संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|षडृचोनाम तृतीयकाण्डः| २६ ते ३० षडृचोनाम तृतीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० तृतीयकाण्डः - २६ ते ३० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २६ ते ३० Translation - भाषांतर २६गृहानैमि मनसा मोदमान ऊर्जं बिभ्रद् वसुमनिः सुमेधाः । तु. शौ.सं. ७.६०अघोरेण चक्षुषा मित्रियेण गृहाणां पश्यन् पय उत्तरामि ॥१॥इमे गृहा मयोभुव ऊर्जस्वन्त: पयस्वन्त: ।पूर्णा वामस्य तिष्ठन्तस्ते नो जानन्तु जानत: ॥२॥सूनुतावन्त: सुभगा इरावन्तो हसामुदाः ।अक्षुध्या अतृष्यासो गृहा मास्मद् बिभीतन ॥३॥येषामध्येति प्रवसन् येषु सौमनसो बहुः ।गृहानुपं ह्वयामहे ते नो जानन्त्वायत: ॥४॥उपहूता इह गाव उपहूता अजावय: ।अथो अन्नस्य कीलाल उपहूतो गृहेषु नः ॥५॥उपहूता भूरिधनाः सखायः स्वादुसंमुद: ।अरिष्टा: सर्वपूरुषा गृहा न: सन्तु सर्वदा ॥६॥२७हन्तायमस्त्वप्रतिघात्य: सासह्वां इन्द्र: पृतना अभिष्टि: ।प्रजापतिरदधादोजो अस्मै बृहद्धविर्हविषा वर्धनेन ॥१॥प्रजापते हविषा वर्धनेन हन्तारमिन्द्रमकृणोरघात्यम् ।तस्मै विशो देवकृता नमन्त स हि हन्ता स हि हव्यो बभूव ॥२॥प्रजापते अभि नो नेष वस्य ऊर्वीं गव्यूतिमभिमातिषाह:।वर्धयन्निन्द्रं बृहते रणाय देवं देवेन हविषा वर्धनेन ॥३॥यथा विश्वा: पृतनाः संजयासि यथा शत्रून् सहमानः सहासै ।यथास: सम्राट् सुसम्राडेवा त्वेन्द्रो ऽप्रतिवधं कृणोतु ॥४॥अयं वीरो ऽप्रति हन्तु शत्रून् विश्ले देवा अप सदस्कराथ ।मास्य प्रजां रीरिषन् मोत वीरानिममिन्द्रोऽप्रतिवधं कृणोतु ॥५॥जहि शत्रून् प्रति रन्धयस्वाग्निष्टे गोपा अधिपा वसिष्ठः॥शर्म ते राजा वरुणो नियच्छादेवा त्वेन्द्रोऽप्रतिवधं कृणोतु ॥६॥२८सं स्पृशेथां तनूभ्यां सं मुखाभ्यां समात्मना ।सं वां ब्रह्मणस्पतिः सोमः सं स्पर्शयाति वाम् ॥१॥अभ्यस्य नाम वाचा दधामि नाह मोक्ष्यते ।ममेदहैनं कामे लभै कृष्णमिवाखरे ॥२॥यः प्रेमा प्रेण्यामासीद् दत्त: सोमेन बभ्रुणा ।तस्मादधि श्रुतं मम मय्यस्य मन आहितम् ।यं पुमांसं कामयसे यस्मिन् वा भगमिच्छसे ॥३॥हृच्छोकमस्मिन्ना दध्मो यथा शुष्याति त्वामनु ।यथास्य हृदयं शुष्यादपिच्छिन्नेव शंगुणी ॥४॥चक्षुराकास्यं भीमं मांपश्यमभिरोरुदम् ।प्रियंकरणमुत्तमं मधुघेन तदाभृतम् ॥५॥त्वं हासि वर्चस्यो ऽथो हासि सुमङ्गलः ।अथो सर्वासां वीरुधां प्रियंकरणमुच्यसे ॥६॥२९प्रतीची सोममस्योषधे प्रतीच्युत सूर्यम् । प्रतीची विश्वान् देवांस्तथा त्वाच्छावदामसि ॥१॥इमां खनाम्योषधिं नितत्नीमनुतन्तमाम् ।आयतः प्रतिनन्दनीं परायतो निवर्तनीम् ॥२॥अमुष्याहं परायत आयतो मनो अग्रभम् ।अग्रभं हस्त्यं मनो ऽथो हृदय्यं मन: ॥३॥मयि ते मन आहितं मयि चित्तं मयि व्रतम् ।ममेदपि क्रतावसो मम चित्ते सचावहै ॥४॥अहं वदानि मा त्वं सभायां घ त्वं वद ।ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥५॥यदि वासि तिरोजनं यदि वा नद्यास्तिर: ।इयं त्वा मह्ममोषधिर्बद्ध्वेव न्यानयात् ॥६॥३०यथा कलां यथा शफं यथर्णं संनयन्ति । एवाह दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥सं राजानो ऽगुः समृणान्यगुः सं कुष्ठा अगुः सं कला अगुः ।समस्मासु सुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवामः ॥२॥देवानां पत्नीनां गर्भ यमस्य करण: ।यो भद्र: स्वप्नः स मम य: पापस्तं द्विषते प्र हिण्मः ॥३॥तृष्णामा नामासि कृष्णशकुनेर्मुखं निर्ऋतेर्मुखम् ।तं त्वा स्वप्न तथा विद्म ॥४॥स त्वं स्वप्नाश्व इवाकायमश्व इव नीनाहम् ।अनास्माकं देवपीयुं पियारुं वप्सः ॥५॥यदस्मासु दुष्वप्न्यं यद् गोषु यच्च नो गृहे ।अनास्माकस्तद् देवपीयुः पीयारुं निष्कमिव प्रति मुञ्चताम् ॥६॥नवारत्नीनवमायास्माकं तन्वस्परि ।दुष्वप्न्यं सर्वं दुर्भूतं द्विषते निर्दिशामसि ॥७॥(इति षडृचोनामतृतीयकाण्डे षष्ठो ऽनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP