परमपुरुषसंहिता - षष्टोध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


ऋषयः
संप्रोक्षणावसर समय निरूपणे ऋषि प्रश्नः
भगवन् मुनिशार्दूल सर्वशास्त्रार्ध कोविद।
हरेर्गेहे किमर्थंतु संप्रोक्षण माचरेत् ॥१॥
विभेदोस्मिन् चकिं प्रोक्तं विस्तरेण(वदस्वनः)वदप्रभो।
श्रीनारदप्रतिवचनं
श्रीनारदः
शृणुध्वंमुनयस्सर्वे भक्तियुक्तैस्तुचैतसैः ॥२॥
संप्रोक्षण विधान कथनं
संप्रोक्षण विधानंतु अद्यवक्ष्यामि विस्तरात्।
आलयेप्रोक्षणंचैवन्नपनं मधुविध्विषः ॥३॥
आलय पतनादिषु ध्वजस्थंभादिक विच्छिन्ने बिंबपतनचलवादिषु
शांतिहोमं चान्नदाने संप्रोक्षणमि तीरितं।
आलयेपतनेचैव चलने(ऋषिपुंगवाः)चमुनीश्वराः ॥४॥
ध्वजस्धंभादिविच्छिन्ने विनष्टेशिखरस्यतु।
बिंबस्य पतनेचैव चलनेहसने तधा ॥५॥
पूयालोपाग्ने नष्टादिषु
पूजालोपेचाग्नि(नाशे)नष्टे अंगभंगादि संभवे।
नैवेद्यहीन अखंड नाशादिषु
नैवेद्यहीने चाखंड दीपनाशेतदापिच ॥६॥
विद्युत्पातादिषु अग्निदाहे जीर्णोद्धारे भूकंपातिवृष्ट्या दिषु
आलयध्वज बिंबानां अग्निदाहादि संभवे।
जीर्णोद्धारादि केचैव संप्रोक्षमुदाहृतं ॥७॥
भूकंपेचातिवृष्टौच विद्युत्पाताल्पवृष्टिषु।
देशारिष्टेदुर्निमित्ते संप्रोक्षण माचरेत् ॥८॥
छत्रचामं वाहनादिक दहने
छत्रचामरवस्त्रादि वाद्यवाहन भूषणाः।
दहंतिचे(प्रमादाद्यै)द्यदाविप्रा श्शांतिहोमादिकंचरेत् ॥९॥
वर्षांबु क्रिमिकीटा द्यैर्बिंबस्पृष्टौ
क्रिमिकीटादि भिर्बिंबं स्पष्टंचेद्यदि भूसुराः।
वर्षांबु पतनंचैव संभवेद्यदि विग्रहे ॥१०॥
प्रोक्षणं स्नपनंचैव शांतिहोमं समाचरैत्।
अनर्चकच्पृष्टौ रोमकेश वायस शुनकादि भिस्पृष्टौ
अनर्चकेन विप्रेण स्पृष्टं चेद्यदि विग्रहं ॥११॥
रोमकेशादिभिस्स्पृष्टं तधानिष्टीवनादिभिः।
गृध्रवायसगौळ्यादि शुनकादिभि रैवच ॥१२॥
संप्रोक्षणं प्रकुर्वीत यधाशास्त्र विधानतः।
छंडालशुनकाद्यालय प्रवेशे
(छंडाल गार्थभगृद्धश्वानकुक्कुट वायसैः)छंडाल शुनकाद्यैस्तु देवालय प्रवेशने ॥१३॥
अनर्चकगर्भगैह प्रवेशे
अनर्चकनरैश्चैव(गर्भालय) गर्भगेहप्रवेशने।
रजकनापकद्यैरंतराळ प्रवेशे
रजकैर्नाप कैश्चैव अंतराळ प्रवेशने ॥१४॥
वायसाद्यैश्च सर्पद्यैर्गर्भगृह प्रवेशने।
वायसाद्यैर्गर्भालय प्रवेशे
संप्रोक्षणंतदाकार्यंयथाविथिद्विजोत्तमाः ॥१५॥
स्त्रीणां रजोदर्शने प्रसवादिक संभवे जाताद्याशौचैरालय प्रवेशे
संभवेद्यदि नारीणां रजोदर्शनमालये।
गर्भश्रावंच प्रसवं तदासंप्रोक्षणंचरेत् ॥१६॥
जाताद्याशौचयुक्ताश्च प्रविशंति यदालयं।
संप्रोक्षणंतदाकुर्याच्छास्त्रोक्तेनैव वर्त्मना ॥१७॥
जारचोराद्यैर्बिं बस्पृष्टौ आलये जननमरणादि संभवे मथुमासाद्यानीते
जारचोरादि भिर्बिंबं स्पृष्टंचेद्यदिभूसुराः।
जननंमरणंचैव आलये यदिसंभवेत् ॥१८॥
आनीतामधुमांसाद्या यदादेवालयेनघाः।
तदासंप्रोक्षणं(कुर्वा)सर्वंशांतिहो(मादिपूर्वकं देवालय प्रवेशेच संप्रोक्षणमाचरेत्॥)मंयकारयेत् ॥१९॥
मृतशरीराद्यानीते
यदामृतशरीरंतु आनीतं भगवद्गृहे।
विसर्ज्य तक्षणंचैतत् दूरतोमुनिसत्तमाः ॥२०॥
संप्रोक्ष णादिकंसर्वं (पूरोक्त)यधोक्त विधिनाचरेत्।
बिंबस्य आतप
संभवेदा तपस्पर्शा भगवद्विग्रहेयधा ॥२१॥
खद्येतादिक संस्पर्शाबिंबेसंभवतेयदा
स्पृष्टौ वर्ज्यपुष्पादिक समर्पणे
तदाच प्रोक्षणंकुर्या त्स्नपनं शांति होमकं।
वर्ज्यपुष्पादिभिर्वापि दूषितैर्वामधुद्विषः ॥२२॥
पूजासंभवतेयत्र तत्रसंप्रोक्षणंभवेत्।
क्रिमिकीयाद्यैर्दूषितान्न निवेदने अन्यदेवता प्रदर्शने नित्योत्सवादिक लोपे
क्रिमिकीट शिलारोम केशाद्यैर्दूषितंयदा ॥२३॥
निवेदयेद्धरेरन्नं तदासंप्रोक्षणंस्मृतं।
यात्राकालेयदिभवे दन्यदेवस्यदर्शनं ॥२४॥
वासुदेवस्य तत्काले संप्रोक्षण माचरेत्।
नित्योत्सवस्यलोपेच नित्याराधन लोपने ॥२५॥
तक्षणंस्नपनंकृत्वा शांतिहोमय माचरेत्।
पुनःपूजादिकंसर्वं यधाविधि समाचरेत् ॥२६॥
नित्यनैवेद्यलोपे
नित्यनैवेद्यलोपेच विशेषस्नपनादिकं।
शांतिहोमादि(कंकुर्याद्यथाविधिबुथोत्तमाः)सकलं कुर्वतांमुनिपुंगवाः ॥२७॥
दिनत्रयंनैवेद्यलोपे
नैवेद्येयदिलोपंस्यात्त्रिदिनंमधुविद्विषः।
(कालशैरष्टोत्तर शतैःस्नपनादिक माचरेत्)अष्टोत्तरशतैःकुर्यात्स्नपनंकलशैस्तदा ॥२८॥
शांतिहोमादिकंचैव यथाविधितदाचरेत्।
दिनत्रयमारभ्य पक्षपर्यंतं
त्रिदिनंतु समारभ्ययावत्पक्षावसारकं ॥२९॥
नैवेद्येयदिलोपंस्या द्येनकेनच हेतुना।
उत्तमोत्तममार्गेण स्नपनादिकमाचरेत् ॥३०॥
मासपर्यंतं नैवेद्यहीने
मासंतस्याधिकंवापि नैवेद्येयदिलोपिते।
सहस्रकलशैस्नानं प्रोक्तंदेवस्यशार्ङ्गिणः ॥३१॥
षण्मासं नैवेद्य लोपे
षण्मासंवातदाथिक्यं नैवेद्येयदिलोपिते।
पुनःप्रतिष्ठाकर्तव्या यधाविथिबुधोत्तमाः ॥३२॥
महोत्सवलो कालातिक्रमणादिषु
महोत्सवस्यलोपेच कालातिक्रमणेपिच।
संप्रोक्षणादि कंकृत्वापुनःकुर्यान्महोत्सवं ॥३३॥
होमाग्नि नष्टादिषु
अग्नेनष्टेच होमाग्नौ अशुभस्यचदर्शने।
जिह्वाहोमादिभेदे
जिह्वाभेदेन होमादि भवेद्यदि तदापिच ॥३४॥
समिध दोषादिके
समिधेष्वार्द्रतादोषा स्संभवेच्चेन्मुनीश्वराः।
जलहोमे
तधाच घृतभावेन जलहोमादि संभवे ॥३५॥
तदासंप्रोक्षणं(चैव-शांतिहोमं समाचरेल्)शांति होमंकुर्याद्यथाविथिः।
ध्वजनाशे
महोत्सवस्यमध्येतु ध्वजनाशेबुधोत्तमाः ॥३६॥
शांतिहोमादिकंकृत्वा ध्वजमन्यत्समद्धरेत्।
पालिकाद्यंकुर दोषादिषु
पालिकादिष्वंकुराणि(नभवेद्यदिवा) नभवंतियदाद्विजाः ॥३७॥
यद्वात(दंकुराणां)दंकुराश्चैव शुष्के (नाशादि संभवे)नाशेयधाविधि।
संप्रोक्षणंतुकृत्वाग्नौ शांतिंपरिसमाप्यच ॥३८॥
पुनस्स्यादंकुरारोपं यथाशास्त्रविधानतः।
कुंडालंकरणानां नष्टादिषु
यदातुकुशकूर्चादि कुंडालं करणानिच ॥३९॥
विनश्यंतिदहंत्यैव तदासंप्रोक्षणंचरेत्।
पुनस्तान् चसुसंस्कृत्य यधापूर्वं विनिक्षिपेत् ॥४०॥
ब्रह्मकूर्चनाशे
ब्रह्मकूर्च विनिष्टेच शांतिहोमादि पूर्वकं।
पुनरेकंतु सस्धाप्यकर्म शेषं समापयेत् ॥४१॥
द्वारतोरणकुंभादिक नष्टादिषु
द्वारतोरण कुंभानां विनष्ठेदहने(तधा)पिच।
संप्रोक्षणं यथाशास्त्रंकुर्वतांमुनिपुंगवाः ॥४२॥
कुंडाग्नौ मार्जाल मूषकादिक पतने देवालये वल्मीक मध्वादिक संभवे
मार्जालमूषिकादीनि गौळिर्वा दृश्चिकंतुवा।
सर्पादीनिचकुंडाग्नौ पतंत्यदिमुनीश्वराः ॥४३॥
तदासंप्रोक्षणंशांति होमंकुर्याद्यधाविधि।
अलयेसंभवेद्यत्र मधुवल्मीक संभवं ॥४४॥
मार्जालमूषकादिक जनन मरण संभवेषु
दूरतस्तान्‌विसृज्यात्र शांतिहोमं समाचरेत्।
मार्जाल मूषकादीनां (जननमरणेकथा)जननंमरणंतुवा ॥४५॥
आलयेयदिसंप्राप्ते तक्षतणात्फ्रोक्षणंस्मृतं।
गृद्धवायसमार्जालाद्यालय प्रवेशेमलनिष्टीवनादिशे
मार्जालं मूषिकंचाहि र्वृश्चिकंगौळिरेवच ॥४६॥
खद्येतंवायसंगृध्रं गार्धभश्वान कुक्कुटाः।
प्रविशंतियदागेहॆ मलनिष्टीवनादिकं ॥४७॥
कुरुतेचालयेवापि बिंबेवापि मुनीश्वराः।
बिंबस्पृष्टौच नित्यनैमित्तिकाराधनादीं कालातिक्रमणे मंत्रतंत्रद्रव्य लोपादिषु
तैस्सृष्टंयदिबिंबंच तदासंप्रोक्षणं स्मृतं ॥४८॥
नित्यनैमित्तिकाख्यासु पूजासुचसवेषुच।
कालातीतंभवेद्यत्र शांतिहोमंसमाचरेत् ॥४९॥
द्रव्यलोपेतुदातारं मंत्रलोपेतु पूजकं।
हंतिसर्वकलापाश्च(तस्माज्जाग्रतजाग्रता)निश्चयंमुनिसत्तमाः ॥५०॥
पवित्राद्युत्सव लोपे
पवित्राद्युत्सवानांच यदिलोपादिकंभवेत्।
संप्रोक्षणंतुकृत्वावैपुसस्तान् सर्वमाचरेत् ॥५१॥
अर्घ्यपात्रादिक हस्तघंटा पतने संवत्सरोत्सवेषु लोपारिक संभवे
अर्घ्यपाद्यादिपात्राणि हस्तघंटाच भूसुराः।
पतंतिचेद्यदाभूमौलघुसंप्रोक्षणंभवेत् ॥५२॥
संवत्सरोत्सवेषुश्च यदालोपादिकंभवेत्।
तदल्पाधिकतांवीक्ष्य (संप्रोक्षण माचरेत्)प्रोक्षणादिकमाचरेत् ॥५३॥
घटनीरांजनेकालेयदितद्दीपनाशनं।
नीरांजन नाशेगंध पुष्पाद्युप चारलोपे
हरेःपुष्पोदकस्नानं कृत्वानीरांजनंचरेत्।
नित्याराधनकालेतु गंथपुष्पादिलोपिते।
क्षहरेस्तु क्षमांप्रार्ध्य द्विगुणंतत्समर्पयेत्।
संप्रोक्षणादिक परित्यागे प्रत्यवायः
इदंसंप्रोक्षणादीनां (समयस्यनिरूपणं)समय प्रवचनंबुधाः।
(येवलोभादिकैस्त्वेते त्यक्तास्तस्यक्षयं धृवं)यस्तुलोभान्नकुर्वीत यदितस्य क्षयंभवेत् ॥५४॥
देवश्चकुवितोभूयात्तद्राष्ट्रंचविनस्यति।
तदालयविनाशंच (नचिरात्सवं)शीघ्रमेवभवेद्द्विजाः ॥५५॥
इति श्रीपोंचरात्रागम रहस्यसारे श्रीपरमपुरुष संहितायां
संप्रोक्षणादि समय निरूपणं नाम षष्टोध्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP