द्वितीयस्थानम् - नवमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
इदानीं निर्गमे पुत्र प्रवेशे वा गृहस्य च
शुभाशुभानि सर्वाणि वक्ष्यामि शकुनानि च ॥१॥
राजा गजो द्विजमयूरकखञ्जरीटाश्चाषः
शकुन्तरजकः सितवस्त्रयुक्तः
पुत्रान्विता च युवतो गणिका च कन्या श्रेयः
सुखाय यशसे प्रतिदर्शयन्ति ॥२॥
लट्वा श्येनो भासहारीतचक्रो भारद्वाजश्छिक्करश्छागसंज्ञः
एते श्रेष्ठा दक्षिणे सव्यवामे वैद्यावेशे निर्गमे श्रेयसे च ॥३॥
सर्पोलूको वानरः सूकरश्च गोधा ऋक्षः कृकलासः शशश्च
एतेऽरिष्टा निर्गमे वा प्रवेशे कार्ये निर्घातोपकारेषु शस्ताः ॥४॥
मृगो वा पिङ्गलो वापि प्रशस्तो दक्षिणे सदा
निर्गमे वा प्रवेशे च दक्षिणे शुभदायकः ॥५॥
एको वा त्रयो वा पञ्च सप्त वा नवसंख्यया
भाग्यकाले नराणान्तु मृगा यान्ति प्रदक्षिणाः ॥६॥
शिखी च भवनगोधा रासभो भृङ्गराजः
पिकभषणकपोताः पोतकी सूकरी वा
तन्तु विहगराजो दीर्घकण्ठादयः स्युर्
वदति शकुनवेत्ता वामतो निर्गमे वा ॥७॥
तित्तिरः क्रकरः क्रौञ्चसारसाभाससूकराः
खगः किरीटी वामे तु सदा शुभतरा मताः ॥८॥
भवन्ति निर्गमे चैते सर्वकार्यसु सिद्धये ॥९॥
काको दक्षिणतः श्रेष्ठो निर्गमे शुभदायकः
प्रवेशे गदितः श्रेष्ठो वामतः कृष्णवायसः ॥१०॥
जाहकोऽपि शशकोऽपि मर्कटः कीर्त्तनञ्च गदितं न सुखाय
न वै नाम न च दर्शनमेषां सर्पगोधाकृकलासबिडालाः ॥११॥
दर्शनं हितकरं प्रवदन्ति खञ्जरीटकमरालछिक्कराः
नामतः शुभकराः प्रवदन्ति दार्वघाटवरटकौ शुकश्च ॥१२॥
निर्गमे विविधकार्यसिद्धये भृङ्गराजरजतं पयो जलम्
मत्स्यमांसरुधिरं मृतकं वा धौतवासमुकुरं पिधानकम् ॥१३॥
मार्गं छिन्दन्ति मार्जाराः सर्पा वा कृकलासकाः
गोधा वापि प्रवेशे च पदमेकन्तु न व्रजेत् ॥१४॥
प्रस्खलन्ति पादशिरसो वसनानि स्खलन्ति वा
विक्रुष्टं वचनं श्रुत्वा पदमेकन्तु न व्रजेत् ॥१५॥
गृहाणां ज्वलनं दृष्ट्वा भिद्यते सजलं घटम्
पतनं भूरुहाणाञ्च दृष्ट्वा कुर्यान्न चङमम् ॥१६॥
आक्रोशवचनं श्रुत्वा मार्जाराणां रुतं तथा
कलहं गृहलोकस्य दृष्ट्वा चंक्रमणं न च ॥१७॥
कनककङ्कणमेव विभूषणं सफलपुष्पमथासववारुणी
फलमशोककरं ज्वरिणां तदा शुभकरो हि भवति भिषक् सदा ॥१८॥
एवं ज्ञात्वा परमनिपुणं पानमन्नादिकानां
वीर्यं चैषां गुणमपि तथा कोपनं कोपवेगम् ।
आदानं वा पुनरपि चयं कोपनस्योपचारं
वैद्यो विद्वान्भवति भवने पूजितो राजलोकैः ॥१९॥

इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने शकुनवर्णनं नाम नवमोऽध्यायः ॥९॥

द्वितीयं स्थानं समाप्तम् ॥२॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP