परमपुरुषसंहिता - चतुर्थाध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


ऋषयः-
भगवत्तीर्ध प्रसादादि महिमाश्रवणे ऋषि प्रश्न
श्लो ॥भगवन् श्रोतुमिच्छामो सर्वशास्त्र विशारद
हरिप्रसादमहिमा तत्तीर्थस्य विशेषता ॥१॥
भगवद्दर्शनेचैव पूजने चतुयद्भलं
गंधपुष्पफलादीनां वस्त्रभूषादिकांमुने ॥२॥
विष्णोस्समर्पणेचैव किंफलंलभतेभुवि
महोत्सवादिकरणे जीर्णोद्धारेचकिंफलं ॥३॥
तत्सर्वंविस्तरेणैव कृपयाब्रूहिनोमुने
श्रीनारदः-
नारद प्रति वचनं
शॄयतामद्यमुनयो भक्तियुक्तैस्तुचेतसैः ॥४॥
सविस्तरेणवक्ष्यामि युष्मार्यत्तुकांक्षितं
भगवन्निवेदनान्नंच भक्ष्यलेह्यादिकंसदा ॥५॥
भगत्प्रसाद महिमा निरूपणं
दिव्यंप्रसाद मित्युक्तं यद्दत्तंत्वर्चकेंहि
यद्ग्रुहीत्वानरोभूयात्सर्वल्बिषवर्जितः ॥६॥
यस्मिन्‌कालेतु संप्राप्तं प्रसादं जगतांपतेः
तक्षणेनैवतद्ग्रुह्य भुज्यतां मुनिपुंगवाः ॥७॥
योभक्षतिहरेरन्नं प्रत्यहंभक्तिभावतः।
इहसर्वसुखान् भुक्त्वा चांतेवैकुंठमाप्नुयात् ॥८॥
प्रसाद भक्षणे दृष्टिदोषादिशंकानकर्तव्या
दृष्टिदोषंस्पृष्टिदोषं नविचार्यहरेक्गृहे
सर्वैरपिपरिग्राह्योप्रसादोमुनिसत्तमाः ॥९॥
यःकरोतिविभेदोस्मिन् तस्यवंशक्षयेभवेत्
प्रसादनिंदकोयस्तु सगच्छेन्नरकंधृवं ॥१०॥
एकादश्यामपिभगवत्प्रसाद स्वीकारार्हणा
एकादश्यामपिबुथाः प्रसादं न परित्यजेत्।
उषोषितस्तु भुंजीत कणमेकंशिरोधृतं ॥११॥
हरिप्रीत्यैतुसर्वेपि एकादस्यादिकाव्रताः।
तस्मात्तेषुदिनेषुस्यात्प्रसाद स्वीकृतिश्शुभः ॥१२॥
तद्विसर्जनेप्रत्यवायकधनंच
हेतुभिःक्रोथलोभाद्यैर्यःप्रसादं(विसर्जते)नभक्षते
व्रतोपवासनिरतो सयेवस्यान्नराधमः ॥१३॥
तस्यसर्वव्रतानिस्यान्निष्फलानि बुधोत्तमाः।
श्रार्थादिषु भगवत्प्रसादेन पितृदेवतार्चनविधिः
पितृमातृश्रार्थकाले ष्वपिविष्ण्वर्पितैश्शुभैः ॥१४॥
अन्नाद्यैरर्चयेत्पित्रून् कर्ताभक्ति विशेषतः।
तत्पित्रूणांतु सुगति स्सत्वरंलभतेद्विजाः ॥१५॥
श्रार्थनिमंत्रित विप्राणांभगवत्तीर्ध स्वीकारार्हता प्रसाद भक्षणी अकालसकाल विचारो नकर्तव्यः प्रसादस्य भूप
श्रार्धेनिमंत्रिताविप्राःकर्ताचहरिमंदिरे।
तीर्धं पीत्वाप्रसादंतु भक्तेभ्य(स्सर्व)स्तत्समर्पयेत् ॥१६॥
प्रसादभक्षणे विष्णोर्यस्मिन् कस्मिन्दिनेपिच।
अकालमतिकालंवा नविमर्शर मुच्यते ॥१७॥
प्रसाद स्वीकृतौभक्तिश्रर्धालोपादिहेतुभिः।
यत्किंचित्पतते(भूमौ तद्राष्ठ्रस्यक्षयंधृवं)यत्र तद्ग्रामस्यक्षयंस्मृतं ॥१८॥
तन प्राप्तौ दोष निरूपणं
योभक्षतिहरेरन्नं सोमपायीसनिश्चयं।
त्रिदिनंभक्षतेयस्तु(सत्वारोग्यमवाप्नुयात्)सचारोग्यशरीरकः ॥१९॥
प्रसाद भक्षणेशालाधिक्यतया अधिक फलप्राप्ति कथनं भगवन्नैवेद्यार्थंधनधान्यादिक प्रदाने फल निरूपणं
नित्यंचभक्षणेचैत (त्सगच्छेत्परमंपदं)त्सवैकुंठमाप्नुयात्।
निष्यामोवासकामोवा येनकेनचहेतुना ॥२०॥
नैवेद्यार्धं हरेरन्नं धान्यंवाधनमेववा।
योददातिमुनिश्रेष्ठा स्तस्यभूयान्महाधनं ॥२१॥
धान्यादयस्त्विहेलोके चांतेश्रीविष्णुसन्निधिः।
महाभक्त्यातुयोदद्याद्दनंकिंचिद्धरॆःप्रियं ॥२२॥
नैवेद्यार्धं यदाशक्तिसोपि वैकुंठमाप्नुयात्।
नैवेद्य प्रभावः
सर्वेलोकाःप्रवर्तंते यस्यकुक्षौतु सर्वदा ॥२३॥
तस्यसतृप्तयेविष्णोर्नैवेद्यस्यप्रकल्पनं।
तस्मात्तत्सर्वलोकानां संतृप्यैस्यान्मुनीश्वराः ॥२४॥
सर्वदेहस्थितोशौरिस्संतृप्तश्चेन्निवेदने।
सर्वेलोकाश्चतृप्त्यंते नात्रकार्यविचारणा ॥२५॥
नैवेद्यार्धमन्नादीन् समानीयविधिः
पचनालयमारभ्य भगवत्सन्निधिंप्रति
मध्येमार्गे पसादंतु छत्रचामर दीपिकैः ॥२६॥
सर्वैश्चवाद्यघोषैश्च वेदघोषैश्शुभैस्तवैः।
उपचारैश्च सकलैः पाचकोशिरसाथृतः ॥२७॥
स्पृष्टिदृष्ट्यादिकैर्दोषै र्वर्जितंतु यधातधा।
आनीयमंटपेभोगे मंत्रराज मनुस्मरन् ॥२८॥
संप्रोक्ष्यनिक्षिपेद्भक्त्या हरेरभिमुखंयथा।
नैवेद्यानर्ह अन्नादिक निरूपणं
अपक्व च विपक्वंच क्रिमिकीटादि(संयुतं)भिर्युतं ॥२९॥
अत्युष्णमतिशीतंच अवैष्णवकृतंतुवा।
शूद्रछंडालदृष्टंच काकाद्यैश्शुनकादिभिः ॥३०॥
स्पृष्टंच रसहीनंच अन्यदेवार्पितंतुवा।
(रोमकेशादिभिर्युक्तं)शिलाकेशादिभिर्युक्तं सुरामांसादिदूषित ॥३१॥
आघ्रातं लंघितंचैव थरणीपतितंतुवा।
(भक्षितंवापि श्रीविष्णोः)देवदेवसृशौरेस्तु नकदापिनिवेदयेत् ॥३२॥
दूषितान्न निवेदने शांतिहोमादि
यद्वा निवेदयेदन्नं दोषयुक्तंश्रियःपतेः।
तक्षणंस्नपंकृत्वा शांतिहौमंसमाचरेत् ॥३३॥
हविःपात्र लक्षणं
हविःपचन योग्यानि सर्वेपात्राणिच द्विजाः।
शंखचक्रोर्ध्वपुंड्राद्यै र्लांछयेद्भक्तिवर्त्मना ॥३४॥
नैवेद्यात्पूर्व मेव हाविर्भक्षणे प्रत्यवायः
हरेर्निवेदनार्धंतु यदन्नं पचितं भुवि।
तन्नैवेद्यात्पूर्वमेव नकदा(पिचभक्षयेत्)भक्षयेन्नराः ॥३५॥
यस्तुभक्षतिमोहाद्वातस्यायुश्श्रीश्चनश्यति।
नैवेद्यात्पूर्व मेव हविर्दूषिते सतिकर्तव्यविधिः
नैवेद्यार्थं यदन्नंतु पचितं तवनुद्विजाः ॥३६॥
तन्नैवेद्यात्पूरमेव दूषितंचेत्तदाचतत्।
जलेनिक्षिप्य विधिव त्पुरन्नंतु पाचयेत् ॥३७॥
तद्भक्षणे दोष निरूपणं
विनातु जलनिक्षेपा त्तदन्नंयोभुजत्यसौ।
इहभुक्त्वाखिलान् दुःखान् रौरवंनरकंप्रजेत् ॥३८॥
षण्मासं भक्षतैयस्तु प्रसादं भगवद्ग्रुहे।
प्रसादभक्षण कालाधिक्यतयाधिक्य निरूपणं
तस्य सर्वाणिपापानि(विनस्यंति नसंशयः)नशंतिनच संशयः ॥३९॥
अब्दमेकं हरेर्धाम्मिनैवेद्यान्नंतुयोभुजेत्।
तस्यज्ञानोदयं ब्रह्मनिष्ठाचलभते बुधाः ॥४०॥
रधारूढ हरिप्रसाद महिमा
रधस्थस्यतु(महाविष्मोः)देवस्य प्रसादं भक्षतेयदि।
वंध्यापुत्रवतीभूयादचिरेण विनिश्चयः ॥४१॥
श्रीकृष्ण जन्मदिने भगवन्निवेदित क्षीर महिम
श्रीकृष्णजन्मदिवसे संतानाका क्षयाभुवि।
यास्त्रि पिबति गोक्षीरं वासुदेवनिवेदितं ॥४२॥
सासुपुत्रवतीभूया(द्लोकेस्मिन्)न्निश्चयं मुनिसत्तमाः
ध्वजारोहण काले गरुड प्रसाद महिमा
थ्वजारोहण कालेतु वैनतेय निवेदितं ॥४३॥
मुद्गान्नं भक्षतेयस्त्री सासु पुत्रवती भवेत्।
भक्तशेष प्रसाद महिमा
भक्तेभ्योर्पितसेषंतु प्रसादं मोक्षसिद्थिदं ॥४४॥
धनुर्मासे अरुणोदयकाल निवेदितान्न महिमा
अरुणोदयवेळायां धरुर्मासे(श्रियःपतेः)जगत्पतेः।
निवेदितंतुमुद्गान्नं सहस्रफलदं स्मृतं ॥४५॥
महोत्सवेषु प्रसाद महिमा
महोत्सवे प्रवर्तेतु सर्वैद्भक्तैर्यदर्पितं।
नैवेद्यं केवलं विष्णो र्वैकुंठप्राप्तिकारणं ॥४६॥
भगवत्पदतीर्ध महिमा
भगवत्पादतीर्धंतु नित्यंयःपिबतेवरः।
तस्यारोग्यं सदाभूयात्सायुज्यंलभतेधृवं ॥४७॥
सालग्राम तीर्ध महिमा
सालग्राम शिलावारि तुलशीदळयुतं।
सर्वरो(गप्रशमनं)गादिशमनं सर्वपापहरंभवेत् ॥४८॥
पंचगव्य महिमा
भगवत्सन्निथौदत्तं पंचगव्यंमुनिश्वराः।
महापातक नाशंच विष्णुसायुज्यदायकं ॥४९॥
अभिषेक तीर्थ महिमा
विशेषस्वपनेकाले देवस्यमथुविद्विषः।
स्नानोदकंपिबेद्यस्तु सर्वान् कामानवाप्नुयात् ॥५०॥
चक्र तीर्ध महिमा
तीर्धॊत्सवेप्रवर्तेतु चक्कस्नानोदकंपिबेत्।
सर्वाघशमनंनॄणां सर्वसंपत्व्रदायकं ॥५१॥
आचार्य श्रीपाद तीर्ध महिमा
आचार्यपदतीर्धंच प्रसन्नस्यपदोदकं।
सर्वदापानवंप्रोक्तं सर्वपातक नाशनं ॥५२॥
तस्मात्सर्वप्रयत्नेन भक्तिभावेनकेवलं।
भगवद्भागवताचार्य पादतीर्धंसदापिबेत् ॥५३॥
भगवत्तीर्ध विसर्जने दोषप्राप्तिः
हरिगेहेतुयोतीर्धं गृहीत्वाप्यपिबन्‌त्यजेत्।
सत्यस्प्यश्ययितिज्ञेयो छंडालयिवभूतले ॥५४॥
तदलक्ष्यकरणेच पाप निरूपणं
अलक्ष्यंकुरुतेयस्तु तीर्धेस्मिन् द्विजपुंगवाः।
तस्यपापक्षयंनास्ति शतजन्मैरपिद्विजाः ॥५५॥
चक्रेण सहमज्ञनविशेषः
तीर्धोत्सवेतुयोभक्त्या चक्रेणसहमज्जते।
सहस्रग्रहणस्नान(समंसद्भलमाप्नुयात्)समंसद्बल माप्नुयात् ॥५६॥
भगवत्तीर्ध ग्रहणेश्रर्धालोपे सतिप्रत्यवायः
हरितीर्धपरिग्राहे यस्तुश्रर्धाविवर्जितः।
निक्षिपेत्ततुभूमौच तस्यदुःखंमहत् भवेत् ॥५७॥
अर्चकहस्तेन तीर्ध स्वीकार विधिः
अर्चकस्यतुहस्तेन गृह्णीयाद्धरितीर्धकं।
नोचेत्सुरासमंज्ञेयं तत्तीर्थं(तुविसर्जयेत्)द्विजसत्तमाः ॥५८॥
भगवद्धन फलकधनं
अथवक्ष्येविशेषेण भगवद्दर्शनेफलं।
सेवनेचद्विजश्रेष्ठा श्श्रुणुध्वंश्रर्थयान्विताः ॥५९॥
नित्यदर्शने निशेषः
प्रत्यहंदेवदेवस्य मंदिरं यस्तुगच्चति।
तस्याभीष्ठानिसर्वाणि ददातिपुरुषोत्तमं ॥६०॥
प्रभोदोत्सव दर्शन फलनिरूपणं
प्रबोधोत्सववेळायां विष्णोद्दर्शनमुत्तमं।
सर्वपापप्रशमनं आयुरारोग्यवर्धनं ॥६१॥
एकापश्याविसर्वदर्शन फलप्राप्तिः
एकादश्याममायांच सर्वपर्वसुशार्ज्गिणः।
वैदर्शनंपावनंपुण्यं अभीष्टफलसिद्थिदं ॥६२॥
वैकुंठयेकादश्यां उत्तरद्वारगमन दर्शन फल कदनं
वैकुंठपदपूर्वाया मेकादश्यांद्विजेत्तमाः।
उत्तरद्वारगमने देवस्यमधुविद्विषः ॥६३॥
रधस्धभगवद्दर्शन फलनिरूपणं
दर्शनंसर्वलोकानां दुर्लभंमोक्षदायकं।
रथस्थस्यतुदेवस्य दर्शनंयःकरोतिसः ॥६४॥
गरुडारूढे दर्शन फलं
जन्मराहित्यममलं प्राप्नोति(विबुधोत्तमाः)सुविनिश्चयः।
गरुडारूढविष्णोस्तु सेवामोक्षफलप्रदा ॥६५॥
महोत्सवे भगवद्दर्शन फलप्राप्तिः
महोत्सवेप्रवर्तेतु भगवद्दनंभुवि।
असमानफलप्राप्ति हेतुभूतमितीरितं ॥६६॥
कल्याणोत्सवेदेव दर्शनफल विशेषः
कल्याणोत्सववेळायां देवेशंयस्तुपश्यति।
तस्यसर्वाणिपापानि नशंत्येवनसंशयाः ॥६७॥
पुष्पयागोत्सवांत प्रणयकल्हारोत्सवेदेवीसहित भगवद्दर्शन फल निरूपणं
पुष्पयागोत्सवदिनेदेवस्य(जगतांपतेः)मधुविद्विषः।
अंतेतुप्रणयकलह महोत्सववर्णेद्विजाः ॥६८॥
श्रीभुनीळादिसहितं हरेर्दर्शन मुत्ुमं।
योगीनांदुर्लभंचैतन्निश्चयं मुनिपुंगवा ॥६९॥
विशेष स्नपनकाले दर्शन विशेषः
विशेस्नपदेकाले भगवन्मूर्तिदर्शनं।
जन्मसाफल्यताहेतु भूतंमोक्ष(प्रदंस्मृतं)फलप्रदं ॥७०॥
कृत्तिका दीप प्रदर्शन फलं
एवकेनापिचद्विजाः कृत्तिकादीपदर्शनं।
अष्टैश्वर्यकरंमोक्ष साधनंभवतिथृवं ॥७१॥
अर्चक दर्शन फल विशेषकथनं
दर्शनंत्वर्चकसा पि हरिभावेन केवलं।
सर्वसंपत्क रंभूया त्सर्वपातकनाशनं ॥७२॥
भगवदालय दर्शने विशेषः
दर्शन तुहरेर्धाम्नः क्षुद्रग्रहनिवारकं।
गोपुर दृश्यतेयस्तु महाभक्त्याजगत्पतेः ॥७३॥
गोपुर दर्शने चक्रदर्शने
तस्यवंशाभिवृद्धिप्यादाचंद्रार्कं(चभूतले)धरातले।
गोपुराग्रस्थचक्रस्य दर्शन पापनाशनं ॥७४॥
भगवत्पादतुलश्या द्याघ्राणे निर्म्याधारणे
भगवत्पादतुलसी माघ्रायसकलानराः।
निरामयाभवेद्भूमौविष्णुलोकमवाव्नुयात् ॥७५॥
हरेर्निर्माल्य पुष्पंच चंदनंच बुधोत्तमाः।
शिरसागृहितंभूया छ्रेयोकामैस्सतंभुवि ॥७६॥
पालिकांकुर थारणे
भगवत्समर्पितान्‌दिप्यान्‌ पालिकाद्यंकुरान्‌शुभान्।
धृत्वातुशिरसा(लोको दूतपापोभःष्यति)लोकेधूतपापोनरोभवेत् ॥७७॥
विजय दशम्यां शमीपल्लवथारणे
आश्विनस्यसितेपक्षे दशम्यांविजयोत्सते।
शमीपल्लवस युक्तानक्षतान्‌योपरिगृहेत् ॥७८॥
होमभस्मथारणे
तस्यर्वत्रविजयं(सर्वदाच विनिश्चयं)सर्वकार्येषु निश्चयं।
हरेर्गेहेस्थितोहोम भस्मस्यान्मंगळ प्रदः ॥७९॥
पवित्र धारणे
तस्मातद्त्धारयेद्विप्रास्सर्वेपिचनराभुवि।
पवित्कोत्सवकालेतु वासुदेवस्यसक्रिणः ॥८०॥
पूजालोपादि शांत्यर्ध मर्पितंतुपवित्रकं।
भक्त्यायोधारयेन्नित्यं तस्यकुत्रापिचद्विजाः ॥८१॥
कर्मलोपंतुनभवे दितिशास्त्रविनिश्चयः।
होमधूमाघ्राणे
अघ्रातोहोमदूमश्च येवभक्त्याहरेर्गृहे ॥८२॥
तस्यभूयात्सदारोग्यं आयुश्श्रीर्वर्ससंघनं।
वीरलक्ष्माद्यर्पित कुंकुमादिधारणे
वीरलक्ष्मीभोगलक्ष्मोरर्पितंकुंकुमादिकं ॥८३॥
धृतंयेनसदातस्य सौभाग्यं(वर्थतेसदा)लभतिधृवं।
नीरांजनदर्शने
निरांजनस्यसमये दृश्यते योजंत्पतिं ॥८४॥
धूतपापोनरोभूया दैश्वर्यंच महल्लभेत्।
दिव्यक्षेत्रेषुदिनत्रयनिवासे
स्वयंव्यकादि क्षेत्रेषु त्रिदिनंयवसेन्नरः ॥८५॥
तस्यपातकवर्गस्तु (तक्षणाद्वैविनश्यते)तक्षणाच्चैवनश्यते
तेषुशरीरविसर्जने
पुण्यक्षेत्रेषुयोभक्त्या स्वशरीरं विसर्जयेत् ॥८६॥
तस्यवैजन्मराहित्यं निश्चयंभवति धृवं।
द्वात्रिंशदुपचारा द्वैर्भगवदर्चने
द्वात्रिंशदुपचाराद्यैष्षोडशैरुपचारकैः ॥८७॥
यःपूजयतिदेवेशं तस्याभीष्ठास्तुसिद्द्यते।
पर्वकालेषु सहस्र नामैरर्चने
एकादश्यांतु संर्काता वमायांश्रवणेपिच ॥८८॥
सहस्सनामैर्योभक्त्या हरिमर्चयतिस्वयं।
अन्येषु पर्वलेषु तस्य(वैकुंठमुच्यते)मोक्षोविनिश्चय ॥८९॥
अष्टोत्तरशतनामादिभिरर्चने
अष्टोत्तरशतैर्यस्तु नामभिश्चजगत्पतिं
यःपूजतिसदातस्य महत्सौख्यंभवेधृवे ॥९०॥
चतुर्विंशति संख्याकैर्द्वादशैर्ना मभिस्तुवा
योर्चनं कुरुतेतस्य भवबंधो विनस्यति ॥९१॥
गोभूहिरण्यादिक समर्पणे
हरिसंप्रीतयेयस्तु गोभूस्वर्णधनादिकान्
धान्यंच वाहनादीनि गजाश्वोष्ट्रादिकान्‌तधा ॥९२॥
पात्रादिकान्‌च भूषाश्च गंधपुष्पफला(फलांबरान्‌)दिकान्
छत्रचामर(भूषाश्च)वस्त्रादीन्‌ दासीदासान्‌ च भक्तितः ॥९३॥
(यस्तुदद्यान्मुनि श्रेष्ठाः)प्रदद्याद्विबुधश्रेष्ठा स्सर्वेष्टान्‌लभेतनः।
भुसमर्पण महिमा
भूमीदानंतुयोभक्त्या शाश्वतं कुरतेभुवि ॥९४॥
हरेस्तस्यमहत्सौख्यमायुर्वृद्थिर्भवेद्द्विजाः।
अर्चकस्य सालग्रामादिदानेफल निरूपणं
सालग्रामादिदानैश्च वस्त्रभूषधनादिभिः ॥९५॥
अर्चकंतोषयेद्यस्तु वासुदे स सन्निधौ
सोभूयाजन्मरहितो सुप्रसिद्धोधरातले ॥९६॥
देवालयसम्मार्जनेफलं
गेहसम्मार्जनेविष्णोर्जन्मसाफल्य(मीरितं)मुच्यते
चामरसेवायां
(चामरव्यजनाद्यैस्तु सेवामोक्ष फलप्रदा)धारणेचामरादीनां स्वर्गलोकस्थितिर्लभेत् ॥९७॥
छत्रादिवहने
वहनेछत्रवेत्रादि अभीष्टार्धान् लभेन्नरः
भगवद्वहने पुष्प माल्यादि समर्पणे
देवस्यवहनेसाक्षा द्विष्णुसायुज्यमीरितं ॥९८॥
पुष्पमाल्यादितानंस्या दसम फलदायकं।
नृत्तगीतादिकरणे
आलयेनृत्तगीताद्यै रिष्ट्धारान्‌लभतेनरः ॥९९॥
वाद्यघोशादिकरणे स्तोत्रपाठे
वाद्यघोषादिकरणे हरेःप्रीतिर्भवेथृवं।
स्तोत्रादिपठने विष्णो स्सायुज्यं (तुलभेद्द्विजाः)समवाप्नुयात् ॥१००॥
पात्रशुद्धिकरणे
स्थानशुद्ध्यादिकरणे पात्रशतद्धौलभेद्यशः।
दीप प्रज्वलने
दीपप्रज्वलने(भूयात्)चैव ग्रहस्नान सद्भलं ॥१०१॥
आराधरार्ह वस्तुप्रदाने
नित्याराथनार्हाणां वस्तुनांतुसमर्पणे।
सप्तजन्मकृतंपापं तक्षणादेवनश्यति ॥१०२॥
महोत्सवकरणे
महोत्सवस्यकरणे पंचपातकनिर्वृतिः।
पवित्राद्युत्सव करणे
पवित्राद्युत्सवानांतु रणेजगतांपतेः ॥१०३॥
वंशाभिवृद्धिस्सायुज्यं लभते(वतुसंशयः)नात्रसंशयः।
सहस्रकलशाभिषेक कल्पने
सहस्रकलशस्नान कल्पनेमधुविद्विषः ॥१०४॥
सहस्रतीर्धसुस्नाता यजमानोभवेधृवः।
महोत्सवादिकालेषु ग्रामालंकरणंतुवाः ॥१०५॥
धामालंकरणा दिषु
धामालंकरणंवापि महाभक्त्याकृतंयदि।
सर्वार्थासाधकंभूया(साक्षाद्वैकुंठदायिनी)त्सर्वसंपत्प्रदायिनी ॥१०६॥
हविःपाचने
हविःपचनकर्मास्वाद्भुक्तिमुक्तिफलप्रदा।
विस्तरेणतुकिंविप्रास्सर्वेकार्या जगत्पतेः ॥१०७॥
देवालयादिक निर्माणे
विशेषफलदाप्रोक्ता स्सत्यमेतद्विनिश्चयं।
यस्तुभक्त्याहरेर्गेहं राजाराष्ट्राभिवृद्धये ॥१०८॥
निर्मायतेतस्यविष्णो स्सायुज्यंलभतिद्धृवं।
इहलोकेपिवैतस्य अभिष्ठार्धाश्च सिद्धयते।
तद्वंशजाःपरंयांति शतपूर्वाशतापराः ।
मंटप निर्माणे
मंटपस्यविनिर्माणे येनकेनापि भूतले ॥१०९॥
तस्यंवंशाभिवृद्धिस्या द्यावदाभूतसंप्लवं।
गोपुरादिक निर्माणे
गोपुरस्यविनिर्माणे शिखरस्थापनेपिच ॥११०॥
सत्संतानफलप्राप्ति स्तक्षणाल्लभतेनः।
प्राकारादिक निर्माने
प्राकारस्यचद्वारस्य विनिर्माणेहरेर्गृहे ॥१११॥
संसारबंधमोक्षश्च(भवेदिष्टार्ध सिद्धिच)निश्चितंमुनिसत्तमाः।
वीरलक्ष्मीस्थापने
वीरलक्ष्म्यास्थापनंतु महदैश्वर्यदायकं ॥११२॥
ध्वजस्थंभस्थापने
ध्वजस्थंभ(प्रतिष्टायां)प्रतिष्ठातु सर्वसंपत्करंभवेत्।
हरेस्सायुज्य प्राप्तिश्च संभवेत्तेनभूतले ॥११३॥
वाहन निर्माणे
वाहनादिक निर्माणे देवस्यमधुविद्विषः।
शतयज्ञफलप्राप्ति(रिष्ट सिद्धिश्चनियं)र्निश्चयंमुनिसत्तमाः ॥११४॥
भगवदालय गोपुरादि दर्शनेषु कर्तव्य विधयः
भगवद्ग्रुहंतुसंविक्ष्य साष्टांगं प्रणमेद्द्विजाः।
दर्शनेगोपुरस्यापि शिखरस्यतधैवच ॥११५॥
शिखराग्रस्थ चक्रस्य ध्वजाग्रस्यव भूसुवाः॥
साष्टांगंदंडवद्भूमौ नमस्कारं समाचरेत्।
यःकरोतितधालोके तस्यभूयान्महाफलं ॥११६॥
दंडप्रणामकर्तव्यप्रदेशानि
बलिपीठे(महाद्वारे)द्वारदेशे महामंटपमथ्यतः।
पूर्वोक्तेनैवविधिना साष्टांगंप्रणमेद्बुथाः ॥११७॥
देवालये प्रवर्तव्य विधि निरूपशं पृष्ठ दर्शने दोषः
देवालयेषुसततं भक्तिश्रर्धान्वितोनरः।
विष्णोरभिमुखंतष्ठे त्प्रुष्ठभागंरदर्शयेत्ः ॥११८॥
वीरासनाद्यैर्धॊष निरूपणं
वीरासनाद्याननेषु नकदापिहरेर्ग्रुहे।
संविसेद्विबुधश्रेष्ठात्तेन(दुःखं महद्भवेत्)पापोमहान्‌भवेत् ॥११९॥
छत्रपादुकदंडादिधारणेप्रत्यवायः
तस्मात्तुसर्वदालोके भक्तिनम्रस्तुसंविसेत्।
छत्रंदंडं पादुकौच भगवत्सन्निथौस्वयं ॥१२०॥
विन्मूत्रनिष्टिवनादि विसर्जने
नधारयेदितिप्रोक्तं श्रेयःकामैस्तुसर्वदा।
भगवन्मंदिरेवापि(तत्समीपेच भूसुराः)तत्समीपधरातले ॥१२१॥
विण्मूत्रोत्सर्जनंचैव निष्टीवन विसर्जनं।
स्नानंचवर्जनीयंस्याद्भ वत्कोपकारणं ॥१२२॥
भगवदुत्सवे मानुषात्सवादिकरणे
महोत्सवेप्रवर्तेतु देवदेवस्यशार्ङ्गेणः।
यावत्तीर्धोत्सवदिनंतद्ग्रायेचान्वदुत्सवं ॥१२३॥
विवाहादिकसर्वेपि वर्जनीयाद्विजोत्तमाः।
यस्तुकुर्यात्तुतान्‌विप्रा स्तस्यदोषाभवेद्भुवि ॥१२४॥
महोत्सवमध्ये अन्यदेवोत्सवाचरणे
विष्णोरुत्सवमध्येतु अन्यदेवोत्सवंयदा।
कुरुतेमूढभावेन तदातद्ग्रामनाशनं ॥१२५॥
भगवदुत्सवात्पूर्वमेन विवाहादि करणे
विष्णोरुत्सव कालेचतत्पूर्वं(वाद्विजोत्तमाः)चद्विजोत्तमाः।
यस्तुकुर्याद्विवाहादीन्‌तत्सर्वं निष्फलंभवेत् ॥१२६॥
देवताह्वानमारभ्यतद्विसर्जनांतं अन्यग्रामादिक गमने
महोत्सवेप्रवर्तेतु वासुदेवस्यश्रीपतेः।
देवताह्वानसमये भेरींशृण्वंतियेनराः ॥१२७॥
नगच्छेयुस्तेन्यदेशं नदूरंयोजनात्परं।
गमनेसतिमोहाद्वै व्याधियुक्ताभवेद्भुवि ॥१२८॥
ध्वजारोहाद्यवरोहोंतं अन्य ग्रामादिक गमने
ध्वजारोहणमारभ्य अवरोहदिनावधि।
यस्तुगच्छेदन्यदेश मन्य(ग्रामंतुवाबुथाः)ग्राममथापिवा ॥१२९॥
तन्यभूयाद्यशोनाश श्चायुक्षीणं थरातले।
तस्मात्सर्वप्रयत्नेन बहिर्यानं विसर्जयेत् ॥१३०॥
महोत्सव फल निरूपणं
महोत्सवःकृतोयेन सोश्वमेधफलंव्रजेत्।
यत्रदेशेभवेद्येत दुत्सद तत्रचद्विजाः ॥१३१॥
सुवृष्टित्सर्वलोभूया(द्राज्ञो वृद्धिश्चनिश्चितः) द्राजानृद्धिमवाप्नुयात्।
ध्वजारोहे गरुड दर्शन फलं
ध्वजारोहण वेळायां खगेशंयस्तुदृश्यते ॥१३२॥
तस्यसन्मंगळंभूयात्सर्वदासनसंशयः।
भेरीश्रवण फलकथनं
देवताह्वानकालेतु (भेरींशृण्वंतुयोनराः)भेरींयस्तुशृणोतिपः ॥१३३॥
अवाप्यात्रतुसर्वेष्टा नंतेवैकुंठमाप्नुयात्।
थनुस्संक्रमणेकाले प्रत्यहंचारुणोदये ॥१३४॥
धनुर्मासार्चन फल निरूपणं
शास्त्रोक्तेनैवमार्गेण हरिंनम्यक्प्रपूजयेत्।
अब्दमेकंतुसंपूज्य यद्भल लभतेनरः ॥१३५॥
तद्भलंसर्वमाप्नोदि(चासेत्वेकदिनेनहि)दिनेनैकेवपूजकः।
कृत्तिकादीवदर्शने
वृश्चिकस्तेदिनकरे(कॆत्तिकायाम महोत्सवं) कृत्तिकादीपदर्शनं ॥१३६॥
सर्वाभीष्ठ्रदंनृणां सर्वपातक नाशनं।
घंटानाद महिमा
घंटानादंहारेर्धाम्निशृत्वाब्रह्मग्रहापिच ॥१३७॥
गच्छंतिदूरतश्शीघ्रं नागमिष्यंति तेपुनः।
एकादश्यां दर्शन पूजनादिक फल निरूपणं
एकदश्यांतुभगवद्दर्शनं (मोक्षदायकं)पापनाशनं ॥१३८॥
अर्चनादिककार्यास्तु सहस्रफलदास्मृताः।
एकादशि व्रत महिमा
एकदश्याव्रतंलोके सर्वोत्तम मुदाहृतं ॥१३९॥
भक्तानांकल्पकंचैव भुक्तिमुक्ति फलप्रदं।
एकादश श्रार्ध विवर्जनं
तस्मिन्(तुदिवसे श्रार्धं)दिनेपितृश्रार्धंचापिवर्ज्य मुनीश्वराः ॥१४०॥
(द्वादाश्यांदिवसेत्वेतत्)परस्मिन् दिवसेचैत त्कुर्वतांशास्त्रवर्त्मना।
वीरलक्ष्मीत्सव महिमा
आश्विनस्यसितेपक्षे नवम्यांसर्वतोभुवि ॥१४१॥
वीरलश्र्म्युत्सवंकार्यं सर्वलोकसुखावहं।
यःकरोत्युत्सवंचैत त्तस्यश्र्रीर्निश्चलाभवेत् ॥१४२॥
श्रीकृष्ण जयंत्या चरणे फलप्राप्तिः
श्रीकृष्ण जन्मदिवसे यःकरोत्यु(महोत्सवं)त्सवंहरेः।
तस्यगोभूहिरण्यानि वर्धंतेनात्रसंशयः ॥१४३॥
यस्मिन्‌देशेकृतंचैत दुत्सवंजगतांपतेः।
तस्मिन्‌देशेविशेषेण गवांवृद्धिर्भविष्यति ॥१४४॥
भक्तजन्मदिनोत्सवादिकरणे
भक्तजन्मदिनेषुश्च स्वीयजन्मदिनेपिच।
महोत्सवंप्रकुर्वीत देवदेवस्यसन्निधौ ॥१४५॥
एवंयःकुरुतेभूमौ(सत्वायुर्वृद्धि माप्नुयात्)तस्यायुर्वृद्धिरुत्यते।
ज्येष्टाभिषेकाद्युत्सवकरणे फलनिरूपणं
ज्येष्टाभिषेकमारभ्य यावद्वासंतिकोत्सवं ॥१४६॥
भगवन्मंदियस्तु कुरुतेतस्यसर्वदा।
आयुरारोग्यभाग्यानि लभंत्यत्रवसंशयः ॥१४७॥
राजाराष्ट्राभिवृद्धिश्च तस्मिन्‌देशे(भविष्यति)भवेद्धृवः।
भगवन्मंदिर जीर्णोद्धारे
जीर्णितंभगवद्गेहं दृष्ट्यायोभक्तिभावतः ॥१४८॥
उद्धारंकुरुते(तस्यहरेस्सायुज्य मीरितं)भूमौहरेस्चायुज्यमाप्नुयूत्।
भगवत्त्सोत्रपाठंतु प्रभातेयस्तुकुर्वति ॥१४९॥
तस्याभीष्टानि सिध्यंते शीघ्रकालेमुनीश्वराः।
श्रीपुष्पयाग दर्शने
पुष्पयागेप्रवर्तेतु चक्राब्जस्धंजगत्पतिं ॥१५०॥
दर्शतेयस्तुसद्भक्त्या प्राप्नोतिपरमांगतिं।
श्रीहरि नाम संकीर्तन श्रवणादिक फल निरूपणं
नामसंकीर्तनंचैव श्रवणंचथरातले ॥१५१॥
सर्वपापहरंभूया त्सर्वविघ्नविनाशनं।
युद्धजयप्राप्ति साधनं
युद्धमथ्यस्थितो(यस्तु)भूमौहरिंसंप्रार्थ्यभक्तितः ॥१५२॥
सत्वरंजयमाप्नोति संशयंनास्तिभूसुराः।
महोत्सवेसयजमानार्चक परिचारिक प्रेक्षकानां फलप्राप्तिकधनं
देवस्योत्सवकर्ताच(अचार्य ब्रह्म ऋत्विजाः)आचार्येऋत्विजास्तथा ॥१५३॥
परिचारकवर्गश्च प्रेक्षकाश्चसदाहरेः।
सायुज्यंप्राप्यमोदंतेनित्यमुक्तायिवद्विजाः ॥१५४॥
अष्टम्यांचचतुर्दश्यां नवम्यांभृगुवासरे।
लक्ष्मीपूजा विशेष दिवस निरूपणं
पूर्णिमायाममायांच वीरलक्ष्म्याःप्रपूजने ॥१५५॥
सहस्रनामभिस्तस्या हरिद्राचूर्णकुंकुमैः।
धनधान्याभिवृद्धिश्च(मोक्षसिद्धिच निश्चयं)वैकुंठप्राप्तिचधृवं ॥१५६॥
अष्टाक्षरादि वैष्णव मंत्रजपे विशेषः
वासुदेवद्वादशार्णं श्रविष्णोस्तुषडक्षरं।
श्रीमन्नारायणस्यापि आष्टाक्षरमहाममं ॥१५७॥
श्रीरामतारकंचैव श्रीमंत्रंचसदाभुवि।
श्रीपुरुष सूक्तादि नित्यपारायण विषय निरूपणं
पौरुषंसूक्तममलं श्रसूक्तंचमुनीश्वराः ॥१५८॥
भूमीनीळादिमूक्तानि गीताश्चहरिभोधिताः।
विष्णोस्सहस्रनामानि यधाशक्तितुप्रत्यहं ॥१५९॥
जपित्वाचपठित्वाच ध्यात्वाचैवजगत्पतिं।
सकलैर्भवबंधैश्च मुत्यंतेविबुधोत्तमाः ॥१६०॥
गारुड मंत्रजपफलं
यःपठेत्प्रत्यहंभक्त्या गरुडस्यमहामनुं।
तस्यसर्पविषादीनि निर्विषंतुभवेद्द्विजाः।
हनुमन्मंत्र जपफलं
हनुमन्मंत्रराजंतु योनित्यंपठतेभुवि।
तस्यदर्शनमात्रेण ग्रहजालं विमुत्यते।
इहलोकेपिचैतेषां भवेदिष्टार्धसंभवं।
ग्रीष्मकालेभगवस्चमर्पणयोग्य वस्तु विशेष कधनं वैशाखपूजा महिमा
(ग्रीष्मर्तौयदि संप्राप्ते)ग्रीष्मकालेतुसंप्राप्ते हरिसंतर्प्यशीतलैः।
दध्यन्नाद्यैर्नरोभूयात्सर्वकिल्बिष वर्जितः ॥१६१॥
वैशाखेवैष्णवादिभ्ये(लस्तुदद्याद्गुडेदकं)योददातिगुडैदकं।
द्ध्यन्नव्यजनादीनि छत्रपादुकदक्षीणाः ॥१६२॥
फलानिचहरिप्रीत्यै तस्यमुक्तिःकरेस्थितः।
हिमवंत ऋतौ वस्त्रकंचुकादि प्रदाने फल निरूपणं
हिमवंत ऋतौयस्तु वस्त्रपर्यंककंचुकान् ॥१६३॥
वैष्णवेभ्यन्तुयोदद्या त्सोपिवैकुंठमाश्रयेत्।
श्रीवेष्णवान्न भश्रण फलं
सर्वदा वैष्णवान्नंतु भुंजीयाद्विबुधोत्तमः ॥१६४॥
साक्षाद्धरिप्रसादंतु तद्भवेन्नचसंशयः।
पंच संस्कार महिमा
पंच संस्कार महिमा त्वसमाभवति धृवं ॥१६५॥
तस्मात्सायुज्यकामा स्धान्‌धारयेत्तुफाथरातले।
श्रीवैष्णवस्य पुज्यता निरूपणं
श्रीवैष्ण(प्रपन्नंतु)वोत्तमंविप्रं हरिपूजापरायणं ॥१६६॥
यदारृश्यतिलोकेस्मिन् साष्टांगंप्रणमेद्द्विजाः।
तद्वंदनात्सदाभूमौ इष्टार्धान्‌लभतॆनरः ॥१६७॥
श्रीवैष्णव भोजने सहास्र ब्राह्मण भोजनफलं
श्रीवैष्णवद्विजंत्वेक्क भुजित्वावैसहस्रकं।
विप्रसंतर्पणफलं कर्ताभूमौलभेद्द्विजा ॥१६८॥
श्रीवैष्णवनिंदायां प्रत्यवायकधनं
श्रीवैष्णवप्रसन्नंतु योनिंद तिधरातले।
वेषभाषादिकंदृष्ट्या सगच्छेन्नरकंधृवं ॥१६९॥
ऊर्ध्वपुंड्र महिमा
ऊर्ध्वपुंड्रस्य मात्रेण वैष्णवं पूजयेदर्भृवि।
तदूर्ध्वपुंड्रंलोकेतु यत्रकुत्रापिदृश्यतेः ॥१७०॥
(साष्टांगतु प्रणम्यात्र)प्रणामंतस्यवैकृत्वा धूतपापोनरोभवेत्।
श्रीवैष्णव सांगत्य फलं श्रीवैष्णव पाद तीर्थविशेषः
श्रीवैष्णवस्यसंगस्या न्महापातक नाशनं ॥१७१॥
तस्यपादांबुपानंच जन्मकाहित्य कारणं।
श्रीवैष्णव भुक्तशेषान्नादिक भक्षण फलं श्रीवैष्णव पूजादिक फलविशेषः
श्रीवैष्णवैर्भुक्तशेष मन्नं(मोक्षफलप्रदं)मोक्षप्रदंस्मृतं ॥१७२॥
यस्यभक्षणमात्रेण विष्णोस्सायुज्युमाप्नुयात्।
श्रीमद्भागवताचार्य पादपूजापरोनरः ॥१७३॥
श्रीवैष्णवपदांभोज ध्यानसंसक्तमानसः।
हरेःप्रीतिमतःकृत्याश्रीवैकुंठमवाप्नुयात् ॥१७४॥
भगवद्दर्शने प्रधमं लक्ष्मी दर्शनं
भगवद्दर्शनेचादौ श्रियादीनांचदर्शनं।
पुरुषाकारभूतंस्याद्देवस्यारुग्रहप्रदं ॥१७५॥
तस्माच्छ्रीद्दर्शनंत्वादौकृत्वादेवस्यदर्शनं।
भगवद्दर्शने पादादिमुखपर्यंत दर्शनं त्याज्यप्रणाम प्रदक्षीण निरूपणं देवालयादिकच्छायालंघनादित्याज्यःषयाः
तधापिपावमारभ्य मुखपर्यंत(दर्शनं)मीक्षणं ॥१७६॥
वैष्णवानांतुविहितं गोप्यमेतन्मुनीश्वराः।
एकहस्तप्रणामंच येकंचैवप्रदक्षणं ॥१७७॥
लंघनंत्वालयच्छाया द्वजदंडस्यशौरिणः।
ध्वजस्थानंतुत्यक्त्वावै हरेर्धाम प्रदक्षणं ॥१७८॥
नत्वेतेशुभदाःप्रोक्ता(वासतदेवस्य मंदिरे)स्सर्वशास्त्रेषुनिश्चयः।
हरिप्रदक्षणे भूप्रदक्षण फलकथनं
प्रदक्षणंहरेर्धान्नुः भूप्रदक्षणमीरितं ॥१७९॥
द्वित्रिवारंयधाशक्ति प्रत्यहंविबुधोत्तमाः।
कार्तीकमासेदीपप्रय्वलन फलकथनं
कार्तिकेमासिश्रीविषोर्गेहे(दीपान्) दीपंज्वलंतिये।
ज्वलन फलकधनं गृहार्चायां विशेषः
तेषांश्रीहरिसायुज्यं लभत्येवनसंशयः ॥१८०॥
गृहेसंस्थाप्यदेवेशं श्रियादिसहित द्विजाः।
प्रत्यहंपूजतेयस्तु यधाविभवविस्तरैः ॥१८१॥
तस्यसर्वाणिपापानि मुत्यंतेनात्रसंशयः।
तस्याभीष्टप्रदंभूया दिहलोकेचभूसुराः ॥१८२॥
अर्चकदंडने दोष निरूपणं
अर्चकंदंड्यतेयस्तु क्रोधलोभादिहेतुभिः।
तस्यपूर्वार्जेतंपुण्यं सर्वंचापिविनश्यति ॥१८३॥
गृहर्चारहित गृहस्य स्मशान साम्यता कधनं सर्व गृहेषु शंख चक्रोर्ध्वपुंद्राद्यलंकार विधिः
यस्मिन्‌गेहेगृहोर्चातु नभवेद्वैष्ण नस्यच।
तद्ग्रुहंतुस्मशानंस्या त्संशयोनास्तिभूतले ॥१८४॥
सर्वदावैष्णवंगेहं शंखचक्रोर्थ्वपुंड्रकैः।
अलंकुर्यान्मुनिश्रेष्ठा श्शास्त्रोक्तविधिनाभुवि ॥१८५॥
वैष्णवेतरान्न भक्षणे प्रत्यवायः
अवैष्णवकृतंत्वन्नं नभगवन्निवेदितं ॥१८६॥
नकदाचभुजेद्विप्रा यस्तुभक्षतिमोहः
तस्यवंशविनाशंच(नरकंच भवे धृवं)रौरवंनरकंभवेत्।
देवालय सेवकानां पंच संक्कारावश्यकता
देवाल(येषु सर्वत्र सर्वसेवक संततिः)यस्यसर्वेपि सेवकास्तुधरातले ॥१८७॥
पंचसंस्कारसंयुक्ता निर्णीतव्या(हिसर्वदा)द्विजोत्तमाः।
पूजाकालेतुदेवस्य दर्शनंयःकरिष्यति ॥१८८॥
पूजाकाले ऊर्ध्वपुंड्रविहीनेन भगवद्दर्शनेशृतेः
ऊर्ध्वपुंड्रविहीनें षुखेनवसुधातले,
तस्यभूयान्महापापं तत्पूजानिष्फलंभवेत् ॥१८९॥
इत्येवंहरिणाप्रोक्तं पुराकमलजन्मने
नाभक्तायनशिष्याय नकदापिप्रकाशयेत् ॥१९०॥
अध्यायांतः
गुह्याद्गुह्यतरंचैत दुष्माकंयतुदीरितं।
संग्रहेणद्विजश्रेष्ठास्तद्विस्तारेणबोधितुं ॥१९१॥
शेषोपिचनशक्तस्या(ससहस्रभण मंडितः)न्निश्चयंनचसंशयं,
अस्यश्रवणमात्रेण धूतपापोनरोभवेत् ॥१९२॥
इति श्रीपांचरात्रागमरहस्यसारे श्रीपरपुरुषसंहितायां
भगवत्तीर्धप्रसादादिक महिमाभि वर्णनंनाम चतुर्धोथ्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP