संस्कृत सूची|संस्कृत साहित्य|उपनिषद|योगशिक्षोपनिषद्| द्वितीयोऽध्यायः योगशिक्षोपनिषद् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः योगशिक्षोपनिषद् - द्वितीयोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद द्वितीयोऽध्यायः Translation - भाषांतर पुनर्योगस्य माहात्म्यं श्रोतुमिच्च्हामि शङ्कर ।यस्य विज्ञानमात्रेण खेचरीसमतां व्रजेत् ॥१॥शृणु ब्रह्मन्प्रवक्ष्यामि गोपनीयं प्रयत्नतः ।द्वादशाब्दं तु शुश्रूषां यः कुर्यादप्रमादतः ॥२॥तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे ।पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्च्हति ॥३॥तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् ॥४॥शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम् ।तस्य मन्त्रस्य वै ब्रह्मञ्च्ह्रोता वक्ता च दुर्लभः ॥५॥एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् ।तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः ॥६॥अणिमादिकमैश्वर्यमचिरादेव जायते ।मननात्प्राणनाच्चैव मद्रूपस्यावबोधनात् ॥७॥मन्त्रमित्युच्यते ब्रह्मन्मदधिष्ठानतोऽपि वा ।मूलत्वात्सर्वमन्त्राणां मूलाधारात्समुद्भवात् ॥८॥मूलस्वरूपलिङ्गत्वान्मूलमन्त्र इति स्मृतः ।सूक्ष्मत्वात्कारणात्वाच्च लयनाद्गमनादपि ॥९॥लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते ।संनिधानात्समस्तेषु जन्तुष्वपि च सन्ततम् ॥१०॥सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते ।महामाया महालक्ष्मीर्महादेवी सरस्वती ॥११॥आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते ।सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते ॥१२॥बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम् ।प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च ॥१३॥गुरूपदेशमार्गेण सहसैव प्रकाशते ।स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः ॥१४॥पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते ।हिरण्यगर्भं सूक्ष्मं तु नादं बीजत्रयात्मकम् ॥१५॥परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् ।अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम् ॥१६॥शुद्धं सूक्ष्मं निराकारं निर्विकारं निरञ्जनम् ।अनन्तमपरिच्च्हेद्यमनूपममनामयम् ॥१७॥आत्ममन्त्रसदाभ्यासात्परतत्त्वं प्रकाशते ।तदभिव्यक्तचिह्नानि सिद्धिद्वाराणि मे शृणु ॥१८॥दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः ।दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः ॥१९॥अणिमादिकमैश्वर्यमचिरात्तस्य जायते ।नास्ति नादात्परो मन्त्रो न देवः स्वात्मनः परः ॥२०॥नानुसन्धेः परा पूजा न हि तृप्तेः परं मुखम् ।गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्च्हता ।मद्भक्त एतद्विज्ञाय कृत कृत्यः सुखी भवेत् ॥२१॥यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥२२॥ इति ॥इति द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP