बृहद्देवता - चतुर्थोऽध्यायः

बृहद्देवता संस्कृत भाषेतील छंदशास्त्र ह्या विषयातील शौनकऋषींनी रचलेला एक प्राचीन ग्रंथ आहे.
The Bruhaddevatā (Sanskrit: बृहद्देवता), is a metrical Sanskrit work, traditionally ascribed to Shaunaka.


ततस्तमर्थं हरिवान्विदित्वा प्रियं सखायं स्वनयं दिदृक्षुः ।
अभ्याजगामाशु शचीसहायः प्रीत्यार्चयत्तं विधिनैव राजा ॥१॥
अभ्याजगामाङ्गिरसी च तत्र हृष्टा तयोः सा चरणौ ववन्दे ।
इन्द्रः सखित्वादथ तामुवाच रोमाणि ते सन्ति न सन्ति राज्ञि ॥२॥
सा बालभावादथ तं जगाद उपोप मे शक्र परामृशेति ।
तां पूर्वया सान्त्व्य नृपः प्रहृष्टो अन्वव्रजत्साथ पतिं पतिव्रतां ॥३॥
अथाग्नेये अग्निमित्युत्तरे यं पञ्चैन्द्राणि प्र तदैन्दव्यृगत्र ।
शं तमिन्द्रापर्वतौ सह स्तुतौ त्विन्द्रं मेन इह यास्कः प्रधानम् ॥४॥
ऋक्षु स्तुतः पर्वतवद्धि वज्रो द्विवत्स्तुतौ चेन्द्रमाहुः प्रधानम् ।
आ त्वा वायोनव पञ्चेन्द्रवाय्वोर् एका वायोरुत्तरं द्विप्रधानम् ॥५॥
तत्र पञ्च वरुणमित्रदेवा दिवादिभ्यः कथिताभ्यः परे द्वे ।
द्वे द्वे पदे संस्तुते रोदसी च देवाश्चार्धर्चेन विभक्तमन्यत् ॥६॥
मैत्रावरुणं सुषुमेति सूक्तं प्रप्र पौष्णं वैश्वदेवं तृतीयम् ।
अस्तु श्रौषड् वैश्वदेवं तृतीयं वैश्वदेवं स्याद्बहुदेवतेषु ॥७॥
बहुशस्तु वैश्वदेवेषु सन्त्यृचः पादार्धर्चा द्वैपदास्त्रैपदाश्च ।
द्विप्रधाना अपि चैकप्रधाना बहुप्रधाना अपि वैश्वदेवाः ८॥
वैश्वदेवी मैत्रावरुणी द्वितीया तिस्रोऽश्विभ्यां तत ऐन्द्री ततोऽग्नेः ।
मारुत्येका तत ऐन्द्राग्न्यनन्तरा बार्हस्पत्या चोत्तमा स्तौति देवान् ॥९॥
ऋषीनृषिर्वा स्तौति दध्यङ्ह मेऽस्याम् आत्मानं वा तेषु शंसन्स्वजन्म ।
तस्मादस्यां विप्रवदन्ति केचिद् इन्द्राग्नी तस्यां तु निपातभाजौ ॥१०॥
द्वावुचथ्यबृहस्पती ऋषिपुत्रौ बभूवतुः ।
आसीदुचथ्यभार्या तु ममता नाम भार्गवी ॥११॥
तां कनीयान्बृहस्पतिर् मैथुनायोपचक्रमे ।
शुक्रस्योत्सर्गकाले तु गर्भस्तं प्रत्यभाषत ॥१२॥
इहास्मि पूर्वसंभूतो न कार्यः शुक्रसंकरः ।
तच्छ्रुक्रप्रतिषेधं तु न ममर्ष बृहस्पतिः ॥१३॥
स व्याजहार तं गर्भं तमस्ते दीर्घमस्त्विति ।
स च दीर्घतमा नाम बभूवर्षिरुचथ्यजः ॥१४॥
स जातोऽभ्यतपद्देवान् अकस्मादन्धतां गतः ।
ददुर्देवास्तु तन्नेत्रे ततोऽनन्धो बभूव सः ॥१५॥
स वेदिषद इत्यस्तोच् चतुर्भिर्जातवेदसम् ।
समिद्ध आप्रियोऽन्त्यैन्द्रो तमित्यग्नेः पराणि षट् ॥१६॥
स्तुतौ तु मित्रावरुणौ सूक्तैर्मित्रमिति त्रिभिः ।
मित्रं मैत्रीं वदन्येताम् आ धेनवश्च शंसति ॥१७॥
अदितिं वाथवाप्यग्निं तथा रूपं हि दृश्यते ।
अग्निं मेनेऽदितिं त्वेव कुत्से चेह च शौनकः ॥१८॥
ऋषिरत्र प्रसङ्गाद्वा दर्शनाद्वानुकीर्तयेत् ।
बिष्णोर्नु कमिति त्रीणि वैष्णवानि पराण्यतः ॥१९॥
प्र वश्च तिसृभिर्ऋग्भिर् इन्द्राविष्णु सह स्तुतौ ।
गृहाणि वा वैष्णवानि ता वामित्यृचि काङ्क्षति ॥२०॥
जीर्णं तु दीर्घतमसं खिन्नास्तत्परिचारिणः ।
दासा बद्ध्वा नदीतोये दृष्टिहीनमवादधुः ॥२१॥
तत्रैकस्त्रैतनो नाम शस्त्रेणैनमपाहनत् ।
शिरश्चांसावुरश्चैव स्वयमेव न्यकृन्तत ॥२२॥
हत्वा दीर्घतमास्तं तु पापेन महता वृतम ।
आत्माङ्गान्यनुदच्चैव तत्रोदोन्मोह्नितो भृशम् ॥२३॥
अङ्गदेशसमीपे तु तं नद्यः समुदक्षिपन् ।
अङ्गराजगृहे युक्ताम् उशिजं पुत्रकाम्यया ॥२४॥
राज्ञा च प्रहितां दासीं भक्तां मत्वा महातपाः ।
जनयामास चोत्थाय कक्षीवत्प्रमुखानृषीन् ॥२५॥
तुष्टाव चैव सूक्ताभ्याम् अबोधीत्यश्विनावृषिः ।
प्रेति द्यावापृथिव्यौ तु पराभ्यामेतदुत्तरम् ॥२६॥
किमार्भवं परे मा नो मेध्यस्याश्वस्य संस्तवः ।
ईर्मान्तास इति त्वस्यां नीयमानं प्रशंसति ॥२७॥
स्वयूथ्यास्तस्य चैवात्र बहवः संस्तुता हयाः ।
नियुक्ताश्चानियुक्ताश्च प्रसङ्गादनुकीर्तिताः ॥२८॥
संज्ञप्तवदसंज्ञप्तं भविष्यं चाह भूतवत् ।
तस्य मांसस्य सूनस्य चरूणां हविषस्तथा ॥२९॥
वासोऽधिवाससोश्चात्र यद्विशस्यं च कीर्तितम् ।
गात्रस्य शूलस्थूणानां स्वधितेश्च प्रकीर्तनम् ॥३०॥
छागस्य कीर्तनं चात्र इन्द्रापूष्णोः सह स्तुतिः ।
सूक्तं यदस्यवामीयं वैश्वदेवं तदुच्यते ॥३१॥
प्रवादा विधिधास्तत्र देवानां चात्र कीर्तनम् ।
सूक्तेऽस्यर्चि परोक्षोक्ता वक्ष्यामि भ्रातरस्त्रयः ॥३२॥
अग्निस्तु वामः पलितो वायुर्भ्राता तु मध्यमः ।
घृतपृष्ठस्तृतीयोऽत्र सप्त वै रश्मय स्तुताः ॥३३॥
परास्तु कथयन्त्यग्निं यथा वर्षति पाति च ।
अहोरात्रान्दिनान्मासान् ऋतूंश्च परिवर्तिनः ॥३४॥
पञ्चधा च त्रिधा चैव षोढा द्वादशधैव च ।
संवत्सरं चक्रवच्च पराभिः कीर्तयत्यृषिः ॥३५॥
क्षेत्रज्ञानं च धेनुं च गौरीं वाचं सरस्वतीम् ।
धर्मं पूर्वयुगीयं च साध्यान्देवगणांस्तथा ॥३६॥
विविधानि च कर्माणि अग्निवायुविवस्वताम् ।
विभूतिमग्नेर्वायोश्च जगति स्थास्नुजङ्गमे ॥३७॥
हरणं रश्मिभिर्वारो विसर्गं पुनरेव च ।
कर्मानुकीर्तनं चात्र पर्जन्याग्निविवस्वताम् ॥३८॥
मातापुत्रौ तु वाक्प्राणौ माता वागितरः सुतः ।
सरस्वन्तमिति प्राणो वाचं प्राहुः सरस्वतीम् ॥३९॥
शरीरमिन्द्रियैर्युक्तं क्षेत्रमित्यभिधीयते ।
वेद तत्प्राण एवैकस् तस्मात्क्षेत्रज्ञ उच्यते ॥४०॥
मेधे शकस्तस्य धूमः सलिलं वास एव वा ।
सोम उक्षा भवन्त्यस्य पावकाश्च त्रयोऽधिपाः ॥४१॥
गौरीरन्तं वैश्वदेवम् उपरि स्यात्पृथक्स्तुतिः ।
इन्द्रं मित्रमिमे सौर्यौ सौरी वान्त्या सरस्वते ॥४२॥
सूक्तमल्पस्तवं त्वेतज् ज्ञानमेव प्रशंसति ।
प्रवादबहुलत्वाच्च ततः सलिलमुच्यते ॥४३॥
मारुतैन्द्रस्तु संवादः कयेति परमः स्मृतः ।
मरुतामयुजस्त्वैन्द्रयो युग्माः सर्वाः सहान्त्यया ॥४४॥
एकादशी प्रथमा च मारुतस्तृच उत्तरः ।
तृचस्यैव तु तत्रोक्तं कर्तृत्वमितरस्य तु ॥४५॥
इतिहासः पुरावृत्त ऋषिभिः परिकीर्त्यते ।
समागच्छन्मरुद्भिस्तु चरन्व्योम्नि शतक्रतुः ॥४६॥
दृष्टवा तुष्टाव तानिन्द्रस् ते चेन्द्रमृषयोऽब्रुवन् ।
तेषामगस्त्यः संवादं तपसा वेद तत्त्वतः ॥४७॥
स तानभिजगामाशु निरुप्यैन्द्रं हविस्तदा ।
मरुतश्चाभितुष्टाव सूक्तैस्तन्न्विति च त्रिभिः ॥४८॥
महश्चिदिति चैवेन्द्रं सहस्रमिति चैतया ।
निरुप्तं तद्धविश्चैन्द्रं मरुद्भ्यो दातुमिच्छति ॥४९॥
चिज्ञायावेक्ष्य तद्भावम् इन्द्रो नेति तमब्रवीत् ।
न श्वो नाद्यतनं ह्यस्ति वेद कस्तद्यदद्भुतम् ॥५०॥
कस्यचित्त्वर्थसंचारे चित्तमेव विनश्यति ।
किं न इत्यब्रवीदिन्द्रम् अगस्त्यो भ्रातरस्तव ॥५१॥
मरुद्भिः संप्रकल्पस्व वधीर्मा नः शतकतो ।
किं नो भ्रातरिति त्वस्याम् इन्द्रो मान्ययुपालभत् ॥५२॥
अगस्त्यस्त्वरमित्यस्यां क्षुब्धमिन्द्रं प्रशामयत् ।
प्रादात्संवननं कृत्वा तेभ्य एव च तद्धविः ॥५३॥
सुते चकार सोमेऽथ तानिन्द्रः सोमपीथिनः ।
तस्माद्विद्यान्निपातेन सेन्द्रेषु मरुत स्तुतान् ॥५४॥
प्रीतात्मा पुनरेवर्षिस् तांस्तुष्टाव पृथक्पृथक् ।
मरुतः प्रति सूक्ताभ्याम् इन्द्रं षड्भिः परस्तु सः ॥५५॥
स्तुतश्चतसृभिश्चेन्द्र स्तुतास इति तैः सह ।
मरुद्भिः सह यत्रेन्द्रो मरुत्वांस्तत्र सोऽभवत् ॥५६॥
ऋतौ स्नातामृषिर्भार्यां लोपमुद्रां यशस्विनीम् ।
उपजल्पितुमारेभे रहःसंयोगकाम्यया ॥५७॥
द्वाभ्यां सा त्वब्रवीदृग्भ्यां पूर्वीरिति चिकीर्षितम् ।
रिरंसुस्तामथागस्त्य उत्तराभ्यामतोषयत् ॥५८॥
विदित्वा तपसा सर्वं तयोर्भावं रिरंसतोः ।
श्रुत्वैनः कृतवानस्मि ब्रह्मचार्युत्तमे जगौ ॥५९॥
प्रशास्य तं परिष्वज्य गुरू मूर्ध्न्यवजघ्रतुः ।
स्मित्वैनमाहतुश्चोभाव् अनागा असि पुत्रक ॥६०॥
युवो रजांसीति ततः सूक्तैः पञ्चभिरश्विनौ ।
अगस्त्य एव तुष्टाव कतरेति परेण तु ॥६१॥
द्यावापृथिव्यौ सूक्तेन आ नो विश्वान्दिवौकसः ।
पितुमन्नं समिद्धाप्र्यो अग्निमग्ने नयेति च ॥६२॥
बृहस्पतेरनर्वाणं कङ्कतोपनिषत्परम् ।
अपां तृणानां सूर्यस्य केचिदेतां स्तुतिं विदुः ॥६३॥
ददर्श तदगस्त्यो वा विषघ्नं विषशङ्कया ।
अदृष्टाख्यो नष्टरूपः सूक्तस्यानयोऽत्र तु द्वृचः ॥६४॥
अस्तौद्गृत्समदोऽग्निं च जातवेदस्यमाप्रियः ।
यज्ञेनाथ समिद्धोऽग्निर् अतोऽग्निं सप्तभिर्हुवे ॥६५॥
संयुज्य तपसात्मानम् ऐन्द्रं बिभ्रन्महद्वपुः ।
अदृश्यत मुहूर्तेन दिवि च व्योम्नि चेह च ॥६६॥
तमिन्द्रमिति मत्वा तु दैत्यौ भीमपराक्रमौ ।
धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ॥६७॥
विदित्वा स तयोर्भावम् ऋषिः पापं चिकीर्षतोः ।
यो जात इति सूक्तेन कर्माण्यैन्द्राण्यकीर्तयत् ॥६८॥
उक्तेषु कर्मस्वैन्द्रेषु भीस्तावाशु विवेश ह ।
इदमन्तरमित्युक्त्वा ताविन्द्रस्तु निबर्हयत् ॥६९॥
निहत्य तौ गृत्समदम् ऋषिं शक्रोऽभ्यभाषत ।
यथेष्टं मां सखे पश्य प्रियत्वं आगतोऽसि मे ॥७०॥
वरं गृहाण मत्तस्त्वम् अक्षयं चास्तु ते तपः ।
प्रह्वस्तं प्रत्युवाचर्षिर् अस्माकं वदतां वर ॥७१॥
तनूनामस्तु चारिष्टिर् वाक् चास्तु हृदयंगमा ।
सुवीरा रयिमन्तश्च वयं त्वामिन्द्र धीमहे ॥७२॥
इन्द्र त्वां च विजानीमो वयं जन्मनि जन्मनि ।
त्वद्गतञ्चैष मे भावो पापागस्त्वं रथीतरः ॥७३॥
निरुक्तं तदिदं वार्यम् इन्द्र श्रेष्ठान्यृचान्त्यया ।
वव्रे वरमिदं सर्वं तदाकर्ण्य शचीपतिः ॥७४॥
तथेत्युक्त्वा तुराषाट् तु पाणौ जग्राह दक्षिणे।
ऋषिश्चास्य सखित्वेन पाणिना पाणिमस्पृशत् ॥७५॥
सहितौ जग्मतुश्चैवं महेन्द्रसदनं प्रति ।
तत्रैनमार्हयत्प्रीत्या स्वयमेव पुरंदरः ॥७६॥
कर्मणा विधिदृष्टेन तमृषिं चाभ्यपूजयत् ।
सखित्वाच्च पुनश्चैनम् उवाच हरिवाहनः ॥७७॥
गृणन्मादयसे यस्मात् त्वमस्मानृषिसत्तम ।
तस्माद्गृत्समदो नाम शौनहोत्रो भविष्यसि ॥७८॥
ततो द्वादशभिः सूक्तैस् तुष्टावेन्द्रं श्रुधीत्यृषिः ।
ददर्श संस्तुवन्नेव तत्र स ब्रह्मणस्पतिम् ॥७९॥
बृहस्पतिं तु तुष्टाव दृष्टलिङ्गाभिरेव च ।
स तमप्यभितुष्टाव चतुर्भिरित उत्तरैः ॥८०॥
गणानां विश्वमित्यस्यां सहेन्द्राब्राह्मणस्पती ।
बृहस्पतिं प्रसङ्गाद्वा ब्रह्मणस्पतिमेव च ॥८१॥
तुष्टाव कर्मणैकेन प्रभावस्यान्तरं द्वयोः ।
मित्रावरुणदक्षांशातुविजातभगार्यम्णाम् ॥८२॥
आदित्यानामिमाः सूक्तम् इदं वारुणमुच्यते ।
वारुणी यो म इत्याद्या दुःस्वप्नाद्यप्रणाशिनी ॥८३॥
धृतव्रता वैश्वदेवम् शतमैन्द्रं परं तु यत् ।
प्र हि क्रतुमिति त्वस्याम् इन्द्रासोमौ सह स्तुतौ ॥८४॥
सरस्वती त्वमित्यस्मिन्न् अर्धर्चं मध्यमा तु वाक् ।
बृहस्पतिस्तुतिर्यो नस् तं व ऋङ् मरुतां स्तुतिः ॥८५॥
अस्माकं वैश्वदेवं स्याद् आदावस्येति चास्य ऋक् ।
द्यावापृथिव्योस्त्वाष्ट्र्यौ वा अथवैन्द्र्यौ परे ततः ॥८६॥
द्वे द्वै राकासिनोवाल्योः षड् गुङ्ग्वाद्यास्तथान्त्यया ।
तत्पूर्वं द्वे ऋचौ कुह्वाः कुहूमहमिति स्मृते ॥८७॥
तदुत्तरे द्वेऽनुमतैर अनु नोऽन्विदिति स्मृते ।
धातुश्चतस्रस्तत्रादो धाता ददातु नो रयिम् ॥८८॥
रौद्रं मारुतं तु प्ररम् आ ते धारावरा इति ।
वामतस्तु मृगं दृष्ट्वा बिभ्यदेत्य ऋषिः स्वयम् ॥८९॥
स्तुहि श्रुतमिति त्वस्यां तमेवास्तौत्प्रसादयन् ।
अपां नपादुपेत्यत्र स्तुतः सूक्ते ततः परे ॥९०॥
तुभ्यमित्यार्तवे सूक्तं सावित्रादाश्विनं परम् ।
सोमः पूषादितिश्चैव सोमपौष्णेऽन्त्यया स्तुताः ॥९१॥
वायव्ये चैन्द्रवायवी पञ्चाथ प्राउगास्तृचाः ।
प्रेत्यृक्स्तौति हविर्धाने अग्निस्तत्र निपातभाक् ।
द्यावापृथिव्यौ द्यावेति हविर्धाने ततः परे ॥९२॥
स्तुतिं तु पुनरेवेच्छन्न् इन्द्रो भूत्वा कपिञ्जलः ।
ऋषेर्जिगमिषोराशां ववाशास्थाय दक्षिणाम् ॥९३॥
स तमार्षेण संप्रेक्ष्य चक्षुषा पक्षिरूपिणम् ।
पराभ्यामभितुष्टाव सूक्ताभ्यां तु कनिक्रदत् ॥९४॥
प्रशास्य गां यस्तपसाभ्यगच्छद् ब्रह्मर्षितामेकशतं च पुत्रान् ।
स गथिपुत्रस्तु जगाद सूक्तं सोमस्य मेत्याग्नेयं यत्परे च ॥९५॥
वैश्वानरीये समित्समिदाप्र्यो द्वे आग्नेये उत्तरे त्वत्र सूक्ते ।
द्यावापृथिव्या उषसो निपाता आपोऽथ देवाः पितरश्च मित्रः ॥९६॥
आग्नेयेषु दृश्यन्ते स्तुतास्तु वैश्वानरो वरुणो जातवेदाः ।
स्तुयेतैका यत्र यत्रास्तुतिर्वा निपात्यर्थांश्चोपमार्थांश्च विद्यात् ॥९७॥
राजर्षयो गृत्समदा वसिष्ठा भरद्वाजाः कुशिका गोतमाश्च ।
विश्वेऽश्विनावङ्गिरसोऽत्रयोऽदितिर् भोजाः कण्वा भृगवो रोदसी दिशः ॥९८॥
सावित्रसौभ्याश्विनमारुतेषु ऐन्द्राग्नेये रौद्रसौर्यौषसेषु ।
आदावन्ते सक्तमध्ये स्तुतास्तु न व्याघ्नन्ति देवताः सूक्तभाजः ॥९९॥
अग्नेः सप्तदशोऽध्याय ऊर्ध्वं ऊ षु ण ऊतये ।
एते काण्व्यावृचौ यौप्याव् अञ्जन्ति पञ्च च ॥१००॥
शेषा बहुभ्यो यूपेभ्यो वैश्वदेवी त्वृगष्टमी ।
अस्यान्त्या व्रश्चना योक्ता षष्ठमैन्द्राग्नमुच्यते ॥१०१॥
अग्निमुषसं वैश्वदेवो दधिक्रामिति चैतया ।
आग्नेन्द्री त्वग्न इन्द्रश्चर्क् परो वैश्वानरस्तृचः ॥१०२॥
प्र यन्तु मारुतञ्चान्त्या शतधारं गुरुस्तवः ।
प्र वो वाजा ऋतून्स्तौति ऋत्विज स्तौति मन्थत ॥१०३॥
पुरोष्यास इति त्वस्यां धिष्ण्यानग्नीन्प्रशंसति ।
ज्ञेयाश्चैव तु होतारम् ते दैव्याश्चैव तत्र तु ॥१०४॥
त्रयोविंशतिरैन्द्राणि इच्छन्तीति पराण्यतः ।
सूक्ते प्रेति तु नद्यश्च विश्वामित्रः समूदिरे ॥१०५॥
पुरोहितः सन्निज्यार्थं सुदासा सह यन्नृषिः ।
विपाट्छुतुद्रयोः संभेदं शमित्येते उवाच ह ॥१०६॥
प्रवादास्तत्र दृश्यन्ते द्विवद्बहुवदेकवत् ।
अच्छेत्यर्धर्चे पच्छो वा नदीष्वप्येकवन्नि ते ॥१०७॥
आद्ये द्वृचे द्विवत्सार्धे विश्वामित्रवचः श्रुतेः ।
एताभिर्ऋग्भिर्वा नद्य ऋषि बहुवदूचिरे ॥१०८॥
षष्ट्याष्टम्या चतुर्थ्या च दशम्या चेतरा ऋषेः ।
सप्तम्यामृचि षष्ठ्यां च यौ देवौ परिकीर्तितौ ॥१०९॥
निपातिनौ तु तौ ज्ञेयौ ऐन्द्रापार्वत्यृगुत्तमे ।
करोति पुत्रिकां नाम यथा दुहितरं तथा ॥११०॥
तस्यां सिञ्चति रेतो वा तच्छासदिति कीर्तितम् ।
रिक्थस्य दुहितुर्दानं नेत्यृचि प्रतिषिध्यते ॥१११॥
तस्याश्चाह यवीयांसं भ्रातरं ज्येष्ठवत्सुतम् ।
सुदासश्च महायज्ञे शक्तिना गाथिसूनवे ॥११२॥
निगृहीतं बलाच्चेतः सोऽवसीदद्विचेतनः ।
तस्मै ब्राह्मीं तु सौरीं वा नाम्ना वाचं ससर्परीम् ॥११३॥
सूर्यक्षयादिहाहृत्य ददुस्ते जमदग्नयः ।
कुशिकानां ततः सा वाग् अमतिं तामपाहनत् ॥११४॥
उपेति चास्यां च कुशिकान् विश्वामित्रोऽनुबोधयत् ।
लब्ध्वा वाचं च हृष्टात्मा तानृषीन्प्रत्यपूजयत् ॥११५॥
ससर्परीरिति द्वाभ्याम् ऋग्भ्यां वाचं स्तुवन्स्वयम् ।
स्थिरावित्यनसोऽङ्गान्यनडुहश्च गृहान्व्रजन् ॥११६॥
ततश्च स्वशरीरेण गृहान्गच्छन्परीददे ।
पराश्चतस्रो यास्त्वत्र वसिष्ठद्वेषिण्यः स्मृताः ॥११७॥
विश्वामित्रेण ताः प्रोक्ता अभिशापा इति स्मृताः ।
द्विषद्द्वेषास्तु ता प्रोक्ता विद्याश्चैवाभिचारिकाः ॥११८॥
वसिष्ठास्ता न शृण्वन्ति तदाचार्यकसंमतम् ।
कीर्तनाच्छ्रवणाद्वापि महादोषश्च जायते ॥११९॥
शतधा भिद्यते मूर्धा कीर्तितेन श्रुतेन वा ।
तेषां बालाः प्रमीयन्ते तस्मात्तास्तु न कीर्तयेत् ॥१२०॥
विश्वांश्च देवांस्तुष्टाव चतुर्भिरिममित्यृषिः ।
अस्तौद्विश्वात्मना सर्वान् मन्यमानः परं पदम् ॥१२१॥
देवानामसुरत्वं तद् एकं महदितीरयन् ।
अश्विनौ मित्र ऋभवो धेनुर्मित्र इहेह वः ॥१२२॥
वैश्वदेवीति विज्ञेया मैत्री मित्राय पञ्च तु ।
ऐन्द्रार्भवस्तृचस्त्वत्र आर्भवे सूक्त उत्तमः ॥१२३॥
पूर्वे द्वृचे निपातीन्द्र उषो वाजेन पञ्चमात् ।
औषसादुत्तरास्त्वन्त्ये षट् पृथग्देवतास्तृचाः ।
ऐन्द्रावरुणः प्रथमो बार्हस्पत्यस्तथापरः ॥१२४॥
पौष्णसावित्रसौम्याश्च मैत्रावरुण उत्तमः ।
तुष्टाव जमदग्निश्च तेन देवावृतावृधौ ॥१२५॥
देवर्षिपितृपूजार्थं पापाचान्त्रचाणि यच्छुनः ।
यस्य वै श्येनरूपेण आहरद्वृत्रहा मधु ॥१२६॥
सोऽग्निं तु पञ्चदशभिर् इन्द्रं षोडशभिः परैः ।
ऋषिस्त्वामिति तुष्टाव सूक्तैरेति तु गौतमः ॥१२७॥
स भ्रातरमिति त्वासु तिसृष्वग्निर्निपातभाक् ।
वरुणेनाभिसंस्तौति आहुरन्ये निपातिनम् ॥१२८॥
लिङ्गोक्तदैवते सूक्ते एके प्रत्यग्निरेव तु ।
ऋषिर्बोधदिति द्वाभ्यां स्तौति सोमकमेव तु ॥१२९॥
तस्यैव चायुषोऽर्थाय पराभ्यामश्विनौ स्तुतौ ।
अञ्जसा न जनिष्येऽहं ब्रुवाणं गर्भमेव तु ॥१३०॥
अन्वशाददितिः पुत्रम् इन्द्रमात्महितैषिणी ।
स जातमात्रो युद्धाय ऋषिमेवाजुहाव तु ॥१३१॥
गोधयन्वामदेवस्तं कृत्वात्मनि बलं तथा ।
दिनानि दश रात्रीश्च विजिग्ये चैनमोजसा ॥१३२॥
स तं क इममित्यस्यां विक्रीणन्नृषिसंसदि ।
स्वयं तेनामितुष्टाव नकिरिन्द्रेति गौतमः ॥१३२॥
किमादुतासीति चास्यां मन्युमर्धे पराणुदत् ।
अथास्य रूपवीर्याणि धैर्यकार्याणि तान्यृषिः ॥१३४॥
विविधानि च कर्माणि शशंसादितये तथा ।
अहमित्यात्मसंस्तावस् तृचे स्तुतिरिवास्य हि ॥१३५॥
प्र सु ष विभ्यो नवभिर् ऋग्भिः श्येनस्य संस्तवः ।
पराभिस्त्वेति पञ्चर्चे सोमेनेन्द्र स्तुतः सह ॥१३६॥
सोमप्रधानामैतां तु क्रौष्टुकिर्मन्यते स्तुतिम् ।
दिवश्चिदिति चैतेन तृचेनेन्द्रेण संस्तुताम् ॥१३७॥
उषसं मध्यमां मेने आचार्यः शाकटायनः ।
वाममृचि स्तुताश्चात्र भगः पूषेति चार्यमा ॥१३८॥।
करूळतीति पूषोक्तोऽदन्तकः स इति श्रुतेः ।
अस्माकमुत्तमं सूर्यं स्तौतित्याहाश्वलायनः ॥१३९॥
इन्द्रस्य हरयो ह्यश्वा अग्नेरश्वास्तु रोहितः ।
सूर्यस्य हरितश्चैव वायोर्नियुत एव च ॥१४०॥
रासभः सहितोऽश्विभ्याम् अजाः पूष्णश्च वाजिनः ।
पृषत्योऽश्वास्तु मरुतां गावोऽरुण्यस्तथोषसाम् ॥१४१॥
सवितुर्वाजिनः श्यावा विश्वरूपा बृहस्पतेः ।
सहैते देवताभिस्तु स्तूयन्तेऽप्यल्पशोऽन्यथा ॥१४२॥
आयुषं वाहनं चापि स्तुतौ यस्येह दृश्यते ।
तमेव तु स्तुतं विद्यात् तस्यात्मा बहुधा हि सः ॥१४३॥
कनीनका तूक्तशेषो हर्यो स्तुतिरिहोच्यते ।
चात्वार्यतश्च विज्ञेयान्यू अप्रगृह्याणि विद्रधे ॥१४४॥

॥ इति बृहद्देवतायां चतुर्थोऽध्यायः ॥

N/A

References : N/A
Last Updated : March 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP