परमपुरुषसंहिता - पंचमोध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


ऋषयः
देवालय धर्म पालन विषये ऋषी प्रश्नः
भगवन् संयमिश्रेष्ठ सर्वधर्मविदांवर।
देवालयेष्वर्चकास्तु सदापूजापरायणाः ॥१॥
तस्मात्तेषां सहायार्धं किंकर्तव्यंधरातले।
यस्यनिर्णय(मात्रेण)कार्वेण सकालाराधनार्थकं ॥२॥
सेवकाश्चान्यवस्तुश्च अर्चकस्यलभेद्भुवि।
तत्सर्वंविस्तरेणैव(अस्माकंबॄहि हेमुने)चास्माकंवदभोविभो ॥३॥
नारद प्रतिवचनं
श्री नारदाः-
धर्मकर्तृ निर्णय कथनं
शृणुध्वमुनयस्सर्वे हरिध्यानपरायणाः।
वक्ष्यामिभगवद्गेहे अधीकारिविनिश्चयं ॥४॥
तन्निर्णयावसर निरूपणं
कल्पितेतुहरेर्धाम सर्वैश्चपरिचारकैः।
भोगरागैश्चविभवैश्शाश्यतैर्यदिभूतले ॥५॥
तन्निर्णय समय निरूपणं
(तेषां तुपालनार्धंवै) एतेषांपालनार्थंस्या दधीकारि विनिश्चयं।
प्रतिष्ठांतेतुदेवस्य यजमानःप्रसन्नधीः ॥६॥
अर्चकादीन् विनिश्चित्य यधाशास्त्र विधानतः।
देभ्यस्तुभगवद्गेहं दत्वातद्भलसिद्धये ॥७॥
तत्सहायार्धमेलैक मधीकारिं विनिश्चयेत्।
धर्मकर्तृ लक्षण कथनं
सद्ब्राह्मणस्सदाचारी सत्यवादी बहुश्रुतः ॥८॥
पापभीतयुतश्चैव बहुशास्त्र विशारदः।
पंचरात्र विथानज्ञो ब्रह्मवादीच धर्मवित् ॥९॥
परदारथनाकांक्षा वर्जितो(वृद्धभूनुरः)वृद्धयेवच।
पंचसंस्कार संयुक्तः प्रियभाषीकृपाविधिः ॥१०॥
मताभिवृद्धिकामश्च महाभक्तशिखामणिः।
उत्तमान्वयसंजातो योगविद्याविशारदः ॥११॥
धीरश्चधीयुतश्शांतः क्षमाशालीच(वेष्णवः)धैर्यवान्।
सदसद्विवेचनादक्षो सदानम्रश्चसज्जनः ॥१२॥
ब्रह्मचारिर्गृहस्तोवा काननस्धोधवायतिः।
(पूर्वोक्त लक्षणैर्युक्तो)एतैश्च लक्षणैर्युक्तो दुष्टरोगविवर्जेतः ॥१३॥
देवालये सदाभूया दधीकारिर्द्विजोत्तमाः।
तत्कर्तव्यविधयः दिवारात्रं भगवत्सन्निधि वासः
तस्यकर्तव्यमद्याहं वक्ष्यामि मुनिपुंगवा ॥१४॥
ब्राह्मीमुहूर्त मारभ्य यावत्पूजावसानकं।
भगवत्सन्निधावेव सवसे(त्सततं)त्सर्वदाशुचिः ॥१५॥
आराधनार्ह वस्तु संपादनं आदायव्यय परिशिलन लेखनादि
सकालाराधनार्थंतु सर्ववस्तुचसेवकान्।
संपाद्यपूजकेभ्यस्तु दद्याद्वैधर्मपालकः ॥१६॥
(देवादायव्ययादीनि)देवादायंव्ययंसर्वं सयेवपरिशीलयेत्।
लेखकैस्सर्वयेवैते प्रत्यहं(चापि)चविलेखयेत् ॥१७॥
धर्मकर्तृनिर्णयेगृहस्थाद्याश्रम भेदेन उत्तमाधमनिरूपणं यतिनिर्णये श्रेष्टतो निरूपणं
यतिश्चेदुत्तमःप्रोक्तः गृहस्धोमध्यमस्स्मृतः।
अधमो ब्रह्मचारीच अधिकारिविनिश्चये ॥१८॥
यस्माद्थरेर्दर्शनार्थ(मागच्छंति)मागच्छंते प्रभुस्त्रीयः।
असूर्यं पश्यताश्चैव भक्त्यातु सततंभुवि ॥१९॥
तस्मा(त्सदाहरेर्गेहे)द्देव समीपेतु वासयोग्यस्तुयोभवेत्।
सर्व संगपरित्यागी सयतिस्त्वुत्त मस्स्मृतः ॥२०॥
विप्रनिर्णयहेतुः सामान्य विप्र निर्णये विशेष परिशीलनं
यद्वातु सभवेद्विप्र स्सर्वदालोक पूजितः।
तत्रापि परदारासु धनेषु विमुखश्शुचिः ॥२१॥
गृहस्धो ब्रह्मचारीवा धर्मकर्ताभ वेद्भुवि।
अपत्नीकस्य अनर्हता शूद्रस्य अनर्हता हेतु कथनं
अपत्नीकस्तुनकदा भवेद्दर्माधिपोद्वजाः ॥२२॥
यस्मात्तु पूजाकालेषु शूद्रसेवान उच्यते।
तस्मादेव सशूद्रस्तु धर्मकर्ताभ वेद्भुवि ॥२३॥
मतांतरस्य अनर्हता निरूपणं
यस्मान्मतप्रचारार्धमेते देवालयास्स्मृताः।
तस्मान्मतांतरोविप्रो नभवेद्धर्म पालकः ॥२४॥
अनर्ह निर्णये प्रत्य वाय कथनं
यजमानो यदाशौरेर्गेहं निर्मायतेभुवि।
राजाराष्ट्राभिवृद्ध्यर्धं शास्त्रोक्तेनैव(वर्त्मना)मार्गतः ॥२५॥
तदा(विधि विधानेन)तच्चास्त्र विधिना धर्मकर्तांच निश्चयेत्।
अन्यदा कुरुतेचैतत्सर्वंस्यान्निष्फलंबुधाः ॥२६॥
मतांतर विप्र निर्णये देवालय गौरव नाशः
मतांतरस्स्वभावेन दूषकोन्य मतेभवेत्।
तस्मात्तस्य विनिर्माणे धर्मकर्तृपदेद्विजाः ॥२७॥
लोकस्यापि विनश्यंति गौरवाद्यास्तदालये।
तस्मात्तुस्व मतस्धंवैब्राह्मणं तत्रनिर्दिशेत् ॥२८॥
अब्राह्मण निर्णये पूजा लोपोदिक निरूपणं
अब्राह्मणस्त्वनर्हस्या द्वेदादि पठनेभुवि।
तस्माच्छास्त्र विधानार्चांकंध(त्वेषा)मेषोविमर्शति ॥२९॥
तस्मात्तस्य विनिर्माणे नकिंचिल्लभतेफलं।
थर्मकर्तृ सम्मानहेतु निरूपणं
देवालयोधिपोयस्मान्नतधर्मस्य पालकः ॥३०॥
तस्मात्तं हरिभावेन सदा (लोकस्तु)लोकेच पूजयेत्।
अर्चकंविना सर्वसेवकदंडने धर्मकर्तु रधीकारः
अर्चकद्विज मेकंतुविना (त्वन्यान्‌तु)चालयसेवकान् ॥३१॥
सर्वान् चदंडितुंशक्तो धर्मकर्ताभ वेद्भुवि।
धर्मपालक दंडने यजमानस्यार्हता
तद्थर्म पालकंलोके यजमानस्तुदंडयेत् ॥३२॥
यधातु भगवद्गेह निर्माणानंतरंभुवि।
अनर्हधर्माधिकारिनि निर्णयेप्रत्यवायः
निर्णीतव्यार्च काश्चान्यास्सर्वलक्षण संयुताः ॥३३॥
तधैव धर्मकर्ताच यजमानेन भूतले।
पूर्वोक्त लक्षणैर्युक्तः (निश्चितव्यो)निर्णीतव्योयधाविधिः ॥३४॥
यजमानस्तु योमोहा त्पूर्वोक्यैस्सर्वलक्षणैः।
अयुक्तं वाद्विजंवापि यदिनिर्णयतेतदा ॥३५॥
तत्संभ वेकर्तव्य विधिः
तद्देवालय नाशंस्याद्देशारिष्टंच भूसुराः।
कर्तृनाशंभ वेत्तद्वदधीकारि क्षयंभवेत् ॥३६॥
यत्रभूयात्तु पूर्वोक्त मयोग्याधिपनिर्णयं।
शांतिहोमादिकान्‌कृत्वासंप्रोक्ष्य भगवद्गृहं ॥३७॥
तक्षणेत्व परंधर्म पालकं लक्षणैर्युतं।
विनिश्चत्य हरेःप्रीतिं यजमानस्तु कारयेत् ॥३८॥
धर्मपालकस्य उपाधि प्रकल्पनं
धर्माथिकारिणश्चापि (उपादिंच)जीननार्धं यदावसु।
भूमींवाभृतकंवापि यजमानो विनिश्चयेत् ॥३९॥
भूमीस्यादुत्तमंलोके भृतकं त्वधमंस्मृतं।
तस्मात्सर्वप्रयत्ने नभूमीयेव प्रदापयेत् ॥४०॥
वंशपारंपर्य निर्णय कधनं
वंशपारं परेणैतन्निश्चयंतु भवेद्भुवि।
शिष्यपारं परायद्वा यतिश्चेद्य दिनिश्चितः ॥४१॥
यति निर्णये शिष्यपरंपरा निरूपणं
यजमानस्स्व यंयत्र धर्मरक्षणमिच्छति।
पूर्वोक्तलक्षणैर्हीन स्तत्रस्थानाधिपंतुना ॥४२॥
यजमानस्स्वयमधीकारमिच्चतिचेत्कर्तव्य निरूपणं
अर्चकं वाविनिश्चित्य नामकार्थं तुतत्पदे।
तदाज्ञ यात्वर्हकार्याण्याचरेतस्वयंसः ॥४३॥
प्रत्यहं देवदेवस्य सन्निधौ धर्मपालकः।
देवालये प्रतिनित्यं आदायव्ययादि पठनं तस्मिन्‌ संशयानि पृच्छयांभक्तानामर्हता
सर्वाण्या यव्ययाधीनि(पाठयेद्भक्ति नम्रतः)पठेद्भक्ति विनम्रतः ॥४४॥
तस्मिन्‌यदा संशयश्चे त्किंचिद्वाघनमेववा।
तदासर्वेषिभक्ताश्चशक्ताःपृच्छतुमालये ॥४५॥
तत्पत्रे अर्चक सम्मति स्वीकारः
एवंतत्पठनं कृत्वायाधर्मकर्ताह्यनंतरं।
भगवत्प्रीतये तस्मिन्‌ पत्रेपूजक सम्मतिं ॥४६॥
भगवदास्थाने सर्वसेवकादि प्रदर्शनं
स्वीकृत्यचतदाविष्णो रास्धाने सर्वसेवकान्‌।
समाहूयचतानेक मेकंशौरेःप्रदर्शयेत्‌ः ॥४७॥
नित्यंच वासुदेवस्य सन्निधौ धर्मपालकः।
प्रातःकाले भगव द्विज्ञापनं
(प्रभातेतु)प्रातःकाले नमस्कृत्य विज्ञापन मधाचरेत् ॥४८॥
देवदेव महाविष्णोदिनेस्मिन् तवमंदिरे।
विमर्शयामि सर्वाणि धर्माणि भवदाज्ञया ॥४९॥
सेवकेषुच सर्वेषु यस्मिन् दोषोभ वेत्क्वचित्।
तान्‌चदंडयितुंचाज्ञांकृपया(ममदीयतां)दीयतांप्रभो ॥५०॥
इतिविज्ञाप्य देवेशं पुष्पमाल्यादिभिस्तदा।
धर्मकर्तृ सम्मान विधिःभगवद्द्रव्याभरणादिकगणन निवेदनं सेविक प्रदर्शंच
सम्मनितो भ वेद्धर्श पालकः प्रतिवासरं ॥५१॥
भगवद्द्रव्यभूषादि गणितंचत दास्स्वयं।
विज्ञाप्य सेवकानांतु गणनंच प्रदर्शयेत् ॥५२॥
एवं प्रतिदिनंचादौ कृत्वातद्धर्म पालकः।
तदारभ्यहरेस्ध्साने सर्वधर्माणि पालयेत् ॥५३॥
धक्मपालन लोपेन सेवक दोषफलं स्वयमनुभवनीयं भगवर्द्रव्यहरणे प्रत्यवायः
यदाच भगवद्गेहे सेवकेष्वेन केनच।
दोषादिकं (संभवेच्चे) यदिभवेद्धर्मपालन लोपतः ॥५४॥
तद्भलंतु स्वयंधर्म कर्ताभुंजीत भूतले।
लोभाद्वामोहतोवापियेनकेनापिहेतुनाः ॥५५॥
यत्किंचिद्भ गवद्रव्यं धर्मकर्ताहरेद्भुवि।
सजन्मशत साहस्रैश्श्वानयोनिंसमाश्रयेत् ॥५६॥
रौरवं नरकं गच्छे द्यावदाभूतसंप्लवं।
इहलोकेच सर्वाणि दुःखानिसमवाप्नुयात् ॥५७॥
भगवद्दर्शनार्धमागतस्त्रीषु अन्यभाव प्रदर्शनेदोष प्राप्तिः
यस्तुपश्येद्थरेर्गेहे भगवत्सन्निधौवसन्।
यस्यकयस्यापिचस्त्रीयो दर्शनार्धं समागताः ॥५८॥
मोहदृष्ट्यातुसोधर्म कर्तावापूज कोपिवा।
वंशक्षयमवाप्नोति रौरवं नरकं व्रजेत् ॥५९॥
भगवद्वस्त्र माल्यादि निर्माल्यधारणे अर्चकार्हता
वस्त्रभूषादि कानांतु निर्माल्यानांश्रियःपतेः।
स्वीकर्तुमर्ह यित्युक्तोह्यर्चकस्त्वेक येवहि ॥६०॥
स्वार्धपरतयास्वसुत बांधवादिक सेवक निर्णयेदोषः
तस्मा(त्तद्दरणेचैव)त्तेषांच हरणे धर्मकर्ता निनश्यति।
यस्मात्तु धर्मकर्ताच स्वसुतान्‌ बांधवान्‌हरेः ॥६१॥
सेवकेषुनियुंजीत लोभमोहादि हेतुभिः।
तस्मादेवसदातस्य नरकं संभवेद्भुवि ॥६२॥
देवालय निवास अग्रासनाधिवासा दिषु प्रत्यवायः
देवालय निवासंच आग्रासन सुखस्धितिः।
यजमानंच थर्माधि कारिणंहंतिभूतले ॥६३॥
प्रत्यहंनित्यपूजादौयजमानस्यनामच।
महाक्षेत्र नित्य पूजादिषु यजमानादिक गोत्र नामादिनवक्तव्य कधनं
नपक्तव्यं महाक्षेत्रे स्वयंव्यक्तादि केशुभे ॥६४॥
केवलंलोकरक्षार्थ मेत(त्पूजां प्रकल्पयेत्)त्पूजाभवेत्सदा।
तस्माद्यत्रतुकर्तावै स्वनाम्नार्चनमीच्छते ॥६५॥
प्रत्येक मेवत्पूजां (नित्यंचापि)प्रतिनित्यं समाचरेत्।
उत्सवांतेय समानस्यसम्मान विथिः
उत्सवांतेतुदेवस्य यजमानंहरेर्गृहे ॥६६॥
पुष्पमाल्यानुलेपाद्यै र्मानयेत्सततंभुवि।
यजमानाभावेधर्म पालक सम्मानविधिः अब्राह्मण यजमानसंभवे रक्षासूत्र धारणं
दीक्षा वस्त्रधारणंच
अप्रत्यक्षेतुवै(कर्त्रुः)तस्यतत्ध्सानेधर्मपालकः ॥६७॥
माननीयस्सदाभूयात्पूर्वो(क्तेनैव वर्त्मना)क्तविधिनाद्विजाः।
अब्राह्मणोभवेद्यत्र यजमानस्तुभूतले ॥६८॥
रक्षासूत्रं तुतत्ध्साने घंटायां बंधयेत्पुरा।
तदन्वेकंतुलौक्यंच यजमानस्य बंधयेत् ॥६९॥
धीक्षावस्त्रादिकास्सर्वा स्तधैवस्यान्मुनीश्वराः।
एतद्वैथर्मपालस्य निर्णयादि विधानकं ॥७०॥
इति श्रीपांचरात्रागम रहस्यसारे श्री परमपुरुष संहितायां
धर्माधिकारि विनिश्चय विधिर्नाम पंचमोध्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP