तृतीयोऽध्यायः - द्वितीयः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


सन्ध्ये सृष्टिराह हि ॥१॥
निर्मातारं चैके पुत्रादयश्च ॥२॥
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥३॥
सूचकश्च हि श्रुतेः आचक्षते च तद्विदः ॥४॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥
देहयोगाद्वासोऽपि ॥६॥
तदभावो नाडीषु तच्छ्रुतेः आत्मनि च ॥७॥
अतः प्रबोधोऽस्मात् ॥८॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥
मुग्धेऽर्थसम्पत्तिर्परिशेषात् ॥१०॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥११॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥१२॥
अपि चैवमेके ॥१३॥
अरूपवदेव हि तत्प्रधानत्वात् ॥१४॥
प्रकाशवच्चावैयर्थ्यम् ॥१५॥
आह च तन्मात्रम् ॥१६॥
दर्शयति चाथोऽपि स्मर्यते ॥१७॥
अत एव चोपमा सूर्यकादिवत् ॥१८॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥१९॥
वृद्धिह्रासभाक्त्वमन्तर्भावात्
उभयसामञ्जस्यादेवम् ॥२०॥
दर्शनाच्च ॥२१॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति
च भूयः ॥२२॥
तदव्यक्तमाह हि ॥२३॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥२४॥
प्रकाशवच्चावैशेष्यं ॥२५॥
प्रकाशश्च कर्मण्यभ्यासात् ॥२६॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥२७॥
उभयव्यपदेशात्तु अहिकुण्डलवत् ॥२८॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥२९॥
पूर्ववद्वा ॥३०॥
प्रतिषेधाच्च ॥३१॥
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥३२॥
दर्शनात् ॥३३॥
बुद्ध्यर्थः पादवत् ॥३४॥
स्थानविशेषात्प्रकाशादिवत् ॥३५॥
उपपत्तेश्च ॥३६॥
तथाऽन्यप्रतिषेधात् ॥३७॥
अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॥३८॥
फलमत उपपत्तेः ॥३९॥
श्रुतत्वाच्च ॥४०॥
धर्मं जैमिनिः अत एव ॥४१॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥४२॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य द्वितीयः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP