तृतीयः भागः - श्लीपदाधिकारः

भावप्रकाशसंहिता


अथ पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः ॥४५॥
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥१॥
यः सज्वरो बङ्क्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण
तच्छ्लीपदं स्यात्करकर्णनेत्रशिश्नौष्टनासास्वपि केचिदाहुः ॥२॥
वातजं कृष्णरूक्षं हि स्फुटितं तीव्रवेदनम्
अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ॥३॥
पित्तजं पीतसंकाशं दाहज्वरयुतं भृशम्
श्लैष्मिकन्तुभवेत्स्निग्धं श्वेतं पाण्डु गुरु स्थिरम् ॥४॥
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
गुरुत्वञ्च महत्वञ्च यस्मान्नास्ति विना कफात् ॥५॥
वल्मीकमिव सञ्जातं कण्टकैरुपचीयते
अब्दात्मकं महत्तत्तु वर्जनीयं विशेषतः ॥६॥
यच्छ्लैष्मिकाहारविहारजातैर्जातं तथा भूरिकफस्य पुंसः
सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुकं चापि विवर्जनीयम् ॥७॥
लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥८॥
सिद्धार्थशोभाञ्जनदेवदारुविश्वौषधैर्मूत्रयुतैः प्रलिम्पेत्
पुनर्नवानागरसर्षपाणां कल्केन वा काञ्जिकमिश्रितेन ॥९॥
धत्तूरैरण्डनिर्गुण्डी वर्षाभूशिग्रुसर्षपैः
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥१०॥
असाध्यमपि यात्यस्तं श्लीपदं चिरकालजम्
मूलेन सहदेवायास्तालमिश्रेण लेपनात् ॥११॥
सप्तताम्बूलपत्राणां कल्कं तप्तेन वारिणा
संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् ॥१२॥
शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत्
श्लीपदानां विनाशाय मेदोदोषनिवृत्तये ॥१३॥
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः
वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम् ॥१४॥
सक्षौद्रं श्लीपदे लिह्याच्चिरोत्थं श्लीपदं जयेत्
गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबेन्नित्यम्
श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण ॥१५॥
इति पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः समाप्तः ॥४५॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP