संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|सूत्रस्थानम्| एकादशोऽध्यायः सूत्रस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशतितमोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः सूत्रस्थानम् - एकादशोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता एकादशोऽध्यायः Translation - भाषांतर अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःदोषधातुमला मूलं सदा देहस्य तं चलःउत्साहोच्छ्वासनिश्वासचेष्टा वेगप्रवर्तनैः ॥१॥सम्यग्गत्या च धातूनामक्षाणां पाटवेन चअनुगृह्णात्यविकृतः पित्तं पक्त्यूष्मदर्शनैः ॥२॥क्षुत्तृड्रुचिप्रभामेधाधीशौर्य तनुमार्दवैःश्लेष्मा स्थिरत्वस्निग्धत्वसन्धिबन्धक्षमादिभिः ॥३॥प्रीणनं जीवनं लेपः स्नेहो धारणपूरणेगर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम् ॥४॥अवष्टम्भः पुरीषस्य मूत्रस्य क्लेदवाहनम्स्वेदस्य क्लेदविधृतिः वृद्धस्तु कुरुतेऽनिलः ॥५॥कार्श्यकार्ष्ण्योष्णकामत्व कम्पानाहशकृद्ग्रहान्बलनिद्रे न्द्रि यभ्रंश प्रलापभ्रमदीनताः ॥६॥पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्प निद्र ताःपित्तम् श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम् ॥७॥श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्र ताःरसोऽपि श्लेष्मवत् रक्तं विसर्पप्लीहविद्र धीन् ॥८॥कुष्ठवातास्रपित्तास्रगुल्मोप कुशकामलाःव्यङ्गाग्निनाश सम्मोहरक्तत्वङ्नेत्रमूत्रताः ॥९॥मांसं गण्डार्बुदग्रन्थिगण्डो रूदरवृद्धिताःकण्ठादिष्वधिमांसं च तद्वन्मेदस्तथा श्रमम् ॥१०॥अल्पेऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम्अस्थ्यध्यस्थ्यधिदन्तांश्च मज्जा नेत्राङ्गगौरवम् ॥११॥पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि चअतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि ॥१२॥कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम् ॥१३॥स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः ॥१४॥लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्प भाषितेहितम्संज्ञामोहस्तथा श्लेष्मवृद्ध्युक्तामयसम्भवः ॥१५॥पित्ते मन्दोऽनलः शीतं प्रभाहानिः कफे भ्रमःश्लेष्माशयानां शून्यत्वं हृद्द्र वः श्लथसन्धिता ॥१६॥रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुतारक्तेऽम्लशिशिरप्रीतिशिराशैथिल्य रूक्षताः ॥१७॥मांसेऽक्षग्लानिगण्डस्फिक्शुष्कता सन्धिवेदनाःमेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता ॥१८॥अस्थ्न्यस्थितोदः शदनं दन्तकेशनखादिषुअस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम् ॥१९॥शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वातोदोऽत्यर्थं वृषणयोर्मेढ्रं धूमायतीव च ॥२०॥पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निवकुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम् ॥२१॥मूत्रेऽल्प मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वास्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः ॥२२॥मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्स्वमलायनसंशोषतोदशून्यत्वलाघवैः ॥२३॥दोषादीनां यथास्वं च विद्याद्वृद्धिक्षयौ भिषक्क्षयेण विपरीतानां गुणानां वर्धनेन च ॥२४॥वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतःमलोचितत्वाद्देहस्य क्षयो वृद्धेस्तु पीडनः ॥२५॥तत्रास्थनि स्थितो वायुः पित्तं तु स्वेदरक्तयोःश्लेष्मा शेषेषु तेनैषामाश्रयाश्रयिणां मिथः ॥२६॥यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्अस्थिमारुतयोर्नैवं प्रायो वृद्धिर्हि तर्पणात् ॥२७॥श्लेष्मणाऽनुगता तस्मात् सङ्क्षयस्तद्विपर्ययात्वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान् ॥२८॥विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैःवायोरन्यत्र तज्जांस्तु तैरेवोत्क्रमयोजितैः ॥२९॥विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैःमांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः ॥३०॥स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्जातान् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिस्तथा ॥३१॥विड्वृद्धिजानतीसारक्रियया विट्क्षयोद्भवान्मेषाजमध्य कुल्माषयवमाषद्वयादिभिः ॥३२॥मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सयाव्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान् ॥३३॥स्वस्थानस्थस्य कायाग्नेरंशा धातुषु संश्रिताःतेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः ॥३४॥पूर्वो धातुः परं कुर्याद्वृद्धः क्षीणश्च तद्विधम्दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान् ॥३५॥अधो द्वे सप्त शिरसि खानि स्वेदवहानि चमला मलायनानि स्युर्यथास्वं तेष्वतो गदाः ॥३६॥ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम् ॥३७॥स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति ॥३८॥निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाःओजः क्षीयेत कोपक्षुद्ध्य्नाशोकश्रमादिभिः ॥३९॥बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रि यःदुच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये ॥४०॥जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः ॥४१॥यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तुतत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत् ॥४२॥कुर्वते हि रुचिं दोषा विपरीतसमानयोःवृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न ॥४३॥यथाबलं यथास्वं च दोषा वृद्धा वितन्वतेरूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥४४॥य एव देहस्य समा विवृद्ध्य्तै एव दोषा विषमा वधाययस्मादतस्ते हितचर्ययैवक्षयाद्विवृद्धेरिव रक्षणीयाः ॥४५॥इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायांसूत्रस्थाने दोषादिविज्ञानीयो नामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP