तृतीयः भागः - गलगण्डगण्डमालाग्रन्थ्यर्बुदाधिकारः

भावप्रकाशसंहिता


अथ चतुश्चत्वारिंशत्तमो गलगण्डगण्डमाला
ग्रन्थ्यर्बुदाधिकारः ॥४४॥
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
महान्वा यदिवा ह्रस्वो गलगण्डं तमादिशेत् ॥१॥
वातः कफश्चापि गले प्रदुष्टौ मन्ये तु संश्रित्य तथैव मेदः
कुर्वन्ति गण्डं क्रमतः स्वलिङ्गैः समाचितं तं गलगण्डमाहुः ॥२॥
तोदान्वितः कृष्णशिराऽवनद्धः श्यावारुणो वा पवनात्मकस्तु
पारुष्ययुक्तश्चिरवृद्ध्य्पाको यदृच्छया पाकमियात्कदाचित्
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ॥३॥
स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु
चिराच्च वृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित् ॥४॥
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ॥५॥
स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदोऽन्वितः कण्डुयुतोऽरुजश्च
प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽणुशब्दं कुरुते च नित्यम् ॥६॥
कृच्छ्राच्छ्वसन्तं मृदु सर्वगात्रं संवत्सरातीतमरोचकार्त्तम्
क्षीणञ्च वैद्यो गलगण्डयुक्तं भिन्नस्वरं नैव नरं चिकित्सेत् ॥७॥
कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु
मेदः कफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला बहुभिश्च गण्डः ॥८॥
ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये
कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित् ॥९॥
साध्या स्मृता पीनसपार्श्वशूलकासज्वरच्छर्दियुता त्वसाध्या ॥१०॥
वातादयो मांसमसृक्प्रदुष्टाः सन्दूष्य मेदश्च तथा सिराश्च
वृत्तोन्नतं विग्रथितन्तु शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ॥११॥
आयम्यते वृश्च्यति तुद्यते च प्रभ्रश्यते मथ्यति भिद्यते च
कृष्णो मृदुर्वस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् ॥१२॥
दन्दह्मते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नःस्रवेद् दुष्टमतीव चास्रम् ॥१३॥
शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत्संहननोपपन्नः
चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनञ्च पूयम् ॥१४॥
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च
मेदः कृतो गच्छति चात्र भिन्नो पिण्याकसर्पिःप्रतिमन्तु मेदः ॥१५॥
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुश्च शिराप्रतानम्
सङ्कोच्य सम्पीड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् ॥१६॥
ग्रन्थिः शिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च
अरुक्स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः ॥१७॥
गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्च्छिता मांसमसृक्प्रदूष्य
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्य्पाकम्
कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति ॥१८॥
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च
तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति ॥१९॥
दोषः प्रदुष्टो रुधिरं सिराश्च सङ्कोच्य सम्पीड्य ततस्त्वपाकम्
सास्रावमुन्नह्यति मांसपिण्डं मासाङ्कुरैरावृतमाशु वृद्धिम् ॥२०॥
स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं तु
रक्तक्षयोपद्र वपीडितत्वात्पाण्डुर्भवेदर्बुदपीडितस्तु ॥२१॥
मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं समुपैति शोथम्
अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् ॥२२॥
प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य ॥२३॥
यज्जायतेऽन्यात्खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
यद् द्वन्द्वजातं युगपत्क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् ॥२४॥
मांसार्बुदं त्वेतदसाध्यमाहुः साध्येष्वपीमानि विवर्जयेच्च
सम्प्रस्रुतं मर्मसु यच्च जातं स्रोतःसु वा यत्तु भवेदचाल्यम् ॥२५॥
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ॥२६॥
सर्षपाञ्छिग्रुबीजानि शणबीजातसीयवान्
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥२७॥
गलगण्डगण्डमालाग्रन्थयश्चैव दारुणाः
प्रलेपादेव नश्यन्ति विलयं यान्ति सत्वरम् ॥२८॥
रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना
लेपनं गलगण्डस्य चिरोत्थस्यापि शस्यते ॥२९॥
श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः
सर्पिषा नियताहारो गलगण्डप्रशान्तये ॥३०॥
तिक्तालाबुफले पक्वे सप्ताहमुषितं जलम्
सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यान्नसेविनाम् ॥३१॥
तैलं पिबेद्वाऽमृतवल्लिनिम्बहिंस्राऽभयावृक्षकपिप्पलीभिः
सिद्धं बलाभ्यां सह देवदारुणा हिताय नित्यं गलगण्डरोगी ॥३२॥
यवमुद्गपटोलादिकटु रूक्षान्नभोजनम्
वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ॥३३॥
दापयेत्प्रच्छनान्यत्र गण्डगोपालिकोद्भवः
प्रलेपस्त्वनुभूतोऽय बहुधा बहुभिर्जनैः ॥३४॥
लवणं जलकुम्भीञ्च कणाचूर्णेन संयुतम्
प्रभाते नित्यमश्नीयाद्गलगण्डप्रशान्तये ॥३५॥
काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन संयुतः
माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ॥३६॥
गण्डमालां हरत्याशु चिरकालानुबन्धिनीम् ॥३७॥
पलमर्द्धपलञ्चापि पिष्टां तण्डुलवारिणा
काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति ॥३८॥
काञ्चनारस्य गृह्णीयात्त्वचं पञ्चपलोन्मिताम्
नागरस्य कणायाश्च मरिचस्य पलं पलम् ॥३९॥
पथ्याबिभीतधात्रीणां पलमर्द्धं पृथक्पृथक्
वरुणस्याक्षमेकं च पत्रकैलात्वचां पुनः ॥४०॥
टङ्कं टङ्कं समादाय सर्वाण्येकत्र चूर्णयेत्
यावच्चूर्णमिदं सर्वं तावानेवात्र गुग्गुलुः ॥४१॥
संकुट्य सर्वमेकत्र पिण्डं कृत्वा विधारयेत्
गुटिकाः शाणिकाः कृत्वा प्रभाते भक्षयेन्नरः ॥४२॥
गलगण्डं जयत्युग्रमपचीमर्बुदानि च
ग्रन्थीन्व्रणानि गुल्मांश्च कुष्ठानि च भगन्दरम् ॥४३॥
प्रदेयश्चानुपानार्थं क्वाथो मुण्डितिकाभवः
क्वाथः खदिरसारस्य क्वाथः कोष्णोऽभयाभवः ॥४४॥
चक्रमर्दकमूलस्य पलकल्के विपाचयेत्
केशरागरसे तैलं कटुकं मृदुनाऽग्निना ॥४५
पादांशिकं विनिक्षिप्य सिन्दूरमवतारयेत्
एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् ॥४६॥
गुञ्जामूलफलैस्तैलं विपक्वं द्बिगुणाम्भसा
हरेदभ्यङ्गनस्याभ्यां गण्डमालां सुदारुणाम् ॥४७॥
चन्दनं साभया लाक्षा वचा कटुकरोहिणी
एतैस्तैलं शृतं पीत्वा समूलामपचीं हरेत् ॥४८॥
व्योषं बिडङ्गं मधुकं सैन्धवं देवदारु च
तैलमेभिः शृतं नस्यात्सकृच्छ्रामपचीं हरेत् ॥४९॥
स्वर्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः
एतेन विहितो लेपो हन्ति ग्रन्थिं तथाऽबुदम् ॥५०॥
ग्रन्थिर्न यो नश्यति भेषजेन निष्काश्य तं शस्त्रचिकित्सकेन
जात्यादिपक्वेन घृतेन वैद्यो व्रणेन चान्येन च सञ्चिकित्सेत् ॥५१॥
ग्रन्थिमुद्धृत्य तत्रापि व्रणोक्तं क्रममाचरेत्
शिराग्रन्थिं विहायान्ये शेषे शस्त्रं प्रयुज्यते ॥५२॥
ग्रन्थ्यर्बुदानां न यतो विशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः
अतश्चिकित्सेद्भिषगर्बुदानि विधानविद् ग्रन्थिचिकित्सितेन ॥५३॥
हरिद्रा लोध्रपत्राङ्गगृह धूममनःशिलाः
मधुप्रगाढो लेपोऽय मेदोऽबुदहरः परः ॥५४॥
मूलकस्य कृतः क्षारो हरिद्रा यास्तथैव च
शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽबुदापहः ॥५५॥
वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण
अध्यस्थि सप्तरात्रान्महदप्युपशान्तिमर्बुदं गच्छेत् ॥५६॥
शिग्रुमूलकयोर्बीजं रक्षोघ्नं सुरसा यवम्
तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्बुदशान्तये ॥५७॥
इति चतुश्चत्वारिंशत्तमो गलगण्डगण्डमालाग्रन्थ्यर्बुदाधिकारः समाप्तः ॥४४॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP