संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|चतुर्थः भागः| उपदंशाधिकारः चतुर्थः भागः नाडीव्रणाधिकारः भगन्दराधिकारः उपदंशाधिकारः लिङ्गार्शोऽधिकारः शूकदोषाधिकारः कुष्ठरोगाधिकारः शीतपित्तोदर्दकोठोत्कोठाधिकारः विसर्पाधिकारः विस्फोटकाधिकारः फिरङ्गरोगाधिकारः मसूरिकाशीतलाऽधिकारः क्षुद्ररोगाधिकारः शिरोरोगाधिकारः नेत्ररोगाधिकारः कर्णरोगाधिकारः नासारोगाधिकारः मुखरोगाधिकारः विषाधिकारः स्त्रीरोगाणामधिकाराः सोमरोगाधिकारः योनिरोगाधिकारः बालरोगाधिकारः चतुर्थः भागः - उपदंशाधिकारः भावप्रकाशसंहिता Tags : aayurvedbhavprakash samhitasamhitaआयुर्वेदभावप्रकाश संहितासंहिता उपदंशाधिकारः Translation - भाषांतर अथैकपञ्चाशत्तम उपदंशाधिकारः ॥५१॥हस्ताभिघातान्नख दन्तघातादधावनादत्युपसेवनाद्वायोनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः ॥१॥सतोदभेदस्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत्पवनोपदंशम्पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन रक्तैः पिशितावभासैः ॥२॥स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम्सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेननानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम् ॥३॥प्रशीर्णमांसं कृमिभिःप्रजग्धं मुष्कावशेषं परिवर्जनीयम् ॥४॥सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तःकालेन शोथकृमिदाहपाकैः प्रशीर्णशिश्नो म्रियते स तेन ॥५॥उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनःमेढ्रमध्ये शिरां विध्यात्पातयेद्वा जलौकसः ॥६॥हरेदुभयतश्चापि दोषानत्यर्थमूर्च्छितान्सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः ॥७॥यदि वा दुर्बलोजन्तुर्न वा प्राप्तविरेचनःनिरूहेण हरेत्तस्य दोषानत्यर्थमूर्च्छितान्पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ॥८॥प्रपौण्डरीकयष्ट्याह्वसरलागुरुदारुभिःसरास्नाकुष्ठपृथ्वीकैर्वातिके लेपसेचने ॥९॥निचुलैरण्डबीजानि यवगोधूमसक्तवःएतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् ॥१०॥गैरिकाञ्चनमञ्जिष्ठा मधुकोशीरपद्मकैःसचन्दनोत्पलैः स्निग्धः पैत्तिकं सम्प्रलेपयेत् ॥११॥पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैःसर्पिः स्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् ॥१२॥सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैःअथवाऽपि सुशीतेन कषायेण वटादिना ॥१३॥शालाजकर्णाश्वकर्णधवत्वग्भिः कफोत्थितम्सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् ॥१४॥आरग्वधादिक्वाथेन परिषेकञ्च दापयेत् ॥१५॥निम्बार्जुनाश्वत्थकदम्बशालजम्बूवटोदुम्बरवेतसैश्चप्रक्षालनालेपकृतानिकुर्याच्चूर्णं सपित्तास्रभवोपदंशे ॥१६॥त्वचो दारुहरिद्रा याः शङ्खनाभी रसाञ्जनम्लाक्षागोमयनिर्यासस्तैलं क्षौद्रं घृतं पयः ॥१७॥एभिस्तु पिष्टैस्तुल्यांशैरुपदंशं प्रलेपयेत्व्रणाश्च तेन शाम्यन्ति श्वयथुर्दाह एव च ॥१८॥उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत्क्रियाम्तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् ॥१९॥शस्त्रेणोल्लेखयेत्क्वापि पाकमागतमाशु वैतमपोह्य तिलैः सर्पिः क्षौद्र युक्तैः प्रलेपयेत् ॥२०॥वटप्ररोहार्जुनजम्बुपथ्या लोध्रं हरिद्रा च हिताः प्रलेपेतथोपदंशेष्ववरोहणार्थं चूर्णञ्च कार्यं विमलाञ्जनेन ॥२१॥त्रिफलायाः कषायेण भृङ्गराजरसेन वाव्रणप्रक्षालनं कार्यमुपदंशप्रशान्तये ॥२२॥जयाजपाऽश्वमारार्कशम्पाकानां दलैः क्रमात्कृतं प्रक्षालनं क्वाथं मेढ्रपाके प्रयोजयेत् ॥२३॥शम्पाकनिम्बत्रिफलाकिरातक्वाथं पिबेद्वा खदिरासनाभ्याम्सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरःप्रयोगः ॥२४॥नीलोत्पलानि कुमुदं पद्मसौगन्धिकानि चउपदंशेषु चूर्णानि प्रदेहोऽय प्रशस्यते ॥२५॥बन्धूकदलचूर्णेन दाडिमत्वग्रजोऽथवागुण्डनं वृषणे शस्तं लेपः पूगफलेन वा ॥२६॥सौराष्ट्री गैरिकं तुत्थं पुष्पकासीससैन्धवम्लोध्रं रसाञ्जनञ्चापि हरितालं मनः शिला ॥२७॥हरेणुकैले तु तथा समं संहृत्य चूर्णयेत्तच्चूर्णं क्षौद्र संयुक्तमुपदंशेषु पूजितम् ॥२८॥पुटदग्धं कृतं भस्म हरितालं मनःशिलाउपदंशविसर्पाणामेतद्धानिकरं परम् ॥२९॥दहेत्कटाहे त्रिफलां तां मसीं मधुसैन्धवम्उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम् ॥३०॥तिरीटाञ्जनवज्राक्षकोविदारेभकेशरैःलेपनं पुरुषव्याधौ जलपिष्टैः प्रशस्यते ॥३१॥रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम्सक्षौद्रं लेपनं योज्यं सर्वाङ्गगगदापहम् ॥३२॥भार्गीसम्भवशिखरिजमूलं भद्र श्रियं सुसम्पिष्टम्मनःशिला वै मधुना शमयत्युपदंशमचिरेण ॥३३॥शतधौतं प्रयत्नेन लिङ्गोत्थमवचूर्णयेत्रोगं कासीसचूर्णेन पुरुषः सुखमाप्नुयात् ॥३४॥करवीरस्य मूलेन परिपिष्टेन वारिणाअसाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात् ॥३५॥वरानिम्बार्जुनाश्वत्थखदिरासनवासकैःचूर्णितैर्गुग्गुलुसमैर्वटका अक्षसंमिताः ॥३६॥कर्त्तव्या नाशयन्त्याशु सर्वांल्लिङ्गसमुत्थितान्उपदंशानसृग्दोषांस्तथा दुष्टव्रणानपि ॥३७॥करञ्जनिम्बार्जुनशालजम्बूवटादिभिः कल्ककषायसिद्धम्सर्पिर्निहन्यादुपदंशदोषं सदाहपाकस्रुतिरागयुक्तम् ॥३८॥भूनिम्बनिम्बत्रिफलापटोलकरञ्जधात्रीखदिरासनानाम्सतोयकल्कैर्घृतमाशु पक्वं सर्वोपदंशापहरं प्रदिष्टम् ॥३९॥घृतानि यानि वक्ष्यामि कुष्ठे नाडीव्रणे व्रणेउपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजनैः ॥४०॥आगारधूमो रजनी सुराकिट्टं च तैस्त्रिभिःयथोत्तरैः पचेत्तैलं कण्डूशोथरुजाऽपहम्शोधनं रोपणं चैव ह्युपदंशहरं परम् ॥४१॥गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम्एतत्सर्वोपदंशेषु तैलं रोपणमिष्यते ॥४२॥जम्बुवेतसपत्राणि धात्रीपत्रं तथैव चनक्तमालस्य पत्राणि तद्वत्पद्मोत्पलानि च ॥४३॥एला चातिविषाऽम्रास्थि मधुकञ्च प्रियङ्गवःलाक्षा कालीयकं लोध्रं चन्दनं त्रिवृताह्वया ॥४४॥एतान्येकीकृतान्येव बस्तमूत्रेण पेषयेत्अक्षमात्रैरिमैर्द्र व्यैस्तैलप्रस्थं विपाचयेत् ॥४५॥सर्वव्रणहरं तैलमेतत्सिद्धं न संशयःउपदंशहरं श्रेष्ठं मुनिभिः परिकीर्तितम् ॥४६॥यस्य लिङ्गस्य मांसं तु शीर्यते मुष्कशेषतः ॥४७॥तिक्तकोशातकीलाबुबीजं नागरसाधितम्तैलं हन्त्यविशेषेण व्रणं दुष्टमनेकधा ॥४८॥सेवेन्नित्यं यवान्नञ्च पानीयं कौपमेव चअर्शसां च्छिन्नदग्धानां क्रियां चात्र प्रयोजयेत् ॥४९इत्येकपञ्चाशत्तम उपदंशाधिकारः समाप्तः ॥५१॥ N/A References : N/A Last Updated : May 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP