तृतीयः भागः - भग्नाधिकारः

भावप्रकाशसंहिता


अथाष्टचत्वारिंशत्तमो भग्नाधिकारः ॥४८॥
भग्नं समासाद् द्विविधं हुताश काण्डे च सन्धावपि तत्र सन्धौ
उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्यग्गतं क्षिप्तमधश्च भग्नम् ॥१॥
प्रसारणाकुञ्चनवर्त्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम्
सामान्यतः सन्धिगतस्य लिङ्गमुत्पिष्टसन्धेः श्वयथोः समन्तात्
विशेषतो रात्रिभवा रुजा च विश्लिष्टकेतौ च रुजा च नित्यम् ॥२॥
विवर्त्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति
क्षिप्तेऽतिशूलं विगमं रुजश्च क्षिप्ते त्वधोरुग्विघटश्च सन्धेः ॥३॥
भग्नन्तु काण्डे बहुधा प्रयाति विशेषतो नामभिरेव तुल्यम् ॥४॥
काण्डे त्वतः कर्कटकाश्वकर्णौ विचूर्णितं पिच्चितमस्थिखल्लितम्
काण्डेषु भग्नं ह्यतिपातितञ्च मज्जागतं विस्फुटितञ्च वक्रम् ॥५॥
छिन्नं द्विधा द्वादशधाऽपि काण्डे सामान्यमग्रे किल तस्य लिङ्गम् ॥६॥
स्रस्ताङ्गता शोथरुजाऽतिवृद्धिस्तथा व्यथावृद्धिरतीव नित्यम्
सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः
सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ॥७॥
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ॥८॥
भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा च्युतम्
जघनं प्रतिपिष्टञ्च वर्जयेत्तु चिकित्सकः ॥९॥
असंश्लिष्टकपालञ्च ललाटे चूर्णितञ्च यत्
भग्नं स्तने गुदे पृष्ठे शङ्खे मूर्द्धनि वर्जयेत् ॥१०॥
सम्यक्संहितमप्यस्थि दुर्न्यासाद् दुष्टबन्धनात्
सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ॥११॥
तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि तु
कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च ॥१२॥
पाण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
पादयोरपि चास्थीनि वलयानि बभाषिरे ॥१३॥
आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना
पङ्केनालेपनं कार्यं बन्धनञ्च कुशाऽन्वितम् ॥१४॥
अवनामितमुन्नह्येदुन्नतं चावपीडयेत्
आञ्जेदतिक्षिप्तमधो गतं चोपरिवर्त्तयेत् ॥१५॥
मधूकोदुम्बराश्वत्थकदम्बनिचुलत्वचः
वंशसर्जार्जुनानाञ्च कुशार्थमुपसंहरेत् ॥१६॥
पटस्योपरि बध्नीयान्न गाढं शिथिलं न च
सप्तसप्तदिनाच्छीते घर्मे मुञ्चेत्त्र् यहात्त्र् यहात्
मासान्ते पञ्चपञ्चाहाद्भग्नदोषवशेन वा ॥१७॥
आलेपनार्थं मञ्जिष्ठा मधूकं चाम्बुपेषितम्
शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम् ॥१८॥
सद्योऽभिघातजनिता आगन्तुश्वयथवः प्रशाम्यन्ति
पिष्टकलवणालेपादम्लीकाफलरसाभ्यां वा ॥१९॥
आम्रातकजटाऽम्लीकाफलं पत्राणि शिग्रुजम् ॥२०॥
मूलं पौनर्नवं वर्द्धमानस्यापि च केम्बुकात्
सर्वं संक्षुद्य तक्रेण काञ्जिकेन तथैव च ॥२१॥
पाचयित्वा चरेच्छ्रेष्ठं तेन पीडा प्रणश्यति
शोथश्चास्थि च शीघ्रेण सन्धानं याति वै ध्रुवम् ॥२२॥
न्यग्रोधादिकषायन्तु सुशीतं परिषेचने
पञ्चमूलीकषायं सक्षीरं दद्यात्सवेदने ॥२३॥
सुखोष्णमवचार्यं वा चक्रतैलं विजानता
अविदाहिभिरन्नैश्च पिष्टकैः समुपाचरेत् ॥२४॥
ग्लानिर्हि निहता तस्य सन्धिविश्लेषकारिका
मांसं मांसरसः क्षीरं सर्पिर्यूषःसतीनजः
बृहणञ्चान्नपानञ्च देयं भग्नाय जानता ॥२५॥
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः ॥२६॥
सघृतेनास्थिसंहारं लाक्षागोधूममर्जुनम्
सन्धिमुक्तेऽस्थिसम्भग्ने पिबेत्क्षीरेण वा पुनः ॥२७॥
रसोन मधुलाक्षाऽज्यसिताकल्कं समश्नताम्
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् ॥२८॥
चूर्णं पुरेण संयोज्य घृतेनार्जुनलाक्षयोः
भग्नःसन्धानमायाति लीढं क्षीरघृताशिना ॥२९॥
मूलं शृगालविन्नायाः पीत्वा मांसरसेन तु
चूर्णीकृत्य त्रिसप्ताहादस्थिभग्नमपोहति ॥३०॥
आभाचूर्णं मधुयुतमस्थिभग्नस्त्र्यहं पिबेत्
पीते चास्थि भवेत्सम्यग्वज्रसारनिभं दृढम् ॥३१॥
अम्लीकाफलकल्कैः सौवीरैस्तैलमिश्रितैः स्वेदात्
भग्नाभिहतरुजाघ्नैरथ वौषधसाधितं श्वयथौ ॥३२॥
आभाफलत्रिकव्योषैः सर्वैरेतैः समांशकैः
तुल्यं गुग्गुलुना योज्यं भग्नसन्धिप्रसाधनम् ॥३३॥
लाक्षाऽस्थिसंहृत्ककुभोऽश्वगन्धा चूर्णीकृता नागबला पुरश्च
सम्भग्नमुक्तास्थिरुजं निहन्यादङ्गानि कुर्यात्कुलिशोपमानि ॥३४॥
रात्रौ रात्रौ तिलान्कृष्णान्वासयेदस्थिरे जले
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ॥३५॥
तृतीयं सप्तरात्रन्तु भावयेन्मधुकाम्बुना
ततः क्षीरं पुनः पीताञ्छुष्कान्सूक्ष्मान्विचूर्णयेत् ॥३६॥
काकोल्यादि सयष्ट्याह्वां मञ्जिष्ठां सारिवां तथा ॥३७॥
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्
शतपुष्पाञ्च सञ्चूर्ण्य तिलचूर्णेन योजयेत् ॥३८॥
पीडनार्थं तु कर्त्तव्यं सर्वगन्धैः शृतं पयः
चतुर्गुणेन पयसा तत्तैलं पाचयेत्पुनः ॥३९॥
यष्टीमंशुमतीम्पत्रं जीवन्तीं तुरगं तथा
रोध्रं प्रपौण्डरीकञ्च तथा कालानुसारिवाम् ॥४०॥
शैलेयकं क्षीरशुक्लामनन्तां समधूलिकाम्
पिष्ट्वा शृङ्गाटकञ्चैव प्रागुक्तान्यौषधानि च ॥४१॥
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्नि
एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ॥४२॥
आक्षेपके पक्षघाते तालुशोषे तथाऽदिते
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ॥४३॥
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयङ्गताः
पथ्यं पाने तथाऽभ्यङ्गे नस्ये वस्तिषु भोजने ॥४४॥
ग्रीवास्कन्धोरसां वृद्धिरेतेनैव प्रजायते
मुखञ्च पद्मप्रतिमं ससुगन्धिसमीरणम् ॥४५॥
राजार्हमेतत्कर्त्तव्यं राज्ञामेव चिकित्सकैः
तिलचूर्णसमं तत्र मिलितं चूर्णमिष्यते ॥४६॥
पूर्वे वयसि जातं हि भग्नं सुकरमादिशेत्
अल्पदोषस्य जन्तोश्च काले तु समशीतले ॥४७॥
प्रथमे वयसि त्वेवं मासात्सन्धिः स्थिरो भवेत्
मध्यमे द्विगुणात्कालादन्तिमे त्रिगुणात्तथा ॥४८॥
नैति पाकं यथा भग्नं तथा यत्नेन रक्षयेत्
पक्वमांसशिरास्नायु तद्धि कृच्छ्रेण सिध्यति ॥४९॥
पतनादभिघाताद्वा शूनभङ्गं यदक्षतम्
शीतान्सेकान्प्रदेहांश्च भिषक्तस्यावचारयेत् ॥५०॥
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत्
वातव्याधिविनिर्दिष्टान्स्नेहांस्तत्रापि योजयेत् ॥५१॥
लवणं कटुकक्षारमम्लमायासमैथुनम्
व्यायामञ्च न सेवेत भग्नो रुक्षान्नमेव च ॥५२॥
भग्नसन्धिमनाविद्धमहीनाङ्गमनुल्वणम्
शुभचेष्टाप्रचारञ्च सम्यक्सन्धितमादिशेत् ॥५३॥
इति श्री मिश्रलटकनतनयश्रीमन्मिश्रभावविरचिते भावप्रकाशे
मध्यखण्डेऽष्टचत्वारिंशत्तमो भग्नाधिकारः समाप्तः ॥४८॥
तृतीयोभागेऽपि समाप्तः

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP