संस्कृत सूची|संस्कृत साहित्य|उपनिषद|योगशिक्षोपनिषद्| षष्ठोऽध्यायः योगशिक्षोपनिषद् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः योगशिक्षोपनिषद् - षष्ठोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद षष्ठोऽध्यायः Translation - भाषांतर उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर ।येन विज्ञातमात्रेण मुक्तो भवति संसृतेः ॥१॥उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् ।हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्यगुपासय ॥२॥सुषुम्नायै कुण्डलीन्यै सुधायै चन्द्रमण्डलात् ।मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥३॥शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।तयोर्ध्वमायन्नमृतत्वमेतिविश्वङ्ङ्न्या उत्क्रमणे भवन्ति ॥४॥एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता ।सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥५॥इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु ।तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् ॥६॥प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः ।भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् ॥७॥गुदस्य पृष्ठभागेऽस्मिन्वीणादन्डः स देहभृत् ।दीर्घास्तिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते ॥८॥तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरभिः ।इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी ॥९॥सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् ।तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः ॥१०॥भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिलाः ।द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ॥११॥स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ।बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः ॥१२॥सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ।नानानाडीप्रसवगं सर्वभूतान्तरात्मनि ॥१३॥ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् ।द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः ॥१४॥सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मताः ।अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् ॥१५॥वायुना सह जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात् ।ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्यगम् ॥१६॥कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् ।द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे ॥१७॥सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निरर्थकाः ।हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते ॥१८॥अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् ।उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् ।यदि भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् ॥१९॥गमागमस्थं गमनादिशून्यंचिद्रूपदीपं तिमिरान्धनाशम् ।पश्यामि तं सर्वजनान्तरस्थंनमामि हंसं परमात्मरूपम् ॥२०॥अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः ।तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥२१॥केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती ।आधाराज्जायते विश्वं विश्वं तत्रैव लीयते ॥२२॥तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् ।आधारशक्तिनिद्रायां विश्वं भवति निद्रया ॥२३॥तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते ।आधारं यो विजानाति तमसः परमश्नुते ॥२४॥तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते ॥२५॥आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा ।तदा मुक्तिर्न सन्देहो यदि तुष्टः स्वयं गुरुः ॥२६॥आधारचक्रमहसा पुण्यपापे निकृन्तयेत् ।आधारवातरोधेन लीयते गगनान्तरे ॥२७॥आधारवातरोधेन शरीरं कंपते यदा ।आधारवातरोधेन योगी नृत्यति सर्वदा ॥२८॥आधारवातरोधेन विश्वं तत्रैव दृश्यते ।सृष्टिमाधारमाधारमाधारे सर्वदेवताः ।आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत् ॥२९॥आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् ।तत्र स्नात्वा च पीत्वा च नरः पापात्प्रमुच्यते ॥३०॥आहारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते ।तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् ॥३१॥आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि ।तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् ॥३२॥आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया ।षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम् ॥३३॥वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया ।ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम् ॥३४॥सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वं प्रधावति ।सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् ॥३५॥सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम् ।सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ ॥३६॥तदा समरसं भावं यो जानाति स योगवित् ।सुषुम्नायां यदा यस्य म्रियते मनसो रयः ॥३७॥सुषुम्नायां यदा योगी क्षणैकमपि तिष्टति ।सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति ॥३८॥सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत् ।सुषुम्नायां यदा योगी लीयते क्षीरनीरवत् ॥३९॥भिद्यते च तदा ग्रन्थिश्चिद्यन्ते सर्वसंशयाः ।क्षीयन्ते परमाकाशे ते यान्ति परमां गतिम् ॥४०॥गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् ।मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् ॥४१॥श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च ।केदारोदकपानेन मध्यनाडीप्रदर्शनात् ॥४२॥अश्वमेधसहस्राणि वाजपेयशतानि च ।सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥४३॥सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः ।स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् ॥४४॥सुषुम्नैव परं तीर्थं सुषुम्नैव परं जपः ।सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः ॥४५॥अनेकयज्ञदानानि व्रतानि नियमास्तथा ।सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् ॥४६॥ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा ।चिच्च्हक्तिः परमादेवी मध्यमे सुप्रतिष्ठिता ॥४७॥मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा ।नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे ॥४८॥भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके ।बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते ॥४९॥हृदये स्थूलरूपेण मध्यमेन तु मध्यगे ॥५०॥प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति ।वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥५१॥आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ।प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् ॥५२॥अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ।हकारेण बहिर्याति सकारेण विशेत्पुनः ॥५३॥हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ।तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् ॥५४॥कन्दोर्ध्वे कुण्डलीशक्तिर्मुक्तिरूपा हि योगिनाम् ।बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥५५॥भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः ।यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥५६॥त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः ।त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥५७॥चित्ते चलति संसारो निश्चलं मोक्ष उच्यते ।तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे ॥५८॥चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥५९॥मनोहं गगनाकारं मनोहं सर्वतोमुखम् ।मनोहं सर्वमात्मा च न मनः केवलः परः ॥६०॥मनः कर्माणि जायन्ते मनो लिप्यति पातकैः ।मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम् ॥६१॥मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् ।ततः परं परब्रह्म दृश्यते च सुदुर्लभम् ॥६२॥मनसा मन आलोक्य मुक्तो भवति योगवित् ।मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत् ॥६३॥मनसा मन आलोक्य योगनिष्ठः सदा भवेत् ।मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश ॥६४॥यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् ॥६५॥बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम् ।शान्तं च तदतीतं च परंब्रह्म तदुच्यते ॥६६॥हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा ।तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् ॥६७॥रोध्यते बुध्यते शोके मुह्यते न च संपदा ।कंपते शत्रुकार्येषु कामेन रमते हसन् ॥६८॥स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे ।यत्र देशे वसेद्वायुश्चित्तं तद्वसति ध्रुवम् ॥६९॥मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः ।बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः ॥७०॥सदा नादानुसन्धानात्संक्षीणा वासना भवेत् ।निरञ्जने विलीयेत मरुन्मनसि पद्मज ॥७१॥यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् ।नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् ॥७२॥मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् ।मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ॥७३॥षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् ।प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत् ॥७४॥वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् ।समाधिमेकेन समममृतं यान्ति योगिनः ॥७५॥यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ।विना चाभ्यासयोगेन ज्ञानदीपस्तथा नहि ॥७६॥घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते ।भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते ॥७७॥स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् ।गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते ॥७८॥कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् ।अभ्यासवासनाशक्त्या तरन्ति भवसागरम् ॥७९॥इत्युपनिषत् । इति योगशिखोपनिषदि षष्ठोऽध्यायः ॥६॥ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।तेजस्विनवधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ॐ तत्सत् ॥इति योगशिखोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP