श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ।
करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ॥१॥
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ।
दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रता ॥२॥
युक्तयः पूर्वपक्षेषु सुनिर्णीतासतु तादृशाः ।
युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥३॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयोऽध्यायः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP