संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्राणि|तृतीयोऽध्यायः| प्रथमः पादः तृतीयोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः तृतीयोऽध्यायः - प्रथमः पादः ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत. Tags : badarayanbrahma sutraniबादरायणब्रह्म सूत्राणि प्रथमः पादः Translation - भाषांतर तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तःप्रश्ननिरूपणाभ्याम् ॥१॥त्र्यात्मकत्वात्तु भूयस्त्वात् ॥२॥प्राणगतेश्च ॥३॥अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥४॥प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥५॥अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥६॥भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॥७॥कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॥८॥यथेतमनेवं च ॥९॥चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॥१०॥आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥११॥सुकृतदुष्कृते एवेति तु बादरिः ॥१२॥अनिष्टादिकारिणामपि च श्रुतम् ॥१३॥संयमने त्वनुभूयेतरेषामारोहावरोहौतद्गतिदर्शनात् ॥१४॥स्मरन्ति च ॥१५॥अपि सप्त ॥१६॥तत्रापि च तद्व्यापारादविरोधः ॥१७॥विद्याकर्मणोरिति तु प्रकृतत्वात् ॥१८॥न तृतीये तथोपलब्धेः ॥१९॥स्मर्यतेऽपि च लोके ॥२०॥दर्शनाच्च ॥२१॥तृतीये शब्दावरोधः संशोकजस्य ॥२२॥स्मरणाच्च ॥२३॥तत्स्वाभाव्यापत्तिरुपपत्तेः ॥२४॥नातिचिरेण विशेषात् ॥२५॥अन्याधिष्ठिते पूर्ववदभिलापात् ॥२६॥अशुद्धमिति चेन्न शब्दात् ॥२७॥रेतः सिग्योगोऽथ ॥२८॥योनेः शरीरम् ॥२९॥इति ब्रह्मसूत्रेषुतृतीयाध्यायस्य प्रथमः पादः समाप्तः N/A References : N/A Last Updated : March 16, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP