संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|सूत्रस्थानम्| नवमोऽध्यायः सूत्रस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशतितमोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः सूत्रस्थानम् - नवमोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता नवमोऽध्यायः Translation - भाषांतर अथातो द्र व्यादिविज्ञानीयमध्यायं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःद्र व्यमेव रसादीनां श्रेष्ठं ते हि तदाश्रयाःपञ्चभूतात्मकं तत्तुक्ष्मामधिष्ठाय जायते ॥१॥अम्बुयोन्यग्निपवननभसां समवायतःतन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा ॥२॥तस्मान्नैकरसं द्र व्यं भूतसङ्घातसम्भवात्नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः ॥३॥अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यतेगुर्वादयो गुणा द्र व्ये पृथिव्यादौ रसाश्रये ॥४॥रसेषु व्यपदिश्यन्ते साहचर्योपचारतःतत्र द्र व्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम् ॥५॥पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्द्र वशीतगुरुस्निग्धमन्द सान्द्र रसोल्बणम् ॥६॥आप्यं स्नेहनविष्यन्दक्लेद प्रह्लादबन्धकृत्रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम् ॥७॥आग्नेयं दाहभावर्णप्रकाशपचनात्मकम्वायव्यं रूक्षविशदलघुस्पर्श गुणोल्बणम् ॥८॥रौक्ष्यलाघववैशद्यविचार ग्लानिकारकम्नाभसं सूक्ष्मविशदलघुशब्दगुणोल्बणम् ॥९॥सौषिर्यलाघवकरम् जगत्येवमनौषधम्न किञ्चिद्विद्यते द्र व्यं वशान्नानार्थयोगयोः ॥१०॥द्र व्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्अधोगामि च भूयिष्ठं भूमितोय गुणाधिकम् ॥११॥इति द्र व्यम् रसान् भेदैरुत्तरत्रोपदेक्ष्यतेवीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु ॥१२॥लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधाचरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया ॥१३॥नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता हि सागुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते ॥१४॥समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषुव्यवहाराय मुख्यत्वाद्वह्वग्रग्रहणादपि ॥१५॥अतश्च विपरीतत्वात्सम्भवत्यपि नैव साविवक्ष्यते रसाद्येषु वीर्यं गुर्वादयो ह्यतः ॥१६॥उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षतेऽपि चनानात्मकमपि द्र व्यमग्नीषोमौ महाबलौ ॥१७॥व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकिताः ॥१८॥शमं च वातकफयोः करोति शिशिरं पुनःह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः ॥१९॥जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्रसानां परिणामान्ते स विपाक इति स्मृतः ॥२०॥स्वादुः पटुश्च मधुरमम्लोऽम्ल पच्यते रसःतिक्तोषणकषायाणां विपाकः प्रायशः कटुः ॥२१॥रसैरसौ तुल्यफलस्तत्र द्र व्यं शुभाशुभम्किञ्चिद्र सेन कुरुते कर्म पाकेन चापरम् ॥२२॥गुणान्तरेण वीर्येण प्रभावेणैव किञ्चनयद्यद्द्रे व्ये रसादीनां बलवत्त्वेन वर्तते ॥२३॥अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यतेविरुद्धगुणसंयोगे भूयसाऽल्प हि जीयते ॥२४॥रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहतिबलसाम्ये रसादीनामिति नैसर्गिकं बलम् ॥२५॥रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्दन्तीरसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी ॥२६॥मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्इति सामान्यतः कर्म द्र व्यादीनां पुनश्च तत् ॥२७॥विचित्रप्रत्ययारब्धद्र व्यभेदेन भिद्यतेस्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः ॥२८॥उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः ॥२८॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायांसूत्रस्थाने द्र व्यादिविज्ञानीयो नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP