योगशिक्षोपनिषद् - पञ्चमोऽध्यायः

उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.


पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् ।
समाहितमनाअ भूत्वा शृणु ब्रह्मन्यथाक्रमम् ॥१॥
दशद्वारपुरं देहं दशनाडीमहापथम् ।
दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्च्हदम् ॥२॥
षडाधारापवरकं षडन्वयमहावनम् ।
चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् ॥३॥
बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् ।
देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् ॥४॥
गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ।
शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते ॥५॥
यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता ।
यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते ॥६॥
यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते ।
यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥७॥
तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् ।
स्वाधिष्ठानह्वयं चक्रं लिङ्गमूले षडस्रकम् ॥८॥
नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् ।
द्वादशारं महाचक्रं हृदये चाप्यनाहतम् ॥९॥
तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव ।
कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम् ॥१०॥
पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख ।
आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् ॥११॥
उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् ।
स्थानान्येतानि देहेऽस्मिञ्च्हक्तिरूपं प्रकाशते ॥१२॥
चतुरस्रधरण्यादौ ब्रह्मा तत्राधिदेवता ।
अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता ॥१३॥
त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता ।
वायोर्बिंबं तु षट्कोणं संकर्षोऽत्राधिदेवता ॥१४॥
आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता ।
नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः ॥१५॥
शांभवस्थानमेतत्ते वर्णितं पद्मसंभव ।
अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् ॥१६॥
मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला ।
मूलार्धच्च्हिन्नवंशाभा ब्रह्मनाडीति सा स्मृता ॥१७॥
इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते ।
विलंबिन्यामनुस्यूते नासिकान्तमुपागते ॥१८॥
इडायां हेमरूपेण वायुर्वामेन गच्च्हति ।
पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः ॥१९॥
विलंबिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता ।
तत्र नाड्यः समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः ॥२०॥
तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् ।
गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते ॥२१॥
पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते ।
शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता ॥२२॥
विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् ।
सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पति ॥२३॥
राकाह्वया तु या नाडी पीत्वा च सलिलं क्षणात् ।
क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च ॥२४॥
कण्ठकूपोद्भवा नाडी शङ्खिनाख्या त्वधोमुखी ।
अन्नसारं समादाय मूर्ध्नि संचिनुते सदा ॥२५॥
नाभेरधोगतास्तिस्रो जाडयः स्युरधोमुखः ।
मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी ॥२६॥
चित्राख्या सीविनि नाडी शुक्लमोचनकारणी ।
नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु ॥२७॥
स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः ।
स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् ॥२८॥
सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः ।
पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः ॥२९॥
समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते ।
वडवाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते ॥३०॥
काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते ।
काष्ठपाषणजो वह्निः पार्थिवो ग्रहणीगतः॥ ३१॥
अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः ।
नभस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः ॥३२॥
विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः ।
तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः ॥३३॥
भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः ।
महाविष्णोश्च देवस्य तत्सूक्ष्मं रूपमुच्यते ॥३४॥
एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया ।
तेन भुक्तं च पीतं च हुतमेव न संशयः ॥३५॥
सुखसंसेवितं स्वप्नं सुजीर्णमितभोजनम।ज् ।
शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः ॥३६॥
प्राणस्य शोधयेन्मार्गं रेचपूरककुम्भकैः ।
गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत् ॥३७॥
नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत् ।
उड्डीय याति तेनैव शक्तितोड्यानपीठकम् ॥३८॥
कण्ठं सङ्कोचयेत्किंचिद्बन्धो जालन्धरि ह्ययम् ।
बन्धयेत्खेचरि मुद्रां दृढचित्तः समाहितः ॥३९॥
कपालविवरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥४०॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥४१॥
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ।
न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥४२॥
ततः पूर्वापरे व्योम्नि द्वादशान्तेऽच्युतात्मके ।
उड्ड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने ॥४३॥
ततः पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् ।
नारायणमनुध्यायेत्स्रवतममृतं सदा ॥४४॥
भिद्यते हृदयग्रन्थिश्च्हिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिद्नृष्टे परावरे ॥४५॥
अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर ।
जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् ॥४६॥
नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम् ।
बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् ॥४७॥
कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् ।
परकायमनोयोगः परकायप्रवेशकृत् ॥४८॥
अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये ।
पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् ॥४९॥
सलिले धारयेच्चित्तं नाम्भसा परिभूयते ।
अग्नौ सन्धारयेच्चित्तमग्निना दह्यते न सः ॥५०॥
वायौ मनोलयं कुर्यादाकाशगमनं भवेत् ।
आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् ॥५१॥
विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात् ।
चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो भवेत् ॥५२॥
इन्द्ररूपिणमात्मानं भावयन्मर्त्यभोगवान् ।
विष्णुरूपे महायोगी पालयेदखिलं जगत् ॥५३॥
रुद्ररूपे महायोगी संहरत्येव तेजसा ।
नारायणे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात् ॥५४॥
यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः ।
तथा तत्तदवाप्नोति भाव एवात्र कारणम् ॥५५॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः ।
न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते ॥५६॥
दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् ।
पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् ॥५७॥
यथा गुरुस्तथैवेशो यथैवेशोस्तथा गुरुः ।
पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः ॥५८॥
नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् ।
अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः ॥५९॥
योगशिखां महागुह्यं यो जानाति महामतिः ।
न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते ॥६०॥
न पुण्यपापे नास्वस्थो न दुःखं न पराजयः ।
न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले ॥६१॥
सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः ।
तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः ॥६२॥
इत्युपनिषत्
इति पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : March 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP