संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|षडृचोनाम तृतीयकाण्डः| ११ ते १५ षडृचोनाम तृतीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० तृतीयकाण्डः - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११ये स्थास्यां प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषव:। ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥१॥ये स्थास्यां दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां व आप इषवः ।ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥२॥ये स्थास्यां प्रतीच्यां दिशि विराजो नाम देवास्तेषां वः काम इषवः ।ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्य: स्वाहा ॥३॥ये स्थास्यामुदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः ।ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥४॥ये स्थास्यां ध्रुवायां दिशि विलिम्पा नाम देवास्तेषां वो ऽन्नमिषव:।ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्य: स्वाहा ॥५॥ये स्थास्यामूर्ध्वायां दिश्यविष्यन्तो नाम देवास्तेषां वो वर्षमिषवः ।ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥६॥१२यो अप्स्वन्तर्यो वृत्रे अन्तर्यः पुरुषे यो अश्मनि । य आविवेशौषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥१॥य: सोमे अन्तर्य उ गोष्वन्तर्य आविष्टो वयसि यो मृगेषु ।य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥२॥य इन्द्रेण सरथं संबभूव वैश्वानर उत विश्वदाव्य: !यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥३॥यो देवो विश्वाद् यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥४॥यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाःवर्चोधसे यशसे सूनुतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥५॥उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।वैश्वानरस्य ज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥६॥दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।ये दिक्ष्वन्तर्य उ वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥७॥बृहस्पतिं वरुणं मित्रमग्निं हिरण्यपाणिं सवितारमिन्द्रम् ।विश्वान् देवानङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥शान्तो अग्निः क्रव्यादथो पुरुषरेषण: ।अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥१३आायमगन् पर्णमणिर्बली बलेन प्रमृणं सपत्नान् ॥ओजो देवानां पय ओषधीनां मयि राष्ट्रं जिन्वत्वप्रयुच्छन् ॥१॥मयि राष्ट्रं पर्णमणे मयि धारया श्रियम् ।अहं राष्ट्रस्याभीवर्गे युजा भूयासमुत्तरः ॥२॥यं निदधुर्वनस्पतौ वाजं देवा: प्रियं निधिम् ।तं म इन्द्र: सहायुषा मणिं दधातु भर्तवे ॥३॥सोमस्य पर्णः सह उग्रमागन्निन्द्रेण दत्तो वरुणेन सख्या ।तमहं बिभर्मि बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥आा मा रुक्षत् पर्णमणिर्मह्या अरिष्टतातये ।यथाहमुत्तरोसानि मानुष्या अधि सम्पदः ॥५॥पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।पुनरग्नयो धिष्ण्यासो यथास्थाम कल्पयन्तामिहैव ॥६॥ये तक्षाणो रथकारा: कर्मारा ये मनीषिणः ।सर्वांस्तान् पर्ण रन्धयोपस्तिं कृणु मे जनम् ॥७॥उपस्तिरस्तु वैश्य उत शूद्र उतार्यः ।सर्वांस्तान् पर्ण रन्धयोपस्तिं कृणु मे जनम् ॥८॥१४येन वेहद् बभूविथ नाशयामसि तद् वयम्। इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥आ ते गर्भो योनिमेतु पुमान् वाण इवेषुधिम् ।आ वीरो ऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥पुमांसं पुत्रं जनय तं पुमाननु जायताम् ।भवासि पुत्राणां माता जातानां जनयासि च ॥३॥यानि भद्राणि बीजान्यृषभा जनयन्ति ।तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धनुका भव ॥४॥कृणोमि ते प्राजापत्यमा गर्भो योनिमेतु ते ।विन्दस्व पुत्र नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भवा ॥५॥यासां पिता पर्जन्यो भूमिर्माता बभूव ।तास्त्वा पुत्रविद्याय देवीः प्रावन्त्वोषधीः ॥६॥यस्ते योनिमुदिङ्गयादृषभो रेतसा सह ।स त आ सिञ्चतु प्रजां दीर्घायुं शतशारदाम् ॥७॥१५यां त्वा वातोवरयदार्द्रनाभा महर्षभः ।तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ॥१॥यां त्वा वराहो अखनदेकस्मिन्नधि पुष्करे ।तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥२॥यां त्वादितिरवपद बीजवापमधि पुष्करे ।तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ॥३॥यस्याः कुलायं सलिले अन्तर्महत्यर्णवे ।तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥४॥उत्ते भर उत्तमाया अधमायास्त उद्धरे ।उन् मध्यमान्मध्यमे तद्विषदूषणमुद्भरे ॥५॥अग्रभं समग्रभमुभावन्तौ समग्रभम् ।दिवश्च पृथिव्याश्च विषदूषणमुद्भरे ॥६॥(इति षडृचोनामतृतीयाकण्डे तृतीयोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP