संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|द्वितीयोध्यायः| प्रथमः पादः द्वितीयोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः द्वितीयोऽध्यायः द्वितीयोध्यायः - प्रथमः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत प्रथमः पादः Translation - भाषांतर उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते ।चतुर्विधस्य तस्यादौ यौक्तस्तत्रापि च स्मृतेः ॥१॥तस्याश्चतुःस्वरूपत्वात्प्रत्येकं चतुरात्मकाः ।पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमाऽगमात् ॥२॥आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः ।सर्वानुसारो लघुता विशेषादर्शनाफले ॥३॥इष्टसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।एता एव त्वतिबला सिद्धान्तस्य नियामकाः ॥४॥आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः ।पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते ॥५॥इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥६॥नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।नचास्या व्यभिचारेऽपि हीयते मानता क्वचित् ॥७॥वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ॥८॥अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् ।वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ॥९॥अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥१०॥अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः ।अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये ।उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु ॥११॥कथं प्रमाणतां गच्छेन्नित्यत्वात्पुरुषोद्भवैः ।उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥१२॥विरूप नित्यया वाचा नित्ययानित्यया सदा ।इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥१३॥पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥१४॥अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।विरोधादर्शनात्तस्माद्वेदप्रामाण्यमिष्यते ॥१५॥तन्मूलत्वात्स्मृतीनां च विरोधो यत्र न क्वचित् ।विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥१६॥आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥१७॥प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् ।आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥१८॥युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।स्यात्तत्र युक्त एवार्थो युक्तिश्च त्रिविधा मता ॥१९॥व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा ।प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥२०॥याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥२१॥ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥२२॥अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥२३॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरोधता ॥२४॥नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम् ॥२५॥तृणादिदर्शने किं च फलवत्त्वं निगद्यते ।सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥२६॥न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥२७॥प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥२८॥निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥२९॥निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम् ।पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥३०॥अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता ॥३१॥अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥३२॥यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम् ।न पञ्चावयोक्तौ च विवादावसितिर्भवेत् ॥३३॥दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव हि ।लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥३४॥विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥३५॥विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता ।लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥३६॥साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥३७॥स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् ।संवादानुक्तिसंयुक्ता एत एव च निग्रहाः ॥३८॥वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी ॥३९॥केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया ।सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥४०॥अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥४१॥विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥४२॥विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् ।उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥४३॥वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ॥४४॥बहुविद्यत्वसिद्धौ तु नैव वादोऽपि कारणम् ।सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥४५॥वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥४६॥विना वादेन विद्याया यदि शक्यं परीक्षणम् ।स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥४७॥जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥४८॥सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ॥४९॥प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ।प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ॥५०॥उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ।सद्भिरागम एवैकः प्रयोज्योऽभीष्यसाधकः ॥५१॥स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ।प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ॥५२॥आगमे दशर्नीयात्र दोषो लिङ्गविलोमता ।लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः ॥५३॥त्रिपञ्चावयवामेव युग्मावयविनीमपि ।नियमाद्योऽनुमां ब्रूयाद्तं ब्रूयाद्यदि तादृशी ।नानुमेति तदा केन साध्यावयवकल्पना ॥५४॥नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।कर्तव्यमेव तेन स्यात्तस्मात्सैवानुमा मता ॥५७॥अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते ।पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम् ॥५८॥मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ।एवं पूर्वानुभूतं च मनसैवावगम्यते ॥५९॥विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ।साक्षादनुभवात्सिद्धं कथमेव ह्यपोद्यते ॥६०॥एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ।प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ॥६१॥तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥६२॥ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ।युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते ॥६३॥बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ॥६४॥सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ।व्याप्तिश्चोक्तानुसारेण दृश्यन्ते चाधिकारिभिः ॥६५॥शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ।व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत् ॥६६॥दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ।अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ॥६७॥यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ॥६८॥युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।कथं न निर्णयं कुर्यादित्यसत्कारणं न हि ॥६९॥श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ।अविरोधश्चतुर्थे तु पाते सम्यक्समर्थ्यते ॥७०॥असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा ।इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ॥७१॥बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम् ।प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।धर्मधर्मैक्यतश्चैव नतु तन्मात्रता भवेत् ॥७२॥अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः ।तादृक्तवं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥७३॥विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥७४॥सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः ।नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥७५॥नचाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् ।धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥७६॥अनादित्वं विनादृष्टं कथं स्यात्कारणं क्वचित् ।पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः ॥७७॥अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।उत्पत्तिनाशकारी हि बुद्धिमान् दृश्यते क्वचित् ॥७८॥तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते ।आगमानुगृहीता तु मानमेषानुमापितु ॥७९॥आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः ।अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ।अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ॥८०॥न च शिष्यागृहीतत्वं निरीशादीशवादिनः ।अतोऽवशिष्टजीवादिकर्तृतात्र निषिद्धयते ॥८१॥तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः ।निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ॥८२॥असतो विश्वजननमाशङ्कयात्र निषिद्धयते ।प्रापकं वाक्यमात्रं तु परिहारो विशेषितः ॥८३॥क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।तद्वदेवानुमान्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥८४॥नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन ।अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ॥८५॥क्वचिद्भिन्नतया दृष्टं तदभिन्नतया कथम् ।दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ॥८६॥भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ।भोक्त्रापत्तेरिति प्राह कथं च तदनन्यता ॥८७॥जगतस्त्वविकारत्व उक्तन्यायेन साधिते ।स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते ॥८८॥द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।इति श्रुतेस्तद्वशस्य भावो न पर इत्यतः ॥८९॥शक्तोऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः ।कारणैर्नियतैरेव करोतीदं जगत्सदा ॥९०॥नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ॥९१॥अनवस्थान्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः ।शक्तोऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥९२॥स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः ।इति श्रुतेरवसित उक्तार्थोऽयमशेषतः ॥९३॥अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥९४॥यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा ॥९५॥अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् ।अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥९६॥अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥९७॥बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥९८॥यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।तस्य त्वशेषशक्तित्वाद्युज्यते सवर्मेव च ॥९९॥विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते ।नारायणस्य त्वध्याये तदन्ये तत्रतत्रगाः ॥१००॥सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥१०१॥मानमेयविशेषेण पुनरुक्तिर्न जायते ।सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥१०२॥अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः ।देवस्यैष स्वभावोऽयमित्याह श्रुतिरञ्जसा ॥१०३॥क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥१०४॥आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥१०५॥इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ।महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्धयते ॥१०६॥मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः ।उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः ॥१०७॥इच्छांनिमित्तको यस्मात्तदभावे कुतः श्रुतिः ।महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ॥१०८॥याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ।मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ॥१०९॥वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् ।नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥११०॥यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः ॥१११॥सर्वधर्मापपत्तेस्तद्वाक्यैरपि हि तादृशैः ।निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥११२॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP