तृतीयः भागः - उदावर्त्तानाहाधिकारः

भावप्रकाशसंहिता


अथैकत्रिंश उदावर्त्तानाहाधिकारः ॥३१॥
वातविण्मूत्रजृम्भाऽश्रुक्षवोद्गारवमीन्द्रि यैः
क्षुत्तृष्णोच्छ्वासनिद्रा णां धृत्योदावर्त्तसम्भवः ॥१॥
यथोर्ध्वं जायते वायोरावर्त्तः स चिकित्सकैः
उदावर्त्त इति प्रोक्तो व्याधिस्तत्रानिलः प्रभुः ॥२॥
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ॥३॥
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ॥४॥
वस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ॥५॥
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात्पवनात्मकाः स्युः
तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ॥६॥
आनन्दजं वाप्यथ शोकजंवा नेत्रोदकं प्राप्तममुञ्चतो हि
शिरो गुरुत्वं न्यनामयाश्च भवन्ति तीव्राः सह पीनसेन ॥७॥
मन्यास्तम्भः शिरः शूलमर्दितार्द्धावभेदकौ
इन्द्रि याणाञ्च दौर्बल्यं क्षवथोः स्याद्विधारणात् ॥८॥
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वाऽप्रवृत्तिः
उद्गारवेगेऽभिहते भवन्ति जन्तोर्विकाराः पवनप्रसूताः ॥९॥
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः ॥१०॥
मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च
शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते तु शुक्रे ॥११॥
तन्द्रा ऽङ्गमर्दावरुचिः श्रमश्च क्षुधाविघातात्कृशता च दृष्टेः ॥१२॥
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद् धृदये व्यथा च ॥१३
श्रान्तस्य निश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः ॥१४॥
जृम्भाऽङ्गमर्दाक्षिशिरोऽतिजाड्यं निद्रा विघातादथ वाऽपि तन्द्रा ॥१५॥
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्त्तं करोति च ॥१६॥
वातमूत्रपुरीषाश्रुकफमेदोवहानि वै
स्रोतांस्युदावर्त्तयति पुरीषं न प्रवर्त्तयेत् ॥१७॥
ततो हृद्वस्तिशूलार्त्तो हृल्लासारतिपीडितः
वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः ॥१८॥
श्वासकासप्रतिश्यायदाह मोहतृषाज्वरान्
वमिहिक्काशिरोरोग मनः श्रवणविभ्रमान्
बहूनन्यांश्च लभते विकारान्वातकोपजान् ॥१९॥
तृष्णाच्छर्दिपरिक्लिष्टं क्षीणं शूकैरुपद्रुतम्
शकृद् वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत् ॥२०॥
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन
प्रवर्त्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति ॥२१॥
तस्मिन्भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः
आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनञ्च ॥२२॥
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतो वमिश्च
श्वासश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि ॥२३॥
अधोवातनिरोधोत्थे उदावर्त्ते हितं मतम्
स्नेहपानं तथा स्वेदो वर्त्तिर्वस्तिर्हितो मतः ॥२४॥
विड्विघातसमुत्थे तु विड्भङ्गाऽन्न तथौषधम्
वत्तर्यभ्यङ्गावगाहाश्च स्वेदो वस्तिर्हितो मतः ॥२५॥
मूत्रावरोधजनिते क्षीरवारि वचां पिबेत्
दुःस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च ॥२६॥
एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम्
सितामिक्षुरसं क्षीरं द्रा क्षां यष्टीमथापि वा
सर्वथैव प्रयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् ॥२७॥
जृम्भाऽभिघातजे स्नेहं स्वेदं वाऽपि प्रयोजयेत्
अन्यानपि प्रयुञ्जीत समीरणहरान्विधीन् ॥२८॥
नेत्रनीरावरोधोत्थे मुञ्चेद्वाऽपि दृशोर्जलम्
स्वप्यात्सुखञ्च तस्याग्रेकथयेच्च कथाः प्रियाः ॥२९॥
क्षवथोर्घातजे तीक्ष्णघ्राणनस्यार्कदर्शनैः
प्रवर्त्तयेत्क्षुतं सक्तां स्नेहस्वेदौ च शीलयेत् ॥३०॥
उद्गारस्यावरोधे तु स्नैहिकं धूममाचरेत्
छर्दिनिग्रहसञ्जाते वमनं लङ्घनं हितम् ॥३१॥
विरेचनं चात्र मतं तैलेनाभ्यञ्जनं तथा
वस्तिशुद्धिकरैः सिद्धं चतुर्गुणजलं पयः ॥३२॥
आ वारिनाशात् क्वथितं पीतवन्तं प्रकामतः
रमयेयुः प्रिया नार्यःशुक्रोदावर्तिनं नरम् ॥३३॥
तस्याभ्यङ्गोऽवगाहश्च मदिरा चरणायुधः
शालि पयोनिरुहश्च हितं मैथुनमेव च ॥३४॥
क्षुद्विघातसमुद्भूते स्निग्धमुष्णं तथा लघु
रुच्यमल्पं हितं भक्ष्यं पुष्पं सेव्यं सुगन्धि यत् ॥३५॥
तृषाविघातसम्भूते शीतःसर्वो विधिर्हितः
कर्पूरशिशिरं स्वल्पं पिबेत्तोयं शनैः शनैः
श्रमश्वासधृतौ शस्तो विश्रामः सरसौदनः ॥३६॥
निद्रा वेगविघातोत्थे पिबेत्क्षीरं सितायुतम्
संवाहनं सुशय्याऽत्र हितः स्वप्नः प्रियाः कथाः ॥३७॥
हिङ्गुमाक्षिकसिन्धूत्थैः पिष्टैर्वर्त्तिं विनिर्मिताम्
घृताभ्यक्तं गुदे न्यस्येदुदावर्त्तविनाशिनीम् ॥३८॥
मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः
गुडक्षीरसमायुक्ताः फलवर्त्तिरिहोदिता ॥३९॥
खण्डपलं त्रिवृताऽक्ष कृष्णाकर्षो द्वयोश्चूर्णम्
प्राग्भोजनस्य मधुना विडालपदकं नरो लिह्यात् ॥४०॥
एतद् गाढपुरीषे देयं विज्ञैरुदावर्त्ते
मधुरं नरपतियोग्यं चूर्णं नाराचकं नाम्ना ॥४१॥
सव्योषपिप्पलीमूलं त्रिवृद्दन्ती च चित्रकम्
तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः ॥४२॥
एतद् गुडाष्टकं नाम्ना बलवर्णाग्निवर्द्धनम्
उदावर्त्तप्लीहगुल्मशोथपाण्ड्वामयापहम् ॥४३॥
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम्
कृतमालफलं चाप्सु पक्त्वा तेन घृतं पचेत्
तत्पीतं शमयेत्क्षिप्रमुदावर्त्तमशेषतः ॥४४॥
तुल्यकारणकार्यत्वादुदावर्त्तहरीं क्रियाम्
आनाहेषु च कुर्वीत विशेषश्चाभिधीयते ॥४५॥
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः
गुडेन तुल्या गुटिका हरत्यानाहमुल्वणम् ॥४६॥
वर्त्तिस्त्रिकटुकसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः
मधुनि गुडे वा पक्वैर्विहिता साऽङगुष्ठसम्मिता विज्ञैः ॥४७॥
वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृताभ्यक्ता
आनाहमुदरजार्त्तिं शमयति जठरे तथा गुल्मम् ॥४८॥
इत्येकत्रिंश उदावर्त्तानाहाधिकारः समाप्तः ॥३१॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP