संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|सूत्रस्थानम्|

सूत्रस्थानम् - द्वाविंशतितमोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
चतुष्प्रकारो गण्डूषः स्निग्धः शमनशोधनौ
रोपणश्च त्रयस्तत्र त्रिषु योज्याश्चलादिषु ॥१॥
अन्त्यो व्रणघ्नः स्निग्धोऽत्र स्वाद्वम्लपटुसाधितैः
स्नेहैः संशमनस्तिक्त कषायमधुरौषधैः ॥२॥
शोधनस्तिक्तकट्वम्लपटूष्णैः रोपणः पुनः
कषायतिक्तकैः तत्र स्नेहः क्षीरं मधूदकम् ॥३॥
शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथायथम्
कल्कैर्युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत् ॥४॥
दन्तहर्षे दन्तचाले मुखरोगे च वातिके
सुखोष्णमथवा शीतं तिलकल्कोदकं हितम् ॥५॥
गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे ॥६॥
विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा
वैशद्यं जनयत्याशु सन्दधाति मुखे व्रणान् ॥७॥
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम्
धान्याम्लमास्यवैरस्यमल दौर्गन्ध्यनाशनम् ॥८॥
तदेवालवणं शीतं मुखशोषहरं परम्
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम् ॥९॥
सुखोष्णोदकगण्डूषैर्जायते वक्रलाघवम्
निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः ॥१०॥
गण्डूषमपिबन् किञ्चिदुन्नतास्यो विधारयेत्
कफपूर्णास्यता यावत्स्रवद्घ्राणाक्षताऽथवा ॥११॥
असञ्चार्यो मुखे पूर्णे गण्डूषः कवलोऽन्यथा
मन्याशिरःकर्णमुखाक्षिरोगाःप्रसेककण्ठामयमक्त्रशोषाः ॥१२॥
हृल्लासतन्द्रा रुचिपीनसाश्च साध्या विशेषात्कवलग्रहेण
कल्को रसक्रिया चूर्णस्त्रिविधं प्रतिसारणम् ॥१३॥
युञ्ज्यात्तत् कफरोगेषु गण्डूषविहितौषधैः
मुखालेपस्त्रिधा दोषविषहा वर्णकृच्च सः ॥१४॥
उष्णो वातकफेशस्तः शेषेष्वत्यर्थशीतलः
त्रिप्रमाणश्चतुर्भागत्रिभागार्द्धाङ्गु लोन्नतिः ॥१५॥
अशुष्कस्य स्थितिस्तस्य शुष्को दूषयति च्छविम्
तमार्द्र यित्वाऽपनयेत्तदन्तेऽभ्यङ्ग माचरेत् ॥१६॥
विवर्जयेद्दिवास्वप्नभाष्याग्न्या तपशुक्क्रुधः
न योज्यः पीनसेऽजीर्णे दत्तनस्ये हनुग्रहे ॥१७॥
अरोचके जागरिते स तु हन्ति सुयोजितः
अकालपलितव्यङ्ग वलीतिमिरनीलिकाः ॥१८॥
कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः
सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्निस्तुषा यवाः ॥१९॥
दर्भमूलहिमोशीर शिरीषमिशितण्डुलाः
कुमुदोत्पलकह्लारदूर्वा मधुकचन्दनम् ॥२०॥
कालीयकतिलोशीरमांसीतगर पद्मकम्
तालीसगुन्द्रा पुण्ड्राह्वयष्टी काशनतागुरु ॥२१॥
इत्यर्द्धार्द्धोदिता लेपा हेमन्तादिषु षट् स्मृताः
मुखालेपनशीलानां दृढं भवति दर्शनम् ॥२२॥
वदनं चापरिम्लानं श्लक्ष्णं तामरसोपमम्
अभ्यङ्गसेकपिचवो बस्तिश्चेति चतुर्विधम् ॥२३॥
मूर्द्धतैलम् बहुगुणं तद्विद्यादुत्तरोत्तरम्
तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु ॥२४॥
अरूंषिकाशिर स्तोददाहपाकव्रणेषु तु
परिषेकः पिचुः केशशातस्फुटनधूपने ॥२५॥
नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे
नासास्यशोषे तिमिरे शिरोरोगे च दारुणे ॥२६॥
विधिस्तस्य निषण्णस्य पीठे जानुसमे मृदौ
शुद्धाक्तस्विन्नदेहस्य दिनान्ते गव्यमाहिषम् ॥२७॥
द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरःसमम्
आकर्णबन्धनस्थानं ललाटे वस्त्रवेष्टिते ॥२८॥
चैलवेणिकया बद्ध्वा माषकल्केन लेपयेत्
ततो यथाव्याधि शृतं स्नेहं कोष्णं निषेचयेत् ॥२९॥
ऊर्ध्वं केशभुवो यावदङ्गुलम् धारयेच्च तम्
आवक्त्रनासिकोत्क्लेदाद्दशाष्टौ षट् चलादिषु ॥३०॥
मात्रासहस्राण्यरुजे त्वेकं स्कन्धादि मर्दयेत्
मुक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम् ॥३१॥
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने ॥३२॥
यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्
निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता ॥३३॥
कचसदनसितत्व पिञ्जरत्वं परिफुटनं
शिरसः समीररोगान्
जयति जनयतीन्द्रि यप्रसादं स्वरहनुमू
द्धबलं च मूर्द्धतैलम् ॥३४॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने गण्डूषादिविधिर्नाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP