परमपुरुषसंहिता - तृतीयाथ्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


ऋषि प्रश्न. ऋषयः-
श्लो ॥मौनिचंद्रमहाभाग सदाहरिपरायण
(विष्ण्वालयंतु निर्माय राजाराष्ट्र प्रवृद्धये)किंत्वालयंविनिर्माय देवदेवस्यशार्ञिणः ॥१॥
प्रतिष्टांतेतुतत्कर्ताकस्मैदद्यात्तदालयं
अधीकारिस्तुकोभूया त्तदारभ्यसदाहरेः ॥२॥
नित्यनैमित्तिकाख्यासु पूजासुचसवेषुच
विस्तरेण(द्विजश्रेष्ठ)तुतत्सर्वंब्रूह्यस्माकंकृपानिधे ॥३॥
नारदप्रतिवचनं
श्रीनारदः-
वक्ष्यामितत्सविस्तारं श्रुणुध्वंश्रर्धयान्विताः
ऋषयोभगवच्चास्त्र निष्ठातत्परमानसाः ॥४॥
गोप्यमेतन्महभागा (युष्माकं यद्वदाम्यहं)आद्याहंवदयामियत्
नाभक्तायनशिष्याय नकदापिवदेद्द्विजाः ॥५॥
अर्चकोभगत्सुतः
आराधकस्तुश्रीशौरेः पुत्रयेवनसंशयः
अर्चनादिष्वर्चकाधिक्यता.
तस्मादर्चकयेवस्या दथिपोसर्वकर्मसु ॥६॥
अर्चनादिकलापासु सततंभगवद्ग्रुहॆ
परिचार कादीना मर्चकाज्ञानु सरणं
परिचारकवर्गश्च तधाचास्येपिसेवकाः ॥७॥
अर्चकाज्ञानुसारेण सर्वदाचप्रवर्तयेत्
यजमानकुलोद्भूतो(यद्वान्य कुलसंभवः)यद्वानिर्णीतवंशजः ॥८॥
धर्माधिकारिश्च अर्चकाज्ञानुसारेणैव प्रवर्तव्यं
धर्माधीकारीचैकस्तु वर्ततेयदिसोपिच
अर्चकाज्ञानुसारेण सेवकान्‌सर्वदापिच ॥९॥
समाहूयचतेषांतु योग्यकार्याणिनिर्दिशेत्
तधैवचार्चनायोग्य गंधपुष्पफलादिकं ॥१०॥
देवालय परिचारक सेवकादिदंडने धर्माधिकार्यधिकारः
सकालेनैवसंपाद्य अर्चकायप्रदापयेत्
सेवकेषुयदाकेचि द्धोषाणिपरिदृश्यते ॥११॥
तदातान्‌दंडयेद्विज्ञो अधीकारिस्तुसर्वदा
परंत्वर्चकवर्गेषु यदादोषादिकंभवेत् ॥१२॥
अर्चकदोष विमर्शनादिषुभगवधधीकारः
दंडनेनाधिकारोस्ति यस्यकस्यापिचद्विजाः
हरिरेवस्वयंतेषांददातिनरकंतदा ॥१३॥
अधवापुत्रभावेन तान्‌क्षमिष्यतिवैहरिः
तस्मा(त्स्वयंहरि)त्तेषांहरिस्साक्षात्‌(अधीकारिर्भवेधृवं)अथीकारीतिमन्यते ॥१४॥
अर्चकस्यनरकस्राप्तिकधनं
यस्मात्‌ पूजकदोषाणां(नविमर्शनमुच्यते)विमर्शनमनुच्यते
तस्मादेवसदालोके अर्चकोनरकंव्रजेत् ॥१५॥
अर्चनादिस्वल्पदोषा नर्चकःकुरुतेयदि
तदर्हशिक्षामाप्नोति इहयेवनसंशयः ॥१६॥
अर्चकत्वफल निरूपणं
तस्मात्सदार्चकोभक्त्या महताचभयेवच
प्रभुसेवकभावेन वर्तयेद्भगवद्ग्रुहे ॥१७॥
यःकरोत्वर्चनंविष्णो द्देवस्यमधुविद्विषः
भक्त्याचश्रर्धयाचैव केवलंपरचिंतया ॥१८॥
स्वार्धंविसृज्यसर्वेषां लोकानांहितकाम्यया
सयेवधन्योमान्यश्चभुक्तिंमुक्तिमवाप्नुयात् ॥१९॥
ऋषयः-
अर्चकाधिक्यहेतुश्रवणेऋषिप्रश्न
द्विजोत्तममुनिश्रेष्ठ(सर्वधर्म विशारद)सर्वशास्त्रार्धकोविद
विष्ण्वालयेत्वर्चकानां प्राधान्यंकिंप्रकाशय ॥२०॥
कुतस्तेभगवद्गेहे भक्तैरर्पितदक्षिणान्
वस्त्रभूषादिकान्सर्वान् स्वीकरिष्यंति(नित्यशः)भूतले ॥२१॥
सर्वाधिकारिणश्चैते किमर्धमभवन्मुने
लोकःकिमर्धंतान्‌भक्तिविश्वासैः(पूजयेत्सदा)पूजतेसदा ॥२२॥
एतदन्यत्सविस्तारं यदस्माभिर्नचोदितं
वदस्वनोमहाभाग (विद्यतेयदितेदया)यदितेविद्यतेकृपा ॥२३॥
श्रीनारदाः-
नारदप्रतिवचनं
साधुपृष्ठंमुनिवराः यदुष्मत्कांक्षितंप्रियं
संग्रहेणाद्य(वक्षेहां)वक्ष्यामि सावधानेनश्रूयतां ॥२४॥
अर्चकाधिक्यहेतु निरूपणं
विष्ण्वादि(सर्वे)सर्वदेवाश्च मंत्राधी(नाइतीरिताः)वाःप्रतीयते
तन्मंत्रसाधनैरेव देवमंदिरविग्रहन् ॥२५॥
प्रतिष्ठाप्यतुदेवेशं स्धिरीकुर्वंति(देशिकाः)पूजकाः
यस्याधीनाःप्रवर्तंते सर्वेमंत्राश्चनित्यशः ॥२६॥
आगमज्ञस्सवैपूज्यो अर्चको(भगवत्सुतः)भगवत्समः
एकेनार्चकहीनेन सर्वेप्यालयसेवकाः ॥२७॥
अमूल्यथनधान्यादि विभवाश्चवृधास्मृताः
तस्मादेवप्रतिष्ठांते कर्तातुभगवद्ग्रुहं ॥२८॥
सर्वैःपरिकरैर्युक्त मर्चकायप्रदापयेत्
तदादिमंतिरेविष्णोः पूजकोधिपतिस्मृतः ॥२९॥
सर्वस्वतंत्रोसोभूया दर्चको(हरिसन्निधा)भगवद्ग्रुहे
तमाज्ञापयितुंकोपि(शास्त्रोक्तार्चाविधानके)विध्युक्तास्वर्चवादिषु ॥३०॥
नशक्तोयितिविज्ञेयः कर्तावाप्यन्ययेववा
यधादेवालयेसर्वे सेवकाश्रर्धयान्विताः ॥३१॥
धर्माणिकारिणश्चाज्ञां (पालयंतिशिरोथृतां)पालयेच्छिरसाधृतां
तधैवचाधिका(रिश्च)रीच अर्चकाज्ञाँतुपालयन्‌ ॥३२॥
पूजोपकरण्‌न्सर्वेसकालेचार्चयेत्सदा
शास्त्रोक्ताराधना प्रधानता
आलयेषुचसर्वत्रशास्त्रोक्ताराधनंसदा ॥३३॥
ऎकंमुख्यतमंप्रोक्तं अन्येचोत्सववैभवाः
सर्वेपिचांगभूतावै जनाकर्णणहेतवे ॥३४॥
तस्मादेवहरेर्गेहे यजमानस्यशक्तितः
सर्वैश्च(विभवै)वैभवैर्दिव्यै(र्भोगरागादिभिर्युतं)रुत्सवैस्सयुतंतुवा ॥३५॥
(यद्वाचदैर्विहीनंवा)यद्वावैभवहीनंवा शास्त्रोक्ताराधनंपरं
प्रकल्पनीयमेकंतु राजाराष्ट्राभिवृद्धये ॥३६॥
यधालोकेशरीरस्य प्राणुमुख्यमितीर्यते
तधैवचालयस्यापि शास्त्रोक्ताराथंनंभवेत् ॥३७॥
प्राणॊपेतशरीरस्य शोभार्थंभूषणान्यथा
तधैवभगवद्गेहे शास्त्रोक्तार्चासमन्विते ॥३८॥
(सर्वेप्योत्सवभोगाद्याः)सर्वेचोत्सवभोगानि शोभार्धमितिमन्यतां
प्राणहीनशरीरस्य यधाभूषानशोभते ॥३९॥
तधैवचालयेत्वर्चा हीने(चोत्सववैभवाः)त्वुत्सववैभवाः
नशोभंतिद्विजश्रेष्ठास्सत्यमेतद्विनिश्चयं ॥४०॥
आलयस्यतुयन्मुख्यं तत्पूजात्वर्चकैर्भवेत्
अर्चकतोषणविधिः
तस्माद्देतो(ह्यर्चकान्‌तु)श्चार्चकान्तुसर्वताप्रियभाषणैः ॥४१॥
गोभूहिरण्यवस्त्राद्यैत्तोषयेद्भगवत्प्रियं
भगवदर्पितवस्तु स्वीकरणविधिः
भगवत्समर्पितंसर्वमर्चकोभगवित्सुतः ॥४२॥
स्वीकृत्यसर्वदालोक क्षेमार्थं(श्रीहरिं स्वयं)जनकंहरिं
(संप्रार्ध्यचहरेस्धाने)संप्रार्थ्यभगवत्ध्साने स्वयमाशीःप्रदास्यति ॥४३॥
अर्चकस्यतु संतृप्तिर्भगवत्तृप्तिरीरितं
अर्चकाशीर्वादे विशेषः
तस्यप्रसादं श्रीविष्णोः प्रसादंभवतिधृवं ॥४४॥
वरप्रभावातस्यैव सर्वलोकसुखंभवेत्
धर्मसूक्ष्म मिदंप्रोक्तंलोकेस्मिन् मुनिसत्तमाः ॥४५॥
अर्चकनिंदायां दोषप्राप्तिः
योनिंदतिहरेस्सूनु मर्चकंकुपितोनरः
भगवन्निंदको(सोस्या)भूयात्तस्यवंशक्षयंधृवं ॥४६॥
अर्चकःकुपितोयस्मिन्‌ तस्मिन्‌ शौरिश्चकुप्यति
पर्वकालशुभ कार्यादिषु अर्चक सन्मानविधिः
तस्मात्सदाच भगवत्प्रीत्यर्धं सर्वतोनराः ॥४७॥
हरेरर्पण भावेन अर्चकान् सर्ववस्तुभिः
विवाहादिषुकार्येषु सर्वपर्वसुतोषयेत् ॥४८॥
अर्चक शापफल निरूपणं
अर्चकःकुपितोभूत्वा यदिशप्त्यतितक्षणात्
तद्द्राष्ट्रंचाथि पोराजा जनास्सर्वेनशंतिच ॥४९॥
अर्चकस्वीकृतौ विशेषः
भगवत्समर्पितंयत्तु धनवस्त्रफलादिकं
अर्चकस्वीकृतिर्भूया त्स्वयंहरिपरिग्रहः ॥५०॥
अर्चकोपाथिलोपेन पूजलोप निरूपणं.
यत्रार्चकस्यतज्जीवनोपाधौ लोपमुच्यते
तत्रपूजावृथाज्ञेया यत्तृतो स्वस्तचेतसा ॥५१॥
पूजालोप दोषकधनं अर्चकोपोधिभंग कारिणां नरकप्राप्तिः
पूजालोपोभवेद्यत्रतत्रसर्वं वृधा(भवेत्)स्मृतं
तद्द्राष्ट्रेनाभिवृद्धिस्स्याद्देवोपिकुपितोभवेत् ॥५२॥
तस्माद्योक्रोधरोभादि हेतुभिःपूयरस्यच।
उपोधौकुरुते(लोपं)भिन्नं तस्यवंशक्षयं भवेत् ॥५३॥
पितृणांतस्यदैत्यत्वं जन्मपैशाचिकंस्मृतं
ब्रह्महोवासुरापीवा स्वर्णस्वेयीचस्त्रीहतः ॥५४॥
अस्यास्समं घोरपापं नप्राप्नोत्येवभूतले
धर्मसूक्ष्ममिदं मख्यंज्ञेयं सर्वैश्चमानवै ॥५५॥
अर्चक पूजाफल निरूपणं
लोककळ्याणहेत्वर्ध मेवदेवाल(यार्चकः)येर्चकः
तस्मादेवमुनिश्रेष्ठा स्स्वर्वदाचार्चकंभुवि ॥५६॥
प्रसन्नंपरितृप्तंच कृत्वालोकः प्रवर्थते
अर्चकस्य अग्रपूजार्हत्वं
यस्मात्सदार्चकोपूज्योहरिभावेन केवलं ॥५७॥
तस्मात्सयेवचार्हस्यात्सदसिप्रधमार्चने
निर्णीतार्चकवंशजायेवसदा
यधातु भगवद्गेहे मूर्तिंसंस्धाप्ययत्नतः ॥५८॥
समुद्धर्तुं कदाकोपि(नशक्तयितिनिश्चितं)नशक्तोभवतिधृवं
वस्तव्यं तेषांपरिहरणे प्रत्यवायः
तधैवच प्कतिष्ठांते यजमा(नविनिश्चितं)नेन निश्चितं ॥५९॥
अर्चकंवापितद्वंध संभवान्वाकदापिवा
यजमान स्स्वयंचैव परिहर्तुंनशक्त्यते ॥६०॥
यःक्रोधाद्यैस्तधाकुर्यात्तस्यवंशक्षयंभवेत्।
देशारिष्ठं तदाभूया त्प्रजापीडाच(निश्चिता)निश्चयं ॥६१॥
नूतनार्चक निर्माणे पुनःप्रतिष्ठा
पुनःप्रतिष्ठाकर्तव्या निर्मितेतुरवार्चके
तस्मात्पतिष्ठादिवस मारभ्या(चंद्रतारकं)भूतसंप्लवं ॥६२॥
एकमर्चकवंशंतु कुर्यादर्चांहरेर्गृहे
देवालयावरणेह्यर्चक गृहनिर्माण विधिः.
अर्चकस्तुहरेर्धाम्नि अहोरात्रंचनित्यशः ॥६३॥
शास्त्रोक्तेनैव्ार्गेण करिष्यत्युत्सवादिकं
तस्मादैव(नुसावीप्ये)हिसामीप्ये भगवन्मंदिरस्यतु ॥६४॥
द्वितीयावकणेवापि तृतीयावरणेपिवा
गृहमेकंतुनिक्माय सर्वलक्षणसंयुतं ॥६५॥
सर्पशोभासमायुक्त मर्चकायप्रदापयेत्
देवालयनिवासे अर्चकस्यानुज्ञा
यस्मात्तुपूजरस्साक्षाद्भगवत्पुत्रउत्यते ॥६६॥
तस्मात्तस्यकुटुंबंच दिव्यमित्येवभावयेत्
तस्मादेवनदोषस्या दालयावरणेष्वपि ॥६७॥
अर्चकगृहनिर्माण करणेमुनिपुंगवाः
तदन्येषांनिवासे प्रत्यवायः
यजमानोपिवातेन निश्चितोधर्मपालाः ॥६८॥
तदन्यःकोपिवाशौरे रालयावरणेषुयः
(वसतेलोभतोयत्र)निवासंकुरुतेयस्मिन् देशेतद्देशनाशनं ॥६९॥
ग्रामारिष्टंचतस्यैव वंशनाशंभवे धृवं
हरिश्चकुपितोभूया न्निश्चयंमुनिसत्तमाः ॥७०॥
भगवत्समर्पित पुष्प फलादिषु अर्चकस्य अर्धभाग स्वीकारार्हता
अर्चक स्वीकृतिविना भगवत्प्रसादंन भवेत्
भगवत्समर्पितंपुष्पं फलं(चाप्यर्चकस्स्वयं)वापूजकस्स्वयं
(अर्धभागंतु स्वीकृत्य)अर्धभागंतुगृह्णीया द्भक्तेभ्यश्चाव्यदुच्यते ॥७१॥
विनार्चकस्वीकृतिना तत्प्रसादंनउच्यते
यस्तुभक्षतितन्मोहात्तस्यपापंभवेधृवं ॥७२॥
अर्चकदत्ततीर्ध महिमा
अर्चकेनतुयद्दत्तं तत्तीर्धंमहिमान्वितं
यत्पीत्वाचायुरारोग्य मोक्षादीन्‌लभतेनरः ॥७३॥
महोत्सवादिषुदेव सन्निधौ अर्चकनिवासावश्यकतावा हनादिष्वर्चक निवासार्हता
महोत्सवादिसमये देवदेवस्यशार्ण्ङ्गिः
सन्निधावेवसर्वेपि पूजकानिदसेत्सदा।. ॥७४॥
समीपेदेवदेवस्य वाहनादिषुचार्चकः
छत्रचामरकैंकर्य परतस्तुवसेत्सतं ॥७५॥
अत्मानं समलंकृत्य(माल्यभूषांबरादिभिः)वस्त्रभूषादिकैश्शुभैः
अर्चक सहितभगवद्वहनेविशेष फलप्राप्तिः
अर्चकद्वितयंशौरिं यानारूढं वहंतिये ॥७६॥
तेपातकैर्विनिर्मुक्ता(स्साक्षाद्वैकुंठमाप्नुयात्)यांति वैकुंठमुत्तमं
भगवद्द्वहनेचैक मुहूर्तमपिभूतले ॥७७॥
भूप्रदक्षिणतः पुण्यः लभतेनात्रसंशयः
श्रीहरेर्वाहन स्पर्शा चापि(मुक्तिफलप्रदा)मुक्तिप्रदाभवेत् ॥७८॥
अर्चकमहिमा निरूपणं
किंतुदेवोकाग्रहितो देवोदाक्सहितोर्चकः
प्रत्यक्षदेवता(भूयात्)लोके सर्वसौख्यप्रदायकः ॥७९॥
(अर्चकस्य तपश्शक्तिः)अर्चकस्सात्मशक्तिर्वै भगवन्महिमास्मृता
विनार्चकेनदेवोपि नास्तिनास्तिच मंदिरं ॥८०॥
पूजानास्त्युत्सवंनास्ति(सर्वंनास्तिधरातले)महिमानास्तिनिश्चयं
तस्मादर्चकयेव श्रीयनार्दनयितीर्यते ॥८१॥
भगवन्निवेदितान्नं अर्चकायदातव्यं अर्चकेनकृतपरान्न भक्षणे प्रत्यवायः
नित्यंनिवेदितान्नंतु अर्चकेभ्यःप्रदापयेत्
भगवन्निवेदितान्नंहि भक्षयेदर्चकस्सदा ॥८२॥
यदिमोहात्परान्नंतु भुक्त्वाचजगधीश्वरं
यःपूजकोर्च(येत्तस्य)तेतस्य पूजास्यान्निष्फलाभुवि ॥८३॥
भगवन्निवेदतान्नवधिकंचेत् अर्चक भाग निर्णयं
अर्चकेभ्योनदत्त मन्नंत्याज्यमेव तद्भक्षणेदोष प्राप्तिः
तस्मात्सर्व प्रयत्नेन नैवेद्यं सकलंतुवा
अधिकंचेदर्धभागं चातुर्भागमधापिवा ॥८४॥
प्रधमंत्वर्चकेभ्यस्तु दत्वान्येभ्यःप्रदीयतां
यन्नैवेद्यंत्वर्चकेभ्यो नदत्तंफगवद्ग्रुहे ॥८५॥
तत्त्याज्यं सर्वदाभ क्तैर्विषभावेन केवलं
यस्तुभक्षतितल्लोभा(त्तस्यदोषो भवेद्भुवि)त्पूर्वपुण्यं विनस्यति ॥८६॥
गर्भालय प्रवेश अग्रासनोवेशादि ष्वर्चकस्यार्हता
अर्चकेन सर्वदापि मंत्रानुष्टानादि कंकर्तव्यं
गर्भालयप्रवेशेच आसतेचोपवेशने
अर्चकस्त्वर्हयित्यतक्तो सर्वशास्त्रे षुभूसुराः ॥८७॥
दंडयुक्तवरंदृष्ट्वा यधाभीतोहिराड्भुवि
मंत्रहीनार्चकं दृष्ट्वा तथाभीतो(भवेद्धरिः)जनार्धनः ॥८८॥
तस्मात्तुपूजकश्चापि मंत्रानुष्ठानतत्परः
सर्वदाच(भवेल्लोके)भवेद्भूमौ अन्यधानरकंव्रजेत् ॥८९॥
देवद्रव्यस्वीकरणे अर्चकार्हता तदन्येषांप्रत्यवायः यजमान स्वीकृतावपिदोष प्राप्तिःदेवालयेषु सद्भक्तैर्दत्तंसर्वधवादिकं
स्वीकर्तुंचार्च कास्त्वर्हा यिति(शास्त्रविनिश्चयः)शास्त्रेषुनिश्चयः ॥९०॥
तस्मात्तस्मिन् धनेकोपि यत्किंचिद्धरतेभुवि
तस्यवंश क्षयं(भूया-त्श्रीघ्रमेव बुधोत्तमाः)शीघ्रं निश्चितं मुनिसत्तमाः ॥९१॥
यजमानोपितद्द्रव्यं स्वीकृत्ययदिलोभतः
उत्सवादिककार्याणि कुर्वत्सपिवृधास्मृताः ॥९२॥
यजमास्यशक्तिलोपेभिक्षाटनवशेन दैवोत्सवकर्तव्य निरूपणं
यजमास्त्व शक्तश्चेद्धरिमंदिर पोषणे
भिक्षाटनवशेनैव सर्वकार्याणिचाचरेत् ॥९३॥
इतिसम्यक्सरूख्यातं अर्चकाधिक्यकारणं
ममपित्रेपुराप्रोक्तं(इदंतु हरिणास्वयं)स्वयंभगवताद्विजाः ॥९४॥
संग्रहेणाद्यतत्सर्वं युष्माकंचसुबोधितं
नाभक्तायन शीष्याय नकदापिवदेद्बुधाः ॥९५॥
इति श्रीपांचरात्र रहस्यसारे श्रीपरमपुरुष संहितायां
अर्चकाधिक्यता निरूपणं नाम तृतीयोध्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP