संस्कृत सूची|संस्कृत साहित्य|उपनिषद|योगशिक्षोपनिषद्| तृतीयोऽध्यायः योगशिक्षोपनिषद् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः योगशिक्षोपनिषद् - तृतीयोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद तृतीयोऽध्यायः Translation - भाषांतर यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम् ।येन विज्ञातमात्रेण जन्मबन्धात्प्रमुच्यते ॥१॥अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते ।मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी ॥२॥तस्यामुत्पद्यते नादः सूक्ष्मबीजादिवाङ्कुरः ।तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः ॥३॥हृदये व्यज्यते घोषो गर्जत्पर्जन्यसंनिभः ।तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते ॥४॥प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः ।शाखापल्लवरूपेण ताल्वादिस्थानघट्टनात् ॥५॥अकारादिक्षकारान्तान्यक्षराणि समीरयेत् ।अक्षरेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः ॥६॥सर्वे वाक्यात्मका मन्त्रा वेदशास्त्राणि कृत्स्नशः ।पुराणानि च काव्यानि भाषाश्च विविधा अपि ॥७॥सप्तस्वराश्च गाथाश्च सर्वे नादसमुद्भवाः ।एषा सरस्वती देवी सर्वभूतगुहाश्रया ॥८॥वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः ।तद्विवर्तपदैर्वाक्यैरित्येवं वर्तते सदा ॥९॥य इमां वैखरी शक्तिं योगी स्वात्मनि पश्यति ।स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः ॥१०॥वेदशास्त्रपुराणानां स्वयं कर्ता भविष्यति ।यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः ॥११॥इन्द्रियाणि च सर्वाणि लयं गच्च्हन्ति सुव्रत ।वायवो यत्र लीयन्ते मनो यत्र विलीयते ॥१२॥यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।यस्मिंस्थितो न दुःखेन गुरुणापि विचाल्यते ॥१३॥यत्रोपरमते चित्तं निरुद्धं योगसेवया ।यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥१४॥सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।एतत्क्षराक्षरातीतमनक्षरमितीर्यते ॥१५॥क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते ।अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनम् ॥१६॥अलक्षणमलक्षं तदप्रतर्क्यमनूपमम् ।अपारपारमच्च्हेद्यमचिन्त्यमतिनिर्मलम् ॥१७॥आधारं सर्वभूतानामनाधारमनामयम् ।अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् ॥१८॥अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम् ।अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनामकम् ॥१९॥सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् ।सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेतसाम् ॥२०॥निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् ।निर्लेपकं निरापायं कूटस्थमचलं ध्रुवम् ॥२१॥ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितम् ।भावाभावविनिर्मुक्तं भावनामात्रगोचरम् ॥२२॥भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा ।भावनामात्रमेवात्र कारणं पद्मसंभव ॥२३॥यथा देहान्तरप्राप्तेः कारणं भावना नृणाम् ।विषयं ध्यायतः पुंसो विषये रमते मनः ॥२४॥मामनुस्मरतश्चित्तं मय्येवात्र विलीयते ।सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता ।अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत् ॥२५॥ इति॥इति तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP