चतुर्थः भागः - मुखरोगाधिकारः

भावप्रकाशसंहिता


अथ षट्षष्टितमो मुखरोगाधिकारः ॥६६॥
ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च
गलो मुखादि सकलं सप्ताङ्गं मुखमुच्यते ॥१॥
स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा
दन्तेष्वष्टौ च जिह्वायां पञ्च स्युर्नव तालुनि ॥२॥
कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्वेषु च स्मृताः
एवं मुखामयाः सर्वे सप्तषष्टिर्मता बुधैः ॥३॥
आनूपपिशितक्षार दधिमाषादिसेवनात्
मुखमध्ये गदान्कुर्युः क्रुद्धा दोषाः कफोत्तराः ॥४॥
पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा
मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः ॥५॥
कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ
दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ॥६॥
चीयते पिडकाभिस्तु सरुजाभिः समन्ततः
सदाहपाकपिडकौ पीताभासौ च पित्ततः ॥७॥
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ
कण्डूमन्तौ कफाच्छ्वेतौ पिच्छिलौ शीतलौ गुरु ॥८॥
सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च
सन्निपातेन विज्ञेयावनेकपिडकाऽन्वितौ ॥९॥
खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ
रक्तोपसृष्टौ रुधिरं स्रवन्तौ शोणितप्रभौ ॥१०॥
मांसदुष्टौ गुरु स्थूलौ मांसपिण्डवदुद्गतौ
जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ॥११॥
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ मृदू
स्वच्छस्फटिकसंकाशमास्रावं स्रवतो भृशम् ॥१२॥
क्षतजाभौ विदीर्येते पीड्येते चाभिघाततः
मथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ ॥१३॥
गलदन्तमूलदशनच्छदेषु रोगाः कफास्रभूयिष्ठाः
तस्मादेतेष्वसकृद्रुधिरं विस्रावयेदुष्णम् ॥१४॥
चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च
वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदञ्च बुद्धिमान् ॥१५॥
वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनञ्च
शीताः प्रदेहाः परिषेचनञ्च पित्तोपसृष्टेष्वधरेषु कुर्यात् ॥१६॥
शिरोविरेचनं धूमः स्वेदः कवल एव च
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके
मेदोजे शोधिते स्विन्ने स्वेदिते कवलो हितः
प्रियङ्गुत्रिफलालोघ्रं सक्षौद्रं प्रतिसारणम् ॥१८॥
दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकः
शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥१९॥
ओष्ठरोगेष्वशेषेषु दृष्ट्वा दोषमुपाचरेत्
तेषु व्रणत्वं जातेषु व्रणवत्समुपाचरेत् ॥२०॥
शीतादो गदितः पूर्वं दन्तपुप्पुटकस्तथा
दन्तवेष्टः सौषिरश्च महासौषिर एव च ॥२१॥
ततः परिदरः प्रोक्तस्ततस्तूपकुशः स्मृतः
वैदर्भश्च ततः प्रोक्तः खल्लीवर्द्धन एव च ॥२२॥
अधिमांसकनामा च दन्तनाड्यश्च पञ्च च
दन्तविद्र धिरप्यत्र दन्तवेष्टेषु षोडश ॥२३॥
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात्प्रवर्त्तते
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ॥२४॥
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
शीतादो नाम स व्याधिः कफशोणितसम्भवः ॥२५॥
दन्तयोस्त्रिषु वाऽप्यत्र श्वयथुर्जायते महान्
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ॥२६॥
स्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति च
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ॥२७॥
श्वयथुर्दन्तमूलेषु रुजावान्कफवातजः
लालास्रावी च कण्डूरः स ज्ञेयः सौषिरो गदः ॥२८॥
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
दन्तमांसानि पच्यन्ते मुखञ्च परिपच्यते
यस्मिन्स सर्वजो व्याधिर्महासौषिरसंज्ञकः ॥२९॥
दन्तमांसानि शीर्यन्ते यस्मिन्ष्ठीवति चाप्यसृक्
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ॥३०॥
वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च
आघटिट्ताः प्रस्रवन्ति शोणितं मन्दवेदनम्
आध्मायन्तेऽस्रुते रक्ते मुखं पूति च जायते
यस्मिन्नुपकुशः स स्यात्पित्तरक्तसमुद्भवः ॥३२॥
घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्
चलन्ति च रदा यस्मिन्स वैदर्भोऽभिघातजः ॥३३॥
मारुतेनाधिको दन्तो जायते तीव्रवेदनः
खल्लीवर्द्धनसंज्ञोऽसौ सञ्जाते रुक्प्रशाम्यति ॥३४॥
हानव्ये पश्चिमे दन्ते महाशोथो महारुजः
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ॥३५॥
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ॥३६॥
दन्तमांसमलैः सास्रैर्बाह्यान्तः श्वयथुर्महान्
सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्र धिः ॥३७॥
शीतादे हृतरक्ते तु तोये नागरसर्षपान्
निष्क्वाथ्य त्रिफलाञ्चापि कुर्याद्गण्डूषधारणम् ॥३८॥
कासीसलोध्रकृष्णा मनःशिला प्रियङ्गु तेजोह्वाः
एषां चूर्णं मधुयुक्छीतादे पूतिमांसहरम् ॥३९॥
तैलं घृतं वा वातघ्नं शीतादे सम्प्रशस्यते
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् ॥४०॥
सपञ्चलवणक्षारः सक्षौद्रः प्रतिसारणम्
शिरोविरेकश्च हितो नस्यं स्निग्धञ्च भोजनम् ॥४१॥
विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत्
लोध्रपत्तङ्गमधुक लाक्षाचूर्णैर्मधुप्लुतैः ॥४२॥
गण्डूषे क्षीरिणो योज्याः सक्षौद्र घृतशर्कराः
चलदन्तस्थिरकरं कार्यं बकुलचर्वणम् ॥४३॥
भद्र मुस्ताऽभयाव्योषविडङ्गारिष्टपल्लवैः
गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत् ॥४४॥
तां निधाय मुखे स्वप्याच्चलदन्तातुरो नरः
नातः परतरं किञ्चिच्चलदन्तस्य भेषजम् ॥४५॥
तुलावृतं नीलसहाचरन्तु द्रो णाम्भसा संश्रपयेद्यथावत्
ततश्चतुर्भागरसे तु तैलं पचेच्छनैरर्द्धपलप्रमाणैः ॥४६॥
कल्कैरनन्ताखदिरेरिमेदजम्ब्वाम्रयष्टीमधुकोत्पलानाम्
तत्तैलमाज्यञ्च धृतं मुखेन स्थैर्यं द्विजानां विदधाति सद्यः ॥४७॥
सौषिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ॥४८॥
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः
संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा ॥४९॥
काष्ठोदुम्बरिकापत्रैर्व्रणं विस्रावयेद्भिषक्
लवणैः क्षौद्र युक्तैश्च सव्योषैः प्रतिसारयेत् ॥५०॥
शास्त्रेणोद्धृत्य वैदर्भे दन्तमूलानि शोधयेत्
ततः क्षीरं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ॥५१॥
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्
कृमिदन्तकवच्चात्र विधिः कार्या विजानता ॥५२॥
छित्वाऽधिमांसं सक्षौद्रै रेतैश्चूर्णैरुपाचरेत्
वचातेजोवतीपाठास्वर्जिकायावशूकजैः ॥५३॥
क्षौद्र द्वितीयाः पिप्पल्यः कवले चात्र कीर्त्तिताः
पटोलनिम्बत्रिफलाकषायश्चात्र धावने ॥५४॥
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्
यद्दन्तमध्ये जायेत नाडीदन्तं तदुद्धरेत् ॥५५॥
छित्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत्
उद्धृत्य च दहेच्चापि क्षारेण ज्वलनेन वा ॥५६॥
भिनत्त्युपेक्षिते दन्ते हनुमस्थिगतिर्ध्रुवम्
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ॥५७॥
उद्धृते तूत्तरे दन्ते शोणितं प्रस्रवेदति
रक्ताभिषेकात्पूर्वोक्ता घोरा रोगा भवन्ति हि ॥५८॥
काणः सञ्जायते जन्तुरर्दितं तस्य जायते
चलमप्युत्तरं दन्तमतो नैवोद्धरेद्भिषक्
धावनं जातिमदनस्वादुकण्टकखादिरैः ॥५९॥
कषायैर्जातिमदनकण्टकीस्वादुकण्टकैः ॥६०॥
मञ्जिष्ठालोध्रखदिरयष्ट्याह्वैश्चापि यत्कृतम्
तैलं यत्साधितं तत्तु हन्याद् दन्तगतां गतिम् ॥६१॥
विद्र ध्युक्तं विधिं युक्तं विदध्याद् दन्तविद्र धौ
शस्त्रकर्म नरस्तत्र कुशलो नैव कारयेत् ॥६२॥
दालनः कथितः पूर्वं कृमिदन्तक एव च
प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्करा ॥६३॥
कपालिकाऽत्र कथिता श्यावदन्तक एव च
करालसंज्ञ इत्यष्टौ दन्तरोगाः प्रकीर्त्तिताः ॥६४॥
दीर्यमाणेष्विव रुजा यत्र दन्तेषु जायते
दालनो नाम स व्याधिः सदागतिनिमित्तजः ॥६५॥
कृष्णच्छिद्र श्चलः स्रावी ससंरम्भो महारुजः
अनिमित्तरुजो वातात्स ज्ञेयः कृमिदन्तकः ॥६६॥
वक्त्रं वक्रं भवेद्यत्र दन्तभङ्गश्च जायते
कफवातकृतो व्याधिः स भञ्जनकसंज्ञकः ॥६७॥
शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः
तत्र स्युर्वातपित्ताभ्यां दन्तहर्षः स कीर्त्तितः ॥६८॥
मलो दन्तगतो यस्तु कफश्चानिलशोषितः
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥६९॥
कपालेष्विव दीर्यत्सु दन्तेषु समलेषु च
कपालिकेति विज्ञेया दन्तच्छिद् दन्तशर्करा ॥७०॥
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
श्यावतां नीलतां वापि गतः स श्यावदन्तकः ॥७१॥
शनैः शनैः प्रकुरुते यत्र दन्ताश्रितोऽनिलः
करालान्विकटान्दन्तान्स करालो न सिद्ध्य्ति ॥७२॥
अथ दन्तरोगचिकित्सा
तैलं लाक्षारसं क्षारं पृथक्प्रस्थमितं पचेत्
द्र व्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गुणैः ॥७३॥
लोध्रकट्फल मञ्जिष्ठापद्मकेशरपद्मकैः
चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ॥७४॥
दालनं दन्तचालं च दन्तमोक्षं कपालिकाम्
शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ॥७५॥
हन्यादाशु गदानेतान्कुर्याद् दन्तानपि स्थिरान्
लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ॥७६॥
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्
तथाऽवपीडवातघ्नः स्नेहगण्डूषधारणैः ॥७७॥
भद्र दार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः
कृमिदन्तापहं कोष्णं हिङ्गु दन्तान्तरे स्थितम् ॥७८॥
बृहतीभूमिकदम्बपञ्चाङ्गुलकण्टकारिकाक्वाथः
गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमनः ॥७९॥
नीलीवायसजङ्घाकटुतुम्बीमूलमेकैकम्
सञ्चूर्ण्य दशनविधृतं दशनकृमिनाशनं प्राहुः ॥८०॥
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ॥८१॥
स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च
पेया रसा यवाग्वश्च क्षीरसन्तानिकाघृतम्
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ॥८२॥
अच्छिन्दन्दन्तमूलानि शर्करामुद्धरेद्भिषक्
लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत् ॥८३॥
दन्तहर्षक्रियां चात्र कुर्यान्निरवशेषतः
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया मता ॥८४॥
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
तथाऽतिकठिनं भक्ष्यं दन्तरोगी न भक्षयेत् ॥८५॥
वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः
उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ॥८६॥
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ॥८७॥
पित्तात्सदाहैरुपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च ॥८८॥
कफेन गुर्वी बहुला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ॥८९॥
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ॥९०॥
जिह्वाऽग्ररूपः श्वयथुर्हि जिह्वामन्नुम्य जातः कफरक्तयोनिः
प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसावुपजिह्विकेति ॥९१॥
जिह्वागतविकाराणां शस्तं शोणितमोक्षणम्
गुडूचीपिप्पलीनिम्बकवलः कटुभिः सुखः ॥९२॥
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम्
कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु ॥९२॥
पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते
प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम् ॥९३॥
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ॥९४॥
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ॥९५॥
व्योषक्षाराभयावह्नि चूर्णमेतत्प्रघर्षणम्
उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ॥९६॥
गलशुण्ठी तुण्डिकेर्यभ्रूषः कच्छप एव च
ताल्वर्बुदश्च कथितो मांससङ्घात एव च ॥९७॥
तालुपुप्पुटनामा च तालुशोषस्तथैव च
तालुपाकश्च कथितास्तालुरोगा अमी नव ॥९८॥
श्लेष्मासृग्भ्यांतालुमूलात्प्रवृद्धो दीर्घः शोथो ध्मातवस्तिप्रकाशः
तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ॥९९॥
शोथः स्थूलस्तोददाहप्रपाकी श्लेष्मासृग्भ्यां कीर्त्तिता तुण्डिकेरी ॥१००॥
शोथः स्तब्धो लोहितः शोणितोत्थो ज्ञेयोऽभ्रूषः सज्वरस्तीव्ररुक्च ॥१०१॥
कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणः स्यात् ॥१०२॥
पद्माकारं तालुमध्ये तु शोथं विद्याद्र क्तादर्बुदं पित्तलिङ्गम् ॥१०३॥
दुष्टं मांसश्लेष्मणा नीरुजञ्च ताल्वन्तःस्थं मांससंघातमाहुः ॥१०४॥
नीरुक्स्थायी कोलमात्रः कफात्स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ॥१०५॥
शोषोऽत्यर्थं दीर्यते वाऽपि तालु श्वासश्चोग्रस्तालुशोषोऽनिलाच्च ॥१०६॥
पित्तं कुर्यात्पाकमत्यर्थघोरं तालुन्येवं तालुपाकं वदन्ति ॥१०७॥
कुष्ठोषणवचासिन्धुकणापाठाप्लवैः सह
सक्षौद्रै र्भिषजा कार्यं गलशुण्डीप्रघर्षणम् ॥१०८॥
अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम्
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् ॥१०९॥
अत्यादानात्स्रवेद्र क्तं ततः स म्रियते नरः
हीनच्छेदाद्भवेच्छोथो लालास्रावो भ्रमस्तथा
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः
गलशुण्डीं तु संच्छिद्य कुर्यात्प्राप्तमिमं क्रमम्
पिप्पल्यतिविषाकुष्ठवचामरिचनागरैः
क्षौद्र युक्तैः सलवणैस्ततस्तां प्रतिसारयेत्
वचामतिविषापाठारास्नाकटुकरोहिणीः
निक्वाथ्य पिचुमर्दञ्च कवलं तत्र कारयेत्
तुण्डिकेर्यभ्रुषे कूर्मे सङ्घाते तालुपुप्पुटे
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ॥११०॥
तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम्
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ॥१११॥
रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च
अधिजिह्वश्च वलयो बलासश्चैकवृन्दकः ॥११२॥
ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्र धिः
गलौघश्च स्वरघ्नश्च मांसतानस्तथैव च ॥११३॥
विदारी कण्ठदेशे तु रोगा अष्टादश स्मृताः ॥११४॥
गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम्
गलोपसंरोधकरैस्तथाङ्कुरैर्निहन्त्यसून्व्याधिरयं च रोहिणी ॥११५॥
जिह्वासमन्ताद् भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधनाः स्युः
सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्र वगाढजुष्टा ॥११६॥
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजाता ॥११७॥
स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा तु ॥११८॥
गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रिभवा भवेत्सा ॥११९॥
स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ॥१२०॥
सद्यस्त्रिदोषजा हन्ति त्र्यहात्कफसमुद्भवा
पञ्चाहात्पित्तसम्भूता सप्ताहात्पवनोत्थिता ॥१२१॥
कोलास्थिगात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः
खरः स्थिरः शस्त्रनिपातसाध्यस्तत्कण्ठशालूकमिति ब्रुवन्ति ॥१२२॥
जिह्वाऽग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादसृजैव मिश्रात्
ज्ञेयोऽधिजिह्वः खलु रोग एव विवर्जयेदागतपाकमेनम् ॥१२३॥
बलास एवागतमुन्नतञ्च शोथं करोत्यन्नगतिं निवार्य
तं सर्वथैवाप्रतिवार्यमेव विवर्जनीयं वलयं वदन्ति ॥१२४॥
गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
मर्मच्छिदं दुस्तरमेनमाहुर्बलाससंज्ञं भिषजो विकारम् ॥१२५॥
वृत्तोन्नतोऽन्त श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च
नाम्नैकवृन्दः परिकीर्त्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः ॥१२६॥
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
तं चापि पित्तक्षतजप्रकोपाद्विद्यात्सतोदं पवनात्मकं तु ॥१२७॥
वर्त्तिर्घना कण्ठनिरोधिनी तु चिताऽतिमात्रं पिशितप्ररोहैः
अनेकरुक्प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नीसदृशी शतघ्नी ॥१२८॥
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक्स्यात्कफरक्तमूर्त्तिः
संलक्ष्यते सक्तमिवाशितञ्च स शस्त्रसाध्यस्तु गिलायुसंज्ञः ॥१२९॥
सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्वाः
स सर्वदोषैर्गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य ॥१३०॥
शोथो महान्यस्तु गलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता
कफेन जातो रुधिरान्वितेन गले गलौधः परिकीर्त्तितोऽसौ ॥१३१॥
यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
कफोपदुष्टेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात्स्वरघ्नः ॥१३२॥
प्रतानवान्यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत्सर्वकृतो विकारः ॥१३३॥
सदाहतोदं श्वयथुं सताम्रमन्तर्गले पूतिविशीर्णमांसम्
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात्स तु येन शेते ॥१३४॥
रोहिणीनान्तु साध्यानां हितं शोणितमोचनम्
वमनं धूमपानञ्च गण्डूषो नस्यकर्म च
वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत्
सुखोष्णान्स्नेहगण्डूषान्धारयेच्चाप्यभीक्ष्णशः
विस्राव्य पित्तसम्भूतां सिताक्षौद्र प्रियङ्गुभिः
घर्षयेत्कवलो द्रा क्षापरुषैः क्वथितो हितः
आगारधूमकटुकैः कफजां प्रतिसारयेत् ॥१३५॥
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्
नस्यकर्मणि दातव्यं कवलञ्च कफोच्छ्रये ॥१३६॥
पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम्
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥१३७॥
एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः
उपजिह्वकवच्चापि साधयेदधिजिह्वकम् ॥१३८॥
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्
एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् ॥१३९॥
गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत्
अमर्मस्थं सुसम्पक्वं छेदयेद्गलविद्र धिम् ॥१४०॥
कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्मभिः
चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् ॥१४१॥
क्वाथं दद्याच्च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम्
हरीतकीकषायो वा हितो माक्षिकसंयुतः ॥१४२॥
कटुकाऽतिविषादारुपाठामुस्तकलिङ्गकाः
गोमूत्रक्वथिताः पीता कण्ठरोगविनाशनाः ॥१४३॥
मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्
पाठा रसाञ्जनं दूर्वा तेजोह्वेति सुचूर्णितम् ॥१४४॥
क्षौद्र युक्तं विधातव्यं गलरोगे महौषधम्
योगाश्चैते त्रयः प्रोक्ता वातपित्तकफापहाः ॥१४५॥
यवाग्रजं तेजवताञ्च पाठां रसाञ्जनं दारुनिशां सकृष्णाम्
क्षौद्रे ण कुर्याद् गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु ॥१४६॥
पृथगदोषैस्त्रयो रोगाः समस्तमुखजाः स्मृताः ॥१४७॥
स्फोटैः सतोदैर्वदनं समन्ताद्यत्राचितं सर्वसरः स वातात् ॥१४८॥
रक्तैः सदाहैः पिडकैः सपीतैर्यत्राचितं चापि स पित्तकोपात् ॥१४९॥
अवेदनैः कण्डुयुतैः सवणैर्यत्राचितं चापि स वै कफेन ॥१५०॥
ओष्ठप्रकोपे वर्ज्यास्तु मांसरक्तत्रिदोषजाः
दन्तवेष्टेषु वर्ज्यौ तु त्रिलिङ्गगति सौषिरौ ॥१५१॥
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
जिह्वारोगेष्वलासस्तु तालुजेष्वर्बुदं तथा
स्वरघ्नो वलयो बृन्दो बलासः स हि दारुणः च विदारिका
गलौघो मांसतानश्च शतघ्नी रोहिणी गले
असाध्याः कीर्त्तिता ह्येते रोगा दश नवोत्तराः
तेषु वाऽपि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ॥१५२॥
वातात्सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत्
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः ॥१५३॥
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ॥१५४॥
प्रतिसारणगण्डूषधूमसंशोधनानि च
कफात्मके सर्वसरे क्रमं कुर्यात्कफापहम् ॥१५५॥
मुखपाके शिरावेधः शिरसश्च विरेचनम्
मधुमूत्रघृतक्षीरैः शीतैश्च कवलग्रहः ॥१५६॥
जातीपत्रामृताद्रा क्षायासदार्वीफलत्रिकैः
क्वाथः क्षौद्र युतः शीतो गण्डूषो मुखपाकनुत् ॥१५७॥
कार्यञ्च बहुधा नित्यं जातीपत्रस्य चर्वणम्
कृष्णजीरककुष्ठेन्द्र यवचर्वणतस्त्र्यहात् ॥१५८॥
मुखपाकव्रणक्लेद दौर्गन्ध्यमुपशाम्यति
पटोलनिम्बजम्ब्वाम्र मालतीनवपल्लवैः ॥१५९॥
पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने
पञ्चवल्कलजः क्वाथस्त्रिफलासम्भवोऽथ वा ॥१६०॥
मुखपाके प्रयोक्तव्यः सक्षौद्रो मुखधावने
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया
सक्षौद्रा मुखरोगा सृग्दोषनाडीव्रणापहा ॥१६१॥
सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभिः
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य ॥१६२॥
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च
क्षौद्रा ढ्या दग्धवक्त्रस्य गण्डूषो मुखपाकनुत् ॥१६३॥
आस्वादिता सकृदपि मुखगन्धं सकलमपनयति
त्वग्बीजपूरफलजा पवनमपाच्यं वारयति ॥१६४॥
हरिद्रा निम्बपत्राणि मधुकं नीलमुत्पलम्
तैलमेभिर्विपक्तव्यं मुखपाकहरं परम् ॥१६५॥
यष्टीमधु पलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य
प्रस्थं तद् द्विगुणपयोविधिनापक्वं तु नस्येन ॥१६६॥
निशि वदनस्य स्रावं क्षपयति गात्रस्य दोषसंघातम्
कचघर्षत्वमवश्यं क्रमतोऽभ्यङ्गेन जन्तूनाम् ॥१६७॥
इति षट्षष्टितमो मुख रोगाधिकारः समाप्तः ॥६६॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP