चतुर्थः भागः - फिरङ्गरोगाधिकारः

भावप्रकाशसंहिता


अथैकोनषष्टितमः फिरङ्गरोगाधिकारः ॥५९॥
फिरङ्गसंज्ञके देशे बाहुल्येनैव यद्भवेत्
तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः ॥१॥
गन्धरोगः फिरङ्गोऽय जायते देहिनां ध्रुवम्
फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतः ॥२॥
व्याधिरागन्तुजो ह्येष दोषाणामत्र सङ्क्रमः
भवेत्तं लक्षयेत्तेषां लक्षणैर्भिषजां वरः ॥३॥
फिरङ्गस्त्रिविधो ज्ञेयो बाह्य आभ्यन्तरस्तथा
बहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे ॥४॥
तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक्
स्फुटितोव्रणवद्वेद्यः सुखसाध्योऽपि स स्मृतः ॥५॥
सन्धिष्वाभ्यन्तरः स स्यादामवात इव व्यथाम्
शोथञ्च जनयेदेष कष्टसाध्यो बुधैः स्मृतः ॥६॥
कार्श्यं बलक्षयो नासाभङ्गो बह्नेश्च मन्दता
अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्र वा अमी ॥७॥
बहिर्भवो भवेत्साध्यो नवीनो निरुपद्र वः
आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः ॥८॥
बहिरन्तर्भवो जीर्णः क्षीणस्योपद्र वैर्युतः
व्याप्तो व्याधिरसाध्योऽयमित्याहुर्मुनयः पुरा ॥९॥
अथ फिरङ्गरोगस्य चिकित्सा
फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः
अवश्यं नाशयेदेतदूचुः पूर्वाश्चिकित्सकाः ॥१०॥
लिख्यते रसकर्पूरप्राशने विधिरुत्तमः
अनेन विधिना खादेन्मुखे शोथं न विन्दति ॥११॥
गोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्
तन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक् ॥१२॥
ततस्तु गुटिकां कुर्याद्यथा न दृश्यते बहिः
सूक्ष्मचूर्णे लवङ्गस्य तां वटीमवधूलयेत् ॥१३॥
दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्
ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणांस्त्यजेत्
श्रममातपमध्वानं विशेषात्स्त्रीनिषेवणम् ॥१४॥
पारदष्टङ्कमानः स्यात्खदिरष्टङ्कसंमितः
आकारकरभश्चापि ग्राह्यष्टङ्कद्वयोन्मितः ॥१५॥
टङ्कत्रयोन्मितं क्षौद्रं खल्वे सर्वं विनिक्षिपेत्
संमर्द्य तस्य सर्वस्य कुर्यात्सप्तवटीर्भिषक् ॥१६॥
स रोगी भक्षयेत्प्रातरेकैकामम्बुना वटीम्
वर्जयेदम्ललवणं फिरङ्गस्तस्य नश्यति ॥१७॥
पारदः कर्षमात्रः स्यात्तावानेव हि गन्धकः
तण्डुलाश्चाक्षमात्राः स्युरेषां कुर्वीत कज्जलीम् ॥१८॥
तस्याःसप्त वटीः कुर्यात्ताभिर्धूमं प्रयोजयेत्
दिनानि सप्त तेन स्यात्फिरङ्गान्तो न संशयः ॥१९॥
पीतपुष्पबलापत्ररसैष्टङ्कमितं रसम्
हस्ताभ्यां मर्दयेत्तावद्यावत्सूतो न दृश्यते ॥२०॥
ततः संस्वेदयेद्धस्तावेवं वासरसप्तकम्
त्यजेल्लवणमम्लञ्च फिरङ्गस्तस्य नश्यति ॥२१॥
चूर्णयेन्निम्बपत्राणि पथ्या निम्बाष्टमांशिका
धात्री च तावती रात्रिर्निम्बषोडशभागिका ॥२२॥
शाणमानमिदं चूर्णमश्नीयादम्भसा सह
फिरङ्गं नाशयत्येव बाह्यमाभ्यन्तरं तथा ॥२३॥
चोपचीनीभवं चूर्णं शाणमानं समाक्षिकम्
फिरङ्गव्याधिनाशाय भक्षयेल्लंवणं त्यजेत् ॥२४॥
लवणं यदि वा त्यक्तुं न शक्नोति यदा जनः
सैन्धवं स हि भुञ्जीत मधुरं परमं हितम् ॥२५॥
पारदः कर्षमात्रः स्यात्तावन्मात्रं तु गन्धकम्
तावन्मात्रस्तु खदिरस्तेषां कुर्यात्तु कज्जलीम् ॥२६॥
रजनी केशरं त्रुट्यौ जीरयुग्मं यवानिका
चन्दनद्वितयं कृष्णा वांशी मांसी च पत्रकम् ॥२७॥
अर्द्धकर्षमितं सर्वं चूर्णयित्वा च निक्षिपेत्
तत्सर्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक्पृथक् ॥२८॥
मर्दयेदथ तत्खादेदर्द्धकर्षमितं नरः
व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति ॥२९॥
अन्योऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः
एतद्भक्षयतः शोथो मुखस्यान्तर्न जायते ॥३०॥
वर्जयेदत्र लवणमेकविंशतिवासरान् ॥३१॥
इत्येकोनषष्टितमः फिरङ्गरोगाधिकारः समाप्तः ॥५९॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP