्रह्मणस्पतिः ॥१२२॥मन्युश्च विश्वकर्मा च मित्रः क्षेत्रपतिर्यमः ।तार्क्ष्यो वास्तोष्पतिश्चैव सरस्वांश्चैवमत्र ह ॥१२३॥अपांनपाद्दधिक्राश्च सुपर्णोऽथ पुरूरवाः ।ऋतोऽसुनीतिर्वेनश्च तस्यैतस्याश्रयेऽदितिः ॥१२४॥त्वष्टा च सविता चैव वातो वाचस्पतिस्तथा ।धाता प्रजापतिश्चैव अथर्वाणश्च ये स्मृताः ॥१२५॥श्येनश्चैवैवमग्निश्च तथेळा चैव या स्मृता ।विधातेन्दुरहिर्बुध्न्यः सोमोऽहिरथ चन्द्रमाः ॥१२६॥विश्वानरश्च वै देवो रुद्राणां संस्तुतो गणः ।मरुतोऽङ्गिरसश्चैव पितरश्चर्भुभिः सह ॥१२७॥राका वाक् सरमाप्त्याश्च भृगवोऽघ्न्या सरस्वती ।यम्युर्वशी सिनीवाली पथ्या स्वस्तिरुषाः कुहूः ॥१२८॥पृथिव्यनुमतिर्धेनुः सीता लाक्षा तथैव गौः ।गौरी च रोदसी चैव इन्द्राण्याश्चैष वै पतिः ॥१२९॥छन्दस्त्रिष्ट्रुप् च पङ्क्तिश्च लोकानां मध्यमश्च यः ।एतेष्वेवाश्रयो विद्यात् सवनं मध्यमं च यत् ॥१३०॥ऋतू च ग्रोष्महेमन्तौ यश्च सामोच्यते बृहत् ।शक्वरीषु च यद्गीतं नाम्ना तत्साम शाक्वरम् ॥१३१॥॥ इति बृहद्देवतायां प्रथमोऽध्यायः ॥ N/A References : N/A Last Updated : March 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP