संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|सूत्रस्थानम्| पञ्चविंशतितमोऽध्यायः सूत्रस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशतितमोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः सूत्रस्थानम् - पञ्चविंशतितमोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता पञ्चविंशतितमोऽध्यायः Translation - भाषांतर अथातो यन्त्रविधिमध्यायं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःनानाविधानां शल्यानां नानादेशप्रबाधिनाम्आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने ॥१॥अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजनेशेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि ॥२॥घटिकालाबुशृङ्गं च जाम्बवौष्ठादिकानि चअनेकरूपकार्याणि यन्त्राणि विविधान्यतः ॥३॥विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यतेतुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम् ॥४॥मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि चअष्टादशाङ्गुलायामान्यायसानि च भूरिशः ॥५॥मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैःविद्यात्स्वस्तिकयन्त्राणि मूलेऽङकुशनतानि च ॥६॥तैर्दृढैरस्थिसंलग्नशल्या हरणमिष्यतेकीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ ॥७॥त्वक्शिरास्नायुपिशितलग्न शल्यापकर्षणौषडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम् ॥८॥मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणागम्भीरव्रणमांसानामर्मणः शेषितस्य च ॥९॥.द्वे द्वादशाङ्गुले मत्स्यतालवत् द्व्येकतालकेतालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी ॥१०॥नाडीयन्त्राणि सुषिराण्येकानेकमुखानि चस्रोतोगतानां शल्यानामामयानां च दर्शने ॥११॥क्रियाणां सुकरत्वाय कुर्यादाचूषणाय चतद्विस्तारपरीणाहदैर्घ्यं स्रोतोनुरोधतः ॥१२॥दशाङ्गुलाऽधनाहान्तः कण्ठशल्यावलोकिनीनाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे ॥१३॥वारङ्गस्य द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतःवारङ्गकर्ण संस्थानानाहदैर्घ्यानुरोधतः ॥१४॥नाडीरेवंविधाश्चान्या द्र ष्टुं शल्यानि कारयेत्पद्मकर्णिया मूर्ध्नि सदृशी द्वादशाङ्गुला ॥१५॥चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मताअर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम् ॥१६॥नाहे पञ्चाङ्गुलं पुंसा प्रमदानां षडङ्गुलम्द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि ॥१७॥मध्येऽस्य त्र्यङ्गुलं छिद्र मङ्गुष्ठोदरविस्तृतम्अर्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकं च तदूर्ध्वतः ॥१८॥शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शःप्रपीडनम्सर्वथाऽपनयेदोष्ठं छिद्रा दूर्ध्वं भगन्दरे ॥१९॥घ्राणार्बुदार्शसामेकच्छिद्रा नाङ्यङ्गुलद्वयाप्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत् ॥२०॥अङ्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्द्विच्छिद्रं गोस्तनाकारं तद्वक्त्रविवृतौ सुखम् ॥२१॥योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्मुद्रा बद्धं चतुर्भित्तमम्भोजमुकुलाननम् ॥२२॥चतुःशलाकमाक्रान्तं मूले तद्विकसेन्मुखेयन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले ॥२३॥बस्तियन्त्राकृती मूले मुखेऽङगुष्ठकलायखेअग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी ॥२४॥द्विद्वारा नलिका पिच्छनलिका वोदकोदरेधूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम् ॥२५॥त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणेऽष्टादशाङ्गुलम्अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति ॥२६॥स्याद्द्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलःचतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्त श्लेष्मरक्तहृत् ॥२७॥तद्वद्घटीहिता गुल्मविलयोन्नमने च साशलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च ॥२८॥यथायोगप्रमाणानि तेषामेषणकर्मणीउभे गण्डूपदमुखे स्रोतोभ्यः शल्यहारिणी ॥२९॥मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुलेशङ्कवः षट् उभौ तेषां षोडशद्वादशाङ्गुलौ ॥३०॥व्यूहनेऽहिफणावक्त्रौ द्वौ दशद्वादशाङ्गुलौचालने शरपुङ्खास्यौ आहार्ये बडिशाकृती ॥३१॥नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतःअष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः ॥३२॥अश्मर्याहरणं सर्पफणावद्वक्रमग्रतःशरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम् ॥३३॥कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जनेपायावासन्नदूरार्थे द्वे दशद्वादशाङ्गुले ॥३४॥द्वे षट्सप्ताङ्गुले घ्राणे द्वे कर्णेऽष्टनवाङ्गुलेकर्णशोधनमश्वत्थपत्रप्रान्तं स्रुवाननम् ॥३५॥शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि ॥३६॥मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्कोलास्थिदलतुल्यास्या नासार्शोर्बुददाहकृत् ॥३७॥अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमेकनीनीमध्यमानामीनख मानसमैर्मुखैः ॥३८॥स्वंस्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्य्ञ्जनादिषुअनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः ॥३९॥वध्रान्त्रजिह्वाबालाश्च शाखानखमुखद्विजाःकालः पाकः करः पादो भयं हर्षश्च तत्क्रियाः ॥४०॥उपायवित्प्रविभजेदालोच्य निपुणं धिया ॥४१॥निर्घातनोन्मथन पूरणमार्गशुद्धि संव्यूहनाहरण बन्धनपीडनानिआचूषणोन्नमन नाम नचालभङ्ग व्यावर्तनर्जुकरणानि चयन्त्रकर्म ॥४२॥विवर्तते साध्ववगाहते चग्राह्यं गृहीत्वोद्धरते च यस्मात्यन्त्रेष्वतः कङ्कमुखं प्रधानंस्थानेषु सर्वेष्वधिकारि यच्च ॥४३॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायांसूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP