संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|द्वितीयोध्यायः| द्वितीयः पादः द्वितीयोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः द्वितीयोऽध्यायः द्वितीयोध्यायः - द्वितीयः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत द्वितीयः पादः Translation - भाषांतर स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।एवं चतुर्विधा नैव विरुद्धयन्तेऽन्वयं प्रति ॥१॥इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ।दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥२॥अनादिकालतो वृत्ताः समया हि प्रवाहतः ।नचोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ॥३॥भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ।तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम् ॥४॥दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ।तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥५॥अनादिवासनायोगादसुराणां बहुत्वतः ।दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥६॥तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।युयुक्तयस्तमो हन्युरागमानुगताः सदा ॥७॥इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥८॥चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ।चेतनं तदसङ्खयातं भिन्नमन्यद्लयं भवेत् ॥९॥अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ।परस्परविभेदश्च कार्याणामालयं भवेत् ॥१०॥भोक्तृणां चेतनस्याहुः केचित्तामपि नापरे ।स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम् ॥११॥प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।अभोगवादिनो भोगमाहुर्भेदग्रहात्तयोः ॥१२॥भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ।ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ॥१३॥चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ।एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥१४॥न च काचित्प्रमोक्तार्थे श्रुतिरेव प्रमा हि नः ।आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ॥१५॥अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ।स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित्प्रसिद्धयति ॥१६॥इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् ।इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥१७॥स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ।अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ॥१८॥स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।कुत इच्छाचेतनस्य सेच्छं चेत्किमचेतनम् ॥१९॥इच्छाम्यहमिति ह्येव निजानुभवरोधतः ।अचेतनेच्छापगता यदि भेदाग्रहोऽत्र च ॥२०॥कथं न स घटस्य स्यान्मनो म इति भेदतः ।मनसोऽपि गृहीतत्वादुभयात्मकता यतः ॥२१॥कामस्य तु मनः कामः प्रियाप्रियविभेदतः ।द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ॥२२॥रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ।अचेतनं जगत्कर्तृ पयोऽम्ब्वादि च नोपमा ॥२३॥एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ।द्वैविध्येऽपितु कामादेः कुतः स्वामित्वमात्मनः ॥२४॥साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ।इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम् ॥२५॥किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् ।सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ॥२६॥न चानुभवगं कामस्वामित्वं वेदवागपि ।शक्तापवदितुं तस्मात्सा तदन्याभिधायिनी ॥२७॥मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ।मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ॥२८॥कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ।विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत् ॥२९॥सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ।मायावाद्युपमां यायात्तच्चशब्दान्निराकृतः ॥३०॥साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥३१॥क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमान् ।जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ॥३२॥पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ।बीजावपनकर्तेवेत्यत्र प्राह प्रभुः स्वयम् ॥३३॥अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि ।शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा ॥३४॥सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ॥३५॥यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः ।नियामयति नित्यं च न ऋते त्वदिति श्रुतेः ॥३६॥स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ।यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥३७॥इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ।तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥३८॥चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् ।देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ॥३९॥यदेवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः ।लब्धस्तेनैव हि नरैः शास्त्रात्किं मोहनं विना ॥४०॥स्वपरार्थविहीनत्वात्स्वमतेनैव निष्फलम् ।किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥४१॥देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ।मम देह इति व्यक्तं ममार्थ इतिवत्सदा ॥४२॥प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ।यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ॥४३॥न चान्यामानता क्वापि प्रमाणेनावसीयते ।स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥४४॥सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥४५॥अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ।तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ।किमु सर्वेश्वरस्यास्य ह्यपलाषाद्यतोऽखिलम् ॥४६॥अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् ।तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥४७॥न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।हिताकृत्यादिदोषाच्च भद्रं नानीश्वरं मतम् ॥४८॥संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ।नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥४९॥तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ।अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम् ॥५०॥नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः ।युक्तमीशं वदन्त्यन्ये तदिच्छादृष्टचोदिताः ।परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥५१॥परमाणुद्वयेनैव द्वयणुकं नाम जायते ।द्वयणुकत्रयेण तृयणुकं तैश्चतुर्भिस्तदात्मकम् ॥५२॥ततस्त्वनियमेनैव खण्डावयविनां भवः ।ततश्चानियमेनैव सर्वावयविसम्भवः ॥५३॥कारणं समवाय्याख्यं परमाण्वादि तत्र हि ।ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥५४॥सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके ॥५५॥कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥५६॥एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ।द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥५७॥न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥५८॥महत्त्वं चैव दीर्घत्वं तृयणुकाद्येषु कल्पितम् ।तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥५९॥यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि ।जायेत सदृशं कार्ये परिमाणं समत्वतः ॥६०॥न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत् ।सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥६१॥अप्रत्यक्षत्वमेवं स्याद्यतः कार्येष्वणुत्वतः ।इति चेन्न महत्त्वं च परमाणावणावपि ।कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते ॥६२॥प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले ।अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ॥६३॥तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च ।यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते ॥६४॥परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ।दृश्यतेऽनन्त इत्येव तथानन्त्यमणावपि ॥६५॥न महत्तत्वगुणत एतावानिति हीश्वरः ।परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ॥६६॥विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ।नावसाययितुं शक्यो विरोधादेव केवलम् ॥६७॥केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् ।अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः ॥६८॥यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ।विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ॥६९॥यद्यागमादनन्तं तन्महत्त्वमवगम्यते ।अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥७०॥महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ।अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ॥७१॥बहुत्वाल्पत्वयोर्यद्वत्साङ्खयायामुपलभ्यते ।आनन्त्यमेकभागानां तावत्त्वं ह्येव गण्यते ॥७२॥अणीयांश्च महीयांश्च भगवानागमोदितः ।आनन्त्यवाचकः शब्दो द्विधानन्त्येऽपि मानताम् ॥७३॥याति नैव गुणाल्पत्वं कालात्पत्वं च मानगम् ।सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः ॥७४॥महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ।तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतम् ॥७५॥महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् ।यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ॥७६॥स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद्ध्रुवम् ।एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥७७॥शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ।अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ॥७८॥उभयानन्त्ययुक्तस्माद्यदि मुख्यमहद्भवेत् ।तच्च ब्रह्म परं साक्षात्सर्वानन्त्ययुतं सदा ॥७९॥यदि साक्षी स्वयम्भातो न मानं केन गम्यते ।अक्षजादेश्च मानत्वमनवस्थाथवा भवेत् ॥८०॥अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ॥८१॥तत्संयोगादनियतात्पदार्थानां जनिर्भवेत् ।द्वयोरेव तु संयोग इति केनावसीयते ॥८२॥कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ।तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः ॥८३॥न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ।कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥८४॥यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ।पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ॥८५॥यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ।देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत् ॥८६॥सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ।येनैव च प्रकारेणात्यसिद्धमनुमीयते ।तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥८७॥प्रत्यक्षमागमो वापि भवेद्यत्र नियामकः ।सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥८८॥सहदर्शनमात्रेण न व्याप्तिरवसीयते ।यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् ।तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥८९॥अन्यथा सप्तमरसभवोऽप्यनुमयाऽपतेत् ।अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥९०॥कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ।भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥९१॥भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम् ।स स्वनिर्वाहकश्चेत्स्याद्द्रव्यमेव तथा न किम् ॥९२॥विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते ।गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥९३॥द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा ।नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ॥९४॥विशेषश्च विशेषी सः स्वेनैव समवायवत् ।कल्पनागुरुतादोषात्पदार्थान्तरता न हि ॥९५॥कल्पयित्वा षट्पदार्थान् साभावानपि केवलम् ।एकस्मिन् स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥९६॥येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ।भावाभावविभागेन यं विना न कथञ्चन ॥९७॥अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।अभावान्ते पदार्थेऽस्मिन् सविशेषावसीयते ॥९८॥सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः ।कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥९९॥कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि ॥१००॥षट्पदार्थातिरेकः स्यात्पदार्थानियमेऽपि हि ।धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥१०१॥सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥१०२॥अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।अनन्यत्वान्नानवस्था भेदो नाशे भवेत्तथा ॥१०३॥विशेषमेव संश्रित्य विशेषो बलवान् यतः ।दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥१०४॥विरोधो ह्यविरोधश्च यतो दर्शनमानगौ ।ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥१०५॥अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ॥१०६॥सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपकाः ।भावे त एव चोच्छेदात्तदन्ये च समस्तशः ॥१०७॥अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ॥१०८॥एकस्मिन् जात एवान्यः संयोगो जायते यदि ।अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥१०९॥अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः ।यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥११०॥परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।अणूनां प्रथिमापेक्षां विनैव तृयणुकेऽपि सः ।परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥१११॥अंशिनोऽंशैरभेदोऽयमंशेन तु भिदाभिदा ।सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते ॥११२॥संयोगश्च विभागश्च भेदश्चैव पृथक्पृथक् ।अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ॥११३॥भिन्ना इति तु भेदानां समुदायो हि दृश्यते ।यथैव च पदार्थानामनयोर्भेद इत्यपि ॥११४॥इतोऽमुष्यामुतोऽप्यस्य भेदो दृष्टो द्विधर्मिकः ।तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ॥११५॥नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ।न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः ॥११६॥एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक् ।एकस्मिन् स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते ॥११७॥कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ॥११८॥भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ।स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ॥११९॥अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ।न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना ॥१२०॥इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ॥१२१॥तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।अभीष्यावगतिश्च स्याच्छक्तिः सादृश्यगा यतः ॥१२२॥तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ।जातितश्चेत्कथं तासु तत्र चेदनवस्थितिः ॥१२३॥तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ।यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ॥१२४॥कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि ।एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।कल्पनागौरवात्तेन युक्ता नानुगकल्पना ॥१२५॥औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।अन्यत्तदेव चेदग्निमत्त्वं किं तत्र भण्यते ॥१२६॥अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम् ।भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः ॥१२७॥समवायो यदि ह्यस्य चैकत्वात्सिद्धसाधनम् ।यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥१२८॥नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः ।सत्यत्वात्को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥१२९॥उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् ।उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ।भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ॥१३०॥अविद्यमान एवान्यः समवायोऽधिगम्यते ।उपाधिना तद्गमकमनुमानं न मा भवेत् ॥१३१॥एवमेवासतः सत्तसमवायो जनिर्मता ।तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ॥१३२॥अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ॥१३३॥अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः ।प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥१३४॥तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥१३५॥तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते ।अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता ॥१३६॥इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।अन्योन्याभावभेदौ च पृथक्तवं च पृथक्पृथक् ॥१३७॥यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ।पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥१३८॥भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।अद्भुततास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥१३९॥प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात्कथञ्चन ।विभागेनाल्पतैव स्यात्कुत एव च शून्यता ॥१४०॥न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।विदारणार्थो धातुश्च विभागगुणवाचकः ॥१४१॥अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।अत उन्मत्तवाक्यत्वान्मायावादोऽभ्युपेक्षितः ॥१४२॥न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥१४३॥मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥१४४॥नारायणः परोऽशेषचेतनेभ्यः परं पदम् ।इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥१४५॥अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः ॥१४६॥कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते ।औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥१४७॥स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥१४८॥ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् ।इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः ॥१४९॥इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥१५०॥ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।स्वप्रकाशत्वमेतस्माद्दुर्निवार्यं समापतेत् ॥१५१॥सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥१५२॥योऽशनायापिपासे च शोकादींश्चातिवर्तते ।आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥१५३॥ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः ॥१५४॥नचात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।सहदर्शनमात्रेण श्रुतीनामपलापकः ॥१५५॥यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥१५६॥अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः ।तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥१५७॥इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ।किं कार्यमनुमानेन गळस्तनसमेन हि ॥१५८॥अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते ।पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।स्यात्तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥१५९॥ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् ।तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥१६०॥अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः ।न प्रमाणं भवेत्तस्मान्नानुमात्रोपयोगिनी ॥१६१॥नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः ।अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥१६२॥न हि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः ।विशेषकाल एवैतत्सृष्टयादीच्छा सदातना ॥१६३॥विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ॥१६४॥उदीरयति कालाख्यशक्तिमित्यस्य वागपि ।कालस्य कालगत्वेन न विरोधोऽपि कश्चन ॥१६५॥असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा ।ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥१६६॥ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ ।इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥१६७॥तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥१६८॥स्वभावादेव हीच्छैषा देवस्यैव इति श्रुतेः ।स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा ॥१६९॥नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥१७०॥अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।उपादेयमतश्चायमविरुद्धः समन्वयः ॥१७१॥वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।अणूनां समुदायं च कालकर्मनिमित्ततः ॥१७२॥उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥१७३॥संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः ।दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥१७४॥मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥१७५॥अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते ।अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥१७६॥स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् ।इति चेत्कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥१७७॥नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ॥१७८॥विशषषकार्यजनकं यदि कारणमिष्यते ।कुतः समानरूपत्वं कार्याणामपि सर्वशः ॥१७९॥अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ।अदृष्टस्यापि तस्यैव विशेषापादकं कुतः ॥१८०॥यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ।कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ॥१८१॥भवेन्नियामकाभावादिदमस्यैव कारणम् ।इति नित्यविनाशित्वे केन मानेन गम्यते ॥१८२॥इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् ।विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ॥१८३॥दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ।फलादीनां विशेषेण सर्वत्राप्यनुमीयते ॥१८४॥सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ।अविशेषोऽखिलस्यापि सत्त्वात्किं नानुमीयते ॥१८६॥यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ।सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥१८७॥तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन ।अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥१८७*॥स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु ।गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥१८८॥उत्तरोत्पत्तिमात्रेण विनाशात्पूवर्वस्तुनः ।न संस्कारार्पकत्वं च युज्यते कस्यचित्क्वचित् ॥१८९॥अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ।एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा ।कुत आत्मादिकेषु स्याद्बल्येवानुभवो यतः ॥१९०॥कार्यकारणयोश्चैककालीनत्वं विना कथम् ।पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥१९१॥सम्बद्ध एव संस्कारमन्यत्रादत्ततेऽखिलाः ।असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥१९२॥एककालतया योगं विना संस्कारतः कथम् ।क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥१९३॥पूर्वमध्यापरकलारहितः क्षण इष्यते ।पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥१९४॥यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥१९५॥अभेदेन विशेषेण देहदीपफलादिषु ।विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥१९६॥विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ।दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेद् ॥१९७॥विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् ।मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥१९८॥सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा ।कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥१९९॥सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा ।तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥२००॥सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः ।सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥२०१॥अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।दुर्मतं को नु गृह्णीयाद्विनासुरततिं क्वचित् ॥२०२॥अपरः शून्यमखिलं मनोवाचामगोचरम् ।निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥२०३॥अशेषदोषरहितमनन्तं देशकालतः ।वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ।रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥२०४॥तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् ।सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ॥२०५॥पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ।सांवृतेनैव सत्येन व्यवहारोऽखिलो भवेत् ॥२०६॥शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते ।सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥२०७॥नासतो जगतो भावो न हि दृष्टासतो जनिः ।सतः क्वचित्प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥२०८॥यद्येवं सप्तमरसान्मधुरादिव पीनता ।भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥२०९॥कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन ।न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात् ॥२१०॥देशकालादिनियमो निंह शून्यात्सतो भवेत् ।पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते ॥२११॥किं नानुमीयते तद्वद्वस्तुत्वात्पुरुषाद्भवः ।सर्वस्यापि नचाभावो विश्वं सदिति गम्यते ॥२१२॥यतोऽनुभवरोधे तु वचनं वादिनः कुतः ।स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते ॥२१३॥यदि सत्त्वेन किञ्चात्र भ्रमो नैव निवर्तते ।अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ।निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥२१४॥दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः ।गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ॥२१५॥अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।उक्तभङ्गयाऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥२१६॥दृश्यत्वाद्विमंत मिथ्या स्वप्नवच्चेदियं च मा ।मिथ्या चेत्साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ॥२१७॥साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः ।तस्य चेत्यनवस्था स्यात्सत्त्वं चास्यानुभूतितः ॥२१८॥अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ।अतीतानागतौ कालावपि नः साक्षिगोचरौ ।तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥२१९॥दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् ।भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् ।तेनाप्यङ्गीकृतः सम्यक्स नः सत्यत्वमेव हि ॥२२०॥विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा ।नैव दृष्टा प्रमा सा च न भवेत्स्वविरोधतः ॥२२१॥भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ।अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन्न तत् ॥२२२॥स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रहः ।अन्यथास्यामुना भेद इति वक्तुं न युज्यते ॥२२३॥अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ।स्यात्प्रतीतिविरोधाच्च न हि कश्चित्तथा वदेत् ॥२२४॥धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ।विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥२२५॥को विरोधः स्वरूपेण गृहीतो भेद एव तु ।अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥२२६॥किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ।धर्म्यादिभेदग्रहणात्तेनोक्तोऽन्योन्यसंश्रयः ॥२२७॥अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ।अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः ॥२२८॥एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ।मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ॥२२९॥यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ।न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः ॥२३०॥अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ।स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ॥२३१॥तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ।अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥२३२॥ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ।कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥२३३॥इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ।भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम् ॥२३४॥तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ।ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥२३५॥आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम् ॥२३६॥नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः ।भावाभावतया विश्वं येन रूपेण मीयते ।तद्रूपमेव तदिति नियमः केन वार्यते ॥२३७॥तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना ।यदि तैरखिलैर्देषैर्लिप्यते चलदर्शनः ॥२३८॥अतिहाय प्रमाणाप्तं नियमं सदसत्तया ।अशेषमाविरुद्धं च निर्मानं व्याहतं सदा ॥२३९॥सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ।स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥२४०॥वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ।दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥२४१॥अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ।तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ॥२४२॥नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ॥२४३॥ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः ।इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥२४४॥भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ।नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ॥२४५॥रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ।व्याप्त्या तयान्यथाभावादात्मनोऽनित्यता भवेत् ॥२४६॥नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ।अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥२४७॥कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ।संस्थानापगमश्चेत्स न हि भूसागरादिषु ॥२४८॥यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ।देहमाने विकारः स्यादिति स्थास्नूननात्मनः ॥२४९॥आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः ।अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥२५०॥गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः ।अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ।एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥२५१॥सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ।जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ॥२५२॥आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ।नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ॥२५३॥उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया ॥२५४॥धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ।घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः ॥२५५॥तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् ॥२५६॥यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ।इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः ॥२५७॥पराधीनपरप्राप्तिरज्ञत्वं प्रळयेऽभवः ।प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ॥२५८॥अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ।कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ॥२५९॥न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ।अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते ।नास्याधिष्ठानयोगोऽस्ति भूतानां प्रळये तदा ॥२६०॥अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत्सदा ।देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥२६१॥नचैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् ।मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः ॥२६२॥स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतोऽभवत् ॥२६३॥एको नारायणस्त्वासीन्न ब्रह्मा न च शङ्करः ।अजस्य नाभावध्येकमर्पितं मात्रया परः ॥२६४॥सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥२६५॥आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः ॥२६६॥आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् ।मनसोऽस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥२६७॥पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥२६८॥इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥२६९॥मानवत्त्वाद्विरोधः को नामानं क्वचिदिष्यते ।अविरोधो विरोधश्च मानेनैव हि गम्यते ॥२७०॥अत उक्तं समस्तं च वासुदेवस्य युज्यते ।शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥२७१॥नामानि सर्वाणि च यमेको यो देवनामधाः ।विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥२७२॥न नारायणनामानि तदन्येष्वपरे हरौ ।इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥२७३॥पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥२७४॥समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥२७५॥स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥२७६॥निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।दूष्यते महती देवी ह्रीङ्करी सर्वकारणम् ।त्रिपुराभैरवीत्यादिनामभिः साभिधीयते ॥२७७॥तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः ।भूतभौतिकमप्येतदिति तन्नोपपद्यते ॥२७८॥दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ।केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ॥२७९॥नार्च्यं महावाममतं वामैरन्यदुदीर्यते ।शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ॥२८०॥इति तच्चोपपन्नं न शिवस्याकरणत्वतः ।अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ॥२८१॥अणुवामा न तद्युक्तमीशवादप्रवेशनात् ।सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ॥२८२॥न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ।उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते ॥२८३॥श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ।सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ॥२८४॥पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ।सूत्राण्यतिविरुद्धं तद्यत आह स भारते ॥२८५॥पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्टते ॥२८६॥पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।एकान्तभावोपगता वासुदेवं विशन्ति ते ॥२८७॥इति गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् ।वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि ॥२८८॥दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।इति वाराहवचनं श्लोका इति वचः श्रुतौ ॥२८९॥वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ।पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ॥२९०॥इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ।कथमेवात्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि ॥२९१॥इहैवोक्ता नचाभूतभावस्तत्रापि कथ्यते ।अनादिकर्मणा बद्धो जीवः संसारमण्डले ॥२९२॥वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ॥२९३॥जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ।वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ॥२९४॥मनोऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ।सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥२९५॥यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥२९६॥अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥२९७॥अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।नारायणः श्रुतिगणतात्पर्यादवसीयते ॥२९८॥अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते ।ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः ॥२९९॥ततो विद्यामविद्यां च यो जानात्युभयं सह ।दोषज्ञानादतीत्यैतान् विद्ययामृतमश्नुते ॥३००॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP