संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|द्वितीयोध्यायः| तृतीयः पादः द्वितीयोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः द्वितीयोऽध्यायः द्वितीयोध्यायः - तृतीयः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत तृतीयः पादः Translation - भाषांतर अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥१॥स्वरूपनिर्णयायैव वचनानां परस्परम् ।पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥२॥अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥३॥दृष्टयुक्तयनुसारित्वमुक्तान्यार्थाविरोधतः ।प्रसिद्धनामस्वीकारे बहुवाक्यानुवतिर्ता ॥४॥लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥५॥उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।नानाश्रुतिश्च वैचितृयं युक्तयः पूर्वपक्षगाः ॥६॥व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥७॥गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।अभीष्यासिद्धिसुव्यक्ती शास्त्रसिद्धिविर्पर्ययः ।विशेषकारणं चेति सिद्धान्तस्यैव साधकाः ॥८॥प्रकृतिः पुरुषः कालो देवास्तदभिमानिनः ।महदाद्याश्च जायन्ते पराधीनविशेषिता ।इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥९॥अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ।यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥१०॥मूतर्सम्पूर्णता चैव यद्यनाकाशता भवेत् ।मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥११॥अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः ।देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ॥१२॥भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ।प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ॥१३॥तथापि पूर्वसम्बन्धपरतन्त्रविशेषयुक् ।खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥१४॥प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ॥१५॥कालप्रवाह एवैको नित्यो नतु विशेषवान् ।पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ॥१६॥सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ।प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ॥१७॥पुमांसो देहसम्बन्धात्सृष्टिमन्त इतीरिताः ।एवं प्रळयकालेऽपि प्रतिभातपरावरः ॥१८॥मुख्यावायुर्नित्यसमः शरीरोत्पत्तिकारणात् ।पराधीनविशेषेण जनिमानेव शब्दितः ॥१९॥नैव किञ्चित्ततो जन्मवर्जितं परमादृते ।पराधीनविशेषत्वे जन्मनः स्थूलताभवः ॥२०॥पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ।रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ॥२१॥प्रधनस्य च वेदस्य वेदस्यापीश्वरेच्छया ।व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ॥२२॥उत्पत्तिरत्र कथिता स्वतन्त्रत्वात्परात्मनः ।नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम् ॥२३॥अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ।कृत्वा भोगान् प्रदायैव चैक्यमापादयेत्पुनः ॥२४॥अत ईशवशं सर्वं चेतनाचेतनं जगत् ।अविभागं विभागाय यदा नयति केशवः ।किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥२५॥एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ।तद्योऽहमितिपूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥२६॥न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते ।एतमानन्दमित्यन्या परमं साम्यमित्यपि ॥२७॥इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च ॥२८॥उपसम्पद्य तज्ज्योतिः स्वरूपेणाभिपद्यते ।तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी ॥२९॥आचक्ष्व मे मोक्षं धीरा यं प्रवदन्ति तम् ।इत्यक्त आह वाग्देवी परं मोक्षं प्रजापतेः ॥३०॥शाखां शाखां महानद्यः संयान्ति परितःस्रवाः ।धानापूपा मांसकामाः सदा पायसकर्दमाः ॥३१॥यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ॥३२॥प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥३३॥भेददृष्टयाभिमानेन निःसङ्गेनापि कमर्णा ।कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥३४॥स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिता ।जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥३५॥ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ।यत्कामस्तत्सृजत्यद्धैषात्मना तत्सृजत्यपि ॥३६॥सहैव ब्रह्मणा कामान् भुङ्कते निस्तीर्णतद्गुणः ।दुःखादींश्च परित्यज्य जगद्वयापारवर्जितः ॥३७॥भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ।मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ॥३८॥जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ।मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।इति चेत्साध्यधर्मोऽयं सन्नसन् वा नवोभयम् ॥३९॥यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥४०॥न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।अनुमानेन चेत्सैव ह्यनवस्था भविष्यति ॥४१॥नचागमस्तदर्थोऽस्ति नासदासीन्न तद्वदेत् ।परिशेषादनिर्वाच्यं यदि सिद्धयेत्परात्मनः ॥४२॥अनिर्वाच्यत्वमेव स्यात्परिशिष्टो ह्यसौ तदा ।नचान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥४३॥न च प्रत्यक्षमात्रास्ति नचार्थापत्तिरिष्यते ।बाधायोगात्सत इति बाधाभावत एव हि ॥४४॥विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ।न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ॥४५॥बाधायोगः सत इति व्याप्तिरेषा क्व दृश्यते ।कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेत् ।निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥४६॥नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।यदि बाधस्तदासत्त्वं तेनैवाङ्गीकृतं पुनः ॥४७॥प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥४८॥न चोपमा भवेदत्र प्रत्यक्षात्सत्त्वमेव च ।शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥४९॥अनुभूतिविरोधेन कथमेकत्वमुच्यते ।किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते ॥५०॥सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ।अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥५१॥उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥५२॥स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ।यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥५३॥एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।न चेदेकममानं तद्द्वयमप्यत्र नो भवेत् ॥५४॥धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ॥५५॥न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।येन मानेन चापेयं भेदस्तेनावगम्यते ॥५६॥सर्वज्ञानमयैवेशो यद्युपेयः कथञ्चन ।सर्वज्ञथ्वगुणेनैव तया भेदोऽवगम्यते ॥५७॥न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।न हि बाधः क्वचिद्दृष्टो दुःखाद्यनुभवस्य तु ॥५८॥यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥५९॥श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥६०॥न च बाधविशेषोऽस्ति यदबाधितमेव तत् ।बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥६१॥कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ।एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥६२॥भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ।स चेत्साक्षी क्वचिद्दुष्यः कथं निर्णय ईयते ॥६३॥विशेषा सर्व एवैते साक्षिप्रत्ययगोचराः ।ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥६४॥तस्मात्सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव नः ॥६५॥शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ।अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ॥६६॥तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ॥६७॥अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥६८॥सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपिचाभिदाम् ।आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ॥६९॥स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्टते ।सादृश्यं च विशेषेण जडानां द्वयमेव तु ।भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना ॥७०॥ईशरूपक्रियाणां च गुणानामपि सर्वशः ।तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥७१॥यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति ।इति श्रुतेर्नोभयं च भेदाभेदाख्यमिष्यते ॥७२॥एकमेवाद्वितीयं नेह नानास्ति किञ्चन ।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥७३॥इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ।इवोभये च सादृश्य इति वाक्शब्दनिर्णये ॥७४॥भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः ।चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥७५॥न केनचिदभेदोऽस्ति भेदाभेदोऽपिवा क्वचित् ।समुदायमृते विष्णोः स्वगुणादीन् विनापि वा ॥७६॥इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ।अभेदश्रुतयोऽ ंशत्वात्सादृश्यं चांशतास्य तु ॥७७॥अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च ।विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् ॥७८॥अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ।स एव चेत्स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥७९॥सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥८०॥कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ।नानावताररूपेण स्थितः पूर्णगुणः सदा ॥८१॥विण्मूत्राक्ष्यादिमानिन्यो यथापभ्रष्टदेवताः ।सूर्यादिभ्यस्तथैवायं संसारी परमात्पृथक् ॥८२॥देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ।अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ॥८३॥एवमेव पराद्विष्णोः पृथक्संसारिणो मताः ।अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ॥८४॥न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ।गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्नच ॥८५॥अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ।यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥८६॥न तु पुम्पादवत्पादा जीवा एते परात्मनः ।पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।एवं जगाद परमश्रुतिर्नारायणं परम् ॥८७॥अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥८८॥प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्ययम् ।नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ।उत्पत्तिमादिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ॥८९॥ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ।सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ॥९०॥ततो रूपं महान्नाम ब्रह्मणोऽहङ्कृतिः शिवः ।ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोऽभिधः ।स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥९१॥तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः ।तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥९२॥जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ।मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥९३॥मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥९४॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP