संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|षडृचोनाम तृतीयकाण्डः| ३१ ते ३५ षडृचोनाम तृतीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० तृतीयकाण्डः - ३१ ते ३५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३१ ते ३५ Translation - भाषांतर ३१देवा मरुतः पृश्निमातरो ऽपो दत्तोदधिं भिन्त ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥१॥देवा अग्न इन्द्र सूर्यापो दत्तोदधिं भिन्त ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥२॥देवा: सयुजो मित्र वरुणार्यमन्नपो दत्तोदधिं भिन्त ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥३॥देवा: पितरो ऽवमा आयवः क्राव्य अपो दत्तोदधिं भिन्त ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥४॥देवाप्सुषदो ऽपां नपात्तनूनपान्नराशंसापो दत्तोदधिं भिन्त ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥५॥देव बृहस्पते ऽपो धेह्युदधिं भिन्धि ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥६॥देव प्रजापते ऽपो धेह्युदधिं भिन्धि ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥७॥देव परमेष्ठिन्नपो धेह्युद्युदधिं भिन्धि ।दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्यः प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥८॥३२प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः ।ता अस्मै प्रति वेदय चिकित्वाङ् अनु मन्यताम् ॥१॥येषामीशे पशुपतिः पशूनां चतुष्पदामुत वा ये द्विपाद: ।निष्क्रीतास्ते यज्ञिया यन्ति लोकं रायस्पोषाय यजमानं सचन्ताम् ॥२॥प्रमुञ्चन्तो भुवनस्य गोपा गातुं देवा यजमानाय धत्त ।उपाकृतं शशमानं यदस्थात् प्रियं देवानामप्येतु पाथः ॥३॥ये बध्यमानमनु दीध्यानां अन्वैक्षन्त मनसा चक्षुषा च ।अग्निष्टानग्रे प्र मुमुक्त देवः प्रजापति: प्रजया संविदानः ॥४॥येषां प्राणा अन्वबध्नन्त बद्धं गवां पशूनामुत पूरुषाणाम् ।इन्द्रस्तानग्रे प्र मुमुक्त देवः प्रजापतिः प्रजया संविदानः ॥५॥य आरण्याः पशवो विश्वरूपा ये विश्वरूपा उतैकरूपाः ।वायुष्टानग्रे प्र मुमुक्त देव: प्रजापति: प्रजया संविदान: ॥६॥प्रजानन्त: प्रति गृह्णन्तु देवाः प्राणमङ्गेभ्यस्पर्याचरन्तम् ।द्यां गच्छ प्रति तिष्ठा: शरीरै: स्वर्गं याहि पथिभि: शिवेभि: ॥७॥३३समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सर ऋषयो यानि सत्या । सं द्युम्नेन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्त्र: ॥१॥सं चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय ।मा ते रिषन्नुपसत्तारो अत्र ब्राह्मणास्ते यशसः सन्तु मान्ये ॥२॥त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने प्रतरणो न एधि ।सपत्नहाग्ने अभिमातिजिद् भव स्वे क्षये दीदिह्यप्रयुच्छन् ॥३॥इहैवाग्ने अधि धारया रयिं मा त्वा दभन् पूर्वचित्ता निकारिणः । पुर्वक्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्ट्टत: ॥४॥ पा. अनिष्कृतःक्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधेयं यतस्व ।सजातानां मध्यमेष्ठेयमस्या राज्ञामग्ने विहव्यो दीदिहीह ॥५॥अति निहो अति निर्ऋतीरत्यरातीरति द्विष: ।विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दा: ॥६॥अनाधृष्यो जातवेदा अनिष्ट्टतो विराडग्ने क्षत्रभिर्दीदिहीह ।व्यमीवाः प्रमुञ्चन्मानुषेभ्यः शिवेभिरद्य परि पाहि नो गयै: ॥७॥३४अयं ते योनिर्ऋत्वियो यतो जातो अरोचथा: । तं जानन्नग्न आ रोहाथा नो वर्धया रयिम् ॥१॥प्रदातारं हवामहे अग्निमुग्रमूतये ।शुचिर्यो वृत्रहन्तमः ॥२॥अग्ने अच्छा वदेह न: प्रत्यङ् नः सुमना भव ।प्र णो यच्छ विशां पते धनदा असि नस्त्वम् ॥३॥प्र णो यच्छत्वर्यमा प्र भग: प्र बृहस्पति: ।प्र पूषा प्रोत सूनृता रयिं देवी दधातु न: ॥४॥अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥५॥सोमं राजानमवसे ऽग्निं गीर्भिहवामहे ।आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥६॥इन्द्रवायू बृहस्पति: सुहवेह हवामहे ।यथा न: सर्वमिज्जगत् सङ्गत्यां सुमना असत् ॥७॥त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।त्वं नो देव दातवे रयिं दानाय चोदय ॥८॥वाजस्येदं प्रसवे सं बभूव मेमा च विश्वा भुवनान्यन्तः ।उतादित्सन्तं दापयति प्रजानन् रयिं च नः सर्ववीरं नि यच्छात् ॥९॥दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम् ।प्रापेयं सर्वामाकूतिं मनसा हदयेन च ॥१०॥गोसनिं वाचमुदेयं वर्चसा माभ्यूर्णुहि ।आा रुन्धां सर्वतो वायुस्त्वष्टा पोषाय ध्रियताम् ॥११॥३५यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥इन्द्रं वयमनूराधं हवामहे ऽनु राध्यास्म द्विपदा चतुष्पदा।मा नः सेना अररुषीरुप गुर्विषूचीरिन्द्र दुहो वि नाशय ॥२॥इन्द्रस्त्रातोत वृत्रहा परस्पा नो वरेण्यः ।स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान्नो अस्तु ॥३॥उरुं नो लोकमनु नेषि विद्वान् स्वर्यज्ज्योतिरभयं स्वस्ति।उग्रा त इन्द्र स्थविरस्य बाहू उप क्षियेम शरणा बृहन्ता ॥४॥अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे ।अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः॥अभयं नक्तमभयं दिवा न: सर्वा आशा मम मित्रं भवन्तु ॥६॥(इति षडृचोनामतृतीयकाण्डे सप्तमो ऽनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP