संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|षडृचोनाम तृतीयकाण्डः| १ ते ५ षडृचोनाम तृतीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० तृतीयकाण्डः - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १आ त्वा गन् राष्ट्र सह वर्चसोदिहि प्राङ् विशां पतिरेकराट् त्वं वि राज। सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्वातो वसूनि वि भजास्युग्रः ॥२॥अच्छ त्वा यन्तु हविन: सजाता अग्निर्दूतो अजिरः सन्तुराति: ।जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।सजातानां मध्यमेष्ठेयमस्या: स्वे क्षेत्रे सवितेव वि राज ॥४॥आा प्र द्रव परमस्या: परावत: विश्वे ते द्यावापृथिवी अभूताम् ।तदयं राजा वरुणस्तथाह स त्वायमह्वत् स इहेदमेहि ॥५॥इन्द्रेन्द्रं मनुष्यः परेहि सं यज्ञियास्त्वा वरुणेन संविदानः ।स त्वायमह्नत् स्वे सधस्थे स देवान् यक्षत् स उ कल्पयाद्विशः ॥६॥पथ्या रेवतीर्बहुधा विरूपाः सर्वाः सङ्गत्य वरिवस्ते अक्रन् ।तास्त्वा सर्वा: संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥यदजिरेण हविषाव त्वा गमयामसि ।अत्रात इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥८॥२हरिणस्य रघुष्यदो ऽधि शीर्षणि भेषजम् । सुक्षेत्रियं विषाणयाद् विषूचीनमनीनशत् ॥१॥अनु त्वा हरिणो वृषा पद्धिश्चतुर्भिरक्रमीत् ।विषाणे वि ष्य गुष्पितं यत् किञ्च क्षेत्रियं हृदि ॥२॥अदो यदवरोचते चतुष्पक्षमिव च्छदिः ।तेन ते सर्वे क्षेत्रियमङ्गेभ्यो नाशयामसि ॥३॥उदगातां भगवती विचृतौ नाम तारके ।वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥४॥यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे ।वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि ते ॥५॥अपवासे नक्षत्राणामपवास उतोषसाम् ।अपास्मत् सर्वमामयदप क्षेत्रियमक्रमीत् ॥६॥आप इद् वा उ भेषजीरापो अमीवचातनी: ।आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् ॥७॥३पुमान् पुंस: परिजातो ऽश्वत्थ: खदिरादधि । स हन्तु शत्रून् मामकान् यांश्चाहं द्वेष्मि ये च माम् ॥१॥तानश्वत्थ निः शृणीहि शत्रून् वैबाध दोधतः ।इन्द्रेण वृत्रघ्ना मेह्यग्निना वरुणेन च ॥२॥यथाश्वत्थ निः शृणासि पूर्वान् जातानुतापरान् ।एवा पृतन्यतस्त्वमभि तिष्ठ सहस्व च ॥३॥यथाश्वत्थ विभिनत्स्यन्तर्महत्यर्णवे ।एवा मे शत्रोश्चित्तानि विष्वग् भिन्धि सहस्व च ॥४॥य: सहमानश्चरसि सासहान इवर्षभ:तेनाश्वत्थ त्वया वयं सपत्नान् सहिषीमहि ॥५॥सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।अश्वत्थ शत्रून् मामकान् यांश्चाहं द्वेष्मि ये च माम् ॥६॥अधराञ्च: प्र प्लवन्तां छिन्ना नौरिव बन्धनात् । वन्धनात्न निर्बाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥प्रैणान्नुदामि मनसा प्र चित्तेन प्र ब्रह्मणा ।प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामसि ॥८॥४यदद: संप्रयतीरहावनदता हते । तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धव:॥१॥यत् प्रेषिता वरुणेनाच्छीभं समवल्गत ।तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठनः ॥२॥अपकामं स्यन्दमाना अवीवरत वो हिकम् ।इन्द्रो वः शक्तिभिर्देवीस्तस्माद् वार्णाम वो हिकम् ॥३॥एको वो देव उपातिष्ठत् स्यन्दमाना उपेत्य ।उदानिषुर्महीरिति तस्मादुदकमुच्यध्वे ॥४॥आपो देवीर्घृतमिदाप आहुरग्नीषोमौ बिभ्रत्याप इत्ता: ।तीव्रो रसो मधुपृचामरङ्गम आ मा प्राणेन सह वर्चसा गन् ॥५॥आदित् पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्।मेने भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदापः ॥६॥५अग्निर्नो दूतः प्रत्येतु शत्रून् प्रतिदहन्नभिशस्तिमरातिम् । स चित्तानि मोहयतु परेषां निहस्तांश्च कृणवज्जातवेदाः ॥१॥अयमग्निरमूमुहद् यानि चित्तानि वो हृदि ।वि वो धमात्योकस: प्र वो धमाति सर्वतः ॥२॥इन्द्र चित्तानि मोहयार्वागाकूत्या अधि ।अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥व्येषामाकूतय इताथो चित्तानि मुह्यत ।अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥असौ या सेना मरुतः परेषामस्मानभ्यैत्योजसा स्पर्धमाना ।तां गुहत तमसापव्रतेन यथैषामन्यो अन्यं न जानात् ॥६॥(इति षडृचोनामतृतीयकाण्डे प्रथमोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP