द्वितीयस्थानम् - पञ्चमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
यः शीलवान्क्रोधनतामुपैति यः क्रोधवाञ्छीलगुणञ्च धत्ते
द्वावेव मृत्युं तनुतो विधिज्ञ स्थूलो नरः शीघ्रतरं कृशाङ्गः ॥१॥
यो धर्मशीलो भवतीह पापी पापात्मको धर्मरतो यदि स्यात्
स मृत्युभाजी भवतीह शीघ्रं यश्च प्रकृत्या विकृतिं प्रयाति ॥२॥
यो गौरवर्णो विदधाति कार्ष्ण्यं कृष्णोऽतिगौरत्वमुपैति यश्च
तथा मृतिं याति नरः प्रकृत्या शीघ्रं विकृत्या भजते वियोगम् ॥३॥
यो वैपरीतं श्रवणेऽपि शब्दं गृह्णाति वा न शृणुते स शीघ्रम्
स वै मृतिं पश्यति यो न पश्येच्छायां स्वकीयां धरणीप्रपन्नाम् ॥४॥
यो वेन्द्रियैः प्रतिहतः कृशतां प्रयाति
स्थूलोऽतिनिष्प्रभवपुर्मरणं विपश्येत्
यो विस्रगन्धिञ्च रसञ्च क्वचिन्न वेत्ति
स वै मृतिं प्रियतामां भजते मनुष्यः ॥५॥
यस्यास्यगन्धमाघ्राय भजन्ते नीलमक्षिकाः
नासिकायां शरीरे वा स चैव यमलोकगः ॥६॥

इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने पञ्चेद्रियविकारो नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP