संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|द्वितीयस्थानम्| चतुर्थोऽध्यायः द्वितीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः द्वितीयस्थानम् - चतुर्थोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता चतुर्थोऽध्यायः Translation - भाषांतर आत्रेय उवाचउपद्रवैश्च ये पुष्टा व्याधयो यान्ति वार्यताम्रसायनादिना वत्स तान्मकैकमनाः शृणु ॥१॥वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम्अश्मरी मूढगर्भश्च तथा चोदरमष्टमम् ॥२॥अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः ॥३॥प्राणमांसक्षयश्वासतृष्णाशोषवमिज्वरैःमूर्च्छातिसारहिक्काभिः पुनरेतैरुपद्रुताः ॥४॥वर्जनीया विशेषेण भिषजा सिद्धिमिच्छता ॥५॥यस्य जिह्वा भवेत्तीव्रा पीता वा नीलसम्भवाश्वासो भवत्यतीवोष्णः शरीरं पुलकाङ्कितम् ॥६॥नीलनेत्रेऽरुणे पीते कण्ठो घुरघुरायतेन जीवति ज्वरार्त्तस्तु लक्षणं यस्य चेदृशम् ॥७॥मुखे श्वासो भवेद्यस्य श्यावा दन्तावली पुनःस्तब्धनेत्रो बलाद्यः स्याज्ज्वरार्तो नैव जीवति ॥८॥बहुमूत्री बहुश्वासी क्षामोऽरोचकपीडितःहतप्रभेन्द्रियो यश्च ज्वरीशीघ्रं विनश्यति ॥९॥यस्यास्ये श्रयते रक्तं शिरोर्त्तिर्यस्य दृश्यतेअन्तर्दाहो बहिःशीतो ज्वरस्तु मृत्युमृच्छति ॥१०॥यस्ताम्यति विसंज्ञस्तु शेते विपतितोऽपि वाशीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ॥११॥यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान्नित्यञ्च वक्त्रेणोच्छ्वासः स ज्वरो हन्ति मानवम् ॥१२॥हिक्काश्वासपिपासार्त्तं मूदं विभ्रान्तलोचनम्सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ॥१३॥आविलाक्षं प्रताम्यञ्च तन्द्रायुक्तमतीव चक्षीणशोणितमांसञ्च नरं नाशयति ज्वरः ॥१४॥घनं निष्ठीवनं नेत्रं प्लावारोचकपीडितम्अन्तर्दाहोऽसिता जिह्वा शीघ्रं नाशयति ज्वरः ॥१५॥यश्चैकोपद्रवस्यार्त्तैः शाम्यता नोपदृश्यतेदारुणोपद्रवाश्चान्ये भूयिष्ठं बहुरूपवान् ॥१६॥तेन मृत्योर्वशं याति सिद्धिं नेच्छति दारुणः ॥१७॥यस्यादौ दृश्यते चैवाप्यतीसारस्तथापरःश्वासः शोषश्च यस्य स्यात्सोऽपि शीघ्रं मृतिं व्रजेत् ॥१८॥श्वासशूलपिपासार्त्तं क्षीणं ज्वरनिपीडितम्विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥१९॥यस्यातिसारशोफाः स्युस्तयारोचकशूलवान्सोऽपि शीघ्रं मृतिं याति बहुभिः प्रतिकर्मभिः ॥२०॥बालस्य चातिवृद्धस्य विकलस्य नरस्य चसर्वाङ्गे जायते शोफः शोफी स म्रियते ध्रुवम् ॥२१॥यस्याध्मानञ्च शूलञ्च श्वासस्तृष्णा विमूर्छनाशिरोऽर्त्तिर्यस्य दृश्येत शूली मृत्युमवाप्नुयात् ॥२२॥पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवःपाण्डुसङ्घातवांश्चैव पाण्डुरोगी विनश्यति ॥२३॥पाण्डुत्वक्पाण्डुनेत्रं च मूत्रं वा पाण्डुरं भवेत्पाण्डुसंवातवांश्चैव पाण्डुरोगी विनश्यति ॥२४॥शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्कृच्छ्रेण बहुमेहन्तं यक्ष्मा हन्तीहमानवम् ॥२५॥धातुहीनो भवेद्यस्तु शोफश्वासैर्निपीडितःबहुभोज्यो घृणावांश्च राजयक्ष्मी विनश्यति ॥२६॥हुंकारः शीतलो यस्य फूत्कारस्योष्णता भवेत्शीघ्रनाडी न निर्वाहः शीघ्रं याति यमालयम् ॥२७॥अङ्गकम्पो गतेर्भङ्गो मुख वा कुंकुमप्रभम्उच्चारे च भवेद्वायुः स च याति यमालयम् ॥२८॥चिरं प्रवृद्धरोगस्तु भोजनेऽप्यसमर्थकम्भग्नगात्रमुपेक्षेत भेषजोऽप्यरहस्यकम्एतादृशं नरं ज्ञात्वोपचारः क्रियते बुधैः ॥२९॥विट्ध्वंसश्वासशोफाच्च तथा ज्वरपीडनात्गम्भीरं सघनं तस्य तदुरः क्षयते नरम् ॥३०॥श्वासशूलपिपासार्तिर्विद्वेषो ग्रन्थिमूढतादुर्बलत्वञ्च भवति गुल्मिनो मृत्युमेष्यतः ॥३१॥नेत्रे जिह्वाधरौ यस्य रक्तौ वा रुधिरं वमेत्रक्तमूत्री रक्तसारी रक्तपित्ती विनश्यति ॥३२॥लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणःरक्तानाञ्च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥३३॥मुखशोफो भवेद्यस्य भ्रमारोचकपीडितःविबन्धोदरशूली च उदयाच्च विनश्यति ॥३४॥आध्मानबद्धनिष्पन्दं छर्दिहिक्कारुगन्वितम्रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥३५यस्य तृष्णा भवेद्घोरा दाहो वापि वमिर्भवेत्भ्रमोपपन्नो भवति न स जीवति मानवः ॥३६॥अपूर्णे दिवसे नारी ज्वरार्त्ता पुष्पमाप्नुयात्सा न जीवेन्महाप्राज्ञ यस्या हि सारणो भवेत् ॥३७॥यः शोफश्वाससंयुक्तस्तृष्णायुक्तोऽथ शूलवान्कामलापाण्डुरोगार्त्तो नरश्च स विपद्यते ॥३८॥वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव चभगन्दरात्प्रस्रवन्ति यस्य तं परिवर्जयेत् ॥३९॥प्रसूननाभिवृषणं रुद्धमूत्रं रुगन्वितम्अश्मरी क्षपयत्याशु सिकताशर्करान्विता ॥४०॥गर्भकोपसमापन्नो मकुष्टो योनिसङ्गतःहन्ति स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ॥४१॥पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम्बहुशोऽपस्मरन्तन्तु क्षीणञ्च वलितभ्रुवम् ॥४२॥नेत्राभ्याञ्च विकुर्वाणमपस्मारो विनाशयेत् ॥४३॥शूलं सुप्तत्वचं भग्नमाध्मानेन निपीडितम्रुजार्त्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् ॥४४॥यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव चपिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ॥४५॥प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥४६॥अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलोत्तरःजागरूकस्त्वसन्देहमुन्मादेन विनश्यति ॥४७॥इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने व्याध्यरिष्टं नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : February 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP