द्वितीयस्थानम् - द्वितीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
शृणु पुत्र समासेन यथा वत्स प्रकाश्यते
तथारिष्टपरिज्ञानं भेषजं सम्प्रवक्ष्यते ॥१॥
वातिकः पैत्तकश्चैव भयाद्धीनबलादपि
मूत्रान्विष्टे सपित्ते च षट्स्वप्नानि च वर्जयेत् ॥२॥
संवत्सरेण फलदो हि भवेन्निशायां
यामे तु दृष्टःप्रथमे फलदः शुभस्य
स्याद्वत्सरार्द्धमतियाममथ द्वितीये
मासत्रये फलदो भवति तृतीये ॥३॥
निशावसाने प्रवदन्ति किञ्चिद्दशाहकः स्यात्फलदो मनुष्ये
वर्षादिने स्यात्तमुशन्ति शान्ताः षाण्मासिको मध्यदिने प्रदिष्टः ॥४॥
स्वप्नेषु शुभ्राणि शुभानि धीराः सर्वाणि चैमानि विवर्जयित्वा
कार्पासभस्मास्थिकपालशूलं कुर्यान्नराणां विपदं रुजं वा ॥५॥
सर्वाणि कृष्णानि विनिन्दितानि स्वप्ने नराणां विपदं रुजं वा
कुर्वन्ति चैतानि हि वर्जयित्वा गोवाजिराजद्विजहस्तिमत्स्यान् ॥६॥
मुकुरकुसुमशृङ्गारातपत्रं ध्वजं वा
दधि फलमथ वस्त्रं चान्नताम्बूलवस्त्रम्
कमलकलशशङ्खं भूषणं काञ्चनस्य
भवति सकलतम्पच्छेयसे रोगिणाञ्च ॥७॥
दिनकरनिशिनाथं मण्डलं तारकस्य
विकचकमलकुञ्जैः पूर्णपद्माकरं वा
तरति सलिलराशिप्रौढनद्याश्च पारं
घनसुखविभवाप्तिर्व्याधिनां रोगमुक्तिः ॥८॥
देवो द्विजो वा पितरो नृपो वा स्वप्नेषु वाक्यं वदते यथैव
तथैव नान्यच्च भवेन्मनुष्ये यद्यस्य सौख्यं विपदो रुजो वा ॥९॥
गोवाजिकुञ्जरनृपाः सुमनः प्रशस्तं
स्वप्नेषु पश्यति नरः सरुजः सुखाय
रोगान्वितश्च रुजनाशनसम्भवाय
बद्धोऽपि वै सपदि बन्धविमोचनाय ॥१०॥
यो भूषणं पश्यति मन्दिरं वा कन्यां दधि मीनकुमारकं वा
सपुष्पवल्लीफलितं द्रुमं वा स्वस्थे धनाप्तिं रुजनाशनाय ॥११॥
स्वप्ने पयःपानमतिप्रशस्तं पानं सुराया अजभोजनं वा
घृतं यवागूःकृसरोदनं वा क्षैरेयिकं भोजनकं सुखाय ॥१२॥
सितो भुजङ्गो दशति कराग्रे नरस्य सुप्तस्य शरीरकेषु
पुत्रस्य लाभं वदते धनं वा नाशं विदध्यादचिराद्रुजां वा ॥१३॥
सश्वेतवस्त्रां रमणीं सुरम्यां स्वप्ने समालिङ्गति यो मनुष्यः
तस्य प्रकर्षेण सुखं श्रियः स्यात्सुपुत्रलाभश्च रुजां विनाशः ॥१४॥
यो धान्यपुञ्जं तिलतण्डुलानां गोधूमसिद्धार्थयवादिकानाम्
धान्याप्तिरस्यामयनाशहेतुः स्वप्नेषु शीघ्रं मनुजे सुखाय ॥१५॥
सफले धनसम्पत्तिर्दीप्ते रोगविनाशनम्
सुखञ्च पुष्पिते ज्ञेयं सम्पूर्णे वाञ्छितं फलम् ॥१६॥
काकैः कङ्कैः करभभुजगैः सूकरोलूकगृध्रैर्जम्बूकैर्वा वृकखरमहिष्यातिरक्षैः श्वभिश्च
व्याघ्रैर्ग्राहैर्मकरकपिभिर्भक्ष्यमाणं स्वकायं
पश्येद्योऽसौ भजति नितरां हानिमापद्रुजं वा ॥१७॥
योऽभ्यञ्जितं स्वं मनुजः प्रपश्येत्
सर्पिर्वसातैलविशेषणेन ॥१८॥
शीघ्रं रुजाप्तिर्भवतीह तस्य
वदन्ति धीरा निपुणं विधेयम् ॥१९॥
रक्तवस्त्रां कृष्णवस्त्रां मुक्तकेशां विसर्पिणीम्
याम्यां स्थितां रुदन्तीं वा गायन्तीमथ पश्यति ॥२०॥
अथाह्वयति संक्रुद्धाँ समालिङ्गति चर्वति
यः पश्यति सुखी स स्याद्व्याधितो मृत्युमृच्छति ॥२१॥
यस्य स्वप्ने च निष्कुष्ठदन्तपातः प्रदृश्यते
शीर्यन्ते केशरोमाणि स सुखी चापदं व्रजेत् ॥२२॥
यस्य खट्वा प्रभज्येत तोमरादिप्रहारतः
रक्तञ्च दृश्यते देहे सस्वस्थो व्याधिमृच्छति ॥२३॥
शून्यागारं पश्यति यो मनुष्यः प्रासादं वा देवहीनञ्च पश्येत्
तापश्चान्द्रे पुष्पितानां द्रुमाणां तस्यानिष्टं मृत्युमाशु प्रपद्येत् ॥२४॥
विपश्येन्नरोभिन्नदेवं घटं वाथवा भग्नशाखं तरुं मन्दिरं वा
विशीर्णं विपश्येत्सुखी व्याधिपुञ्जं प्रपद्येद्रुजाग्रस्त आशु म्रियेत ॥२५॥
यस्याह्वयन्ति पितरो दिशि दक्षिणस्यामाश्रित्य चाशु तनुते मनुजस्य मृत्युम्
यस्यास्ति शूललकुटोद्यतपाशपाणिराह्वयति स मृतिमाशु तनोति कष्टम् ॥२६॥
कार्पासभस्मास्थिकपालशूलं चक्रञ्च पाशञ्च स्वप्ने प्रपश्येत्
तस्यापदो रोगधनक्षयौ वा रोगी मृतिं वा तनुतेऽतिकष्टम् ॥२७॥
इति प्रदिष्टानि शुभानि तानि निशासु सुप्ते मनुजे विशेषात्
तथाशु विज्ञाय महामते त्वं गदस्य नाशाय विधेहि मन्त्रम् ॥२८॥
स्नानञ्च दानञ्च सुरार्चनञ्च होमं तथा भाग्यविधानतश्च
दुःस्वप्नमेतेषु विनाशमेति शुभञ्च सौख्यञ्च तनोति शीघ्रम् ॥२९॥

इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने स्वप्नाध्यायो नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP