सृष्टिखण्डः - अध्यायः १५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम॥
श्राविताद्याद्भुता शैवकथा परमपावनी ॥१॥
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा॥
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥२॥
अनंतरं च यज्जातं माहात्म्यं चरितं तथा॥
सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥३॥
ब्रह्मोवाच॥
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम्॥
कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया ॥४॥
अंतर्हिते तदा देवे शिवरूपे सनातने॥
अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥५॥
मया च विष्णुना रूपं हंसवाराहयोस्तदा॥
संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥६॥
नारद उवाच॥
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान्॥
कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ॥७॥
हंसवाराहयो रूपं युवाभ्यां च धृतं कथम्॥
अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥८॥
सूत उवाच॥
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः॥
स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत् ॥९॥
ब्रह्मोवाच॥
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला॥
तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥१०॥
अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः॥
हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥११॥
विवेको नैव लब्धश्च यतो हंसो व्यलीयत॥
शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥१२॥
सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते॥
यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥१३॥
गमनेऽधो वराहस्य गतिर्भवति निश्चला॥
धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥१४॥
अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम्॥
विष्णुना च वराहस्य भुवनावनकारिणा ॥१५॥
यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः॥
तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः ॥१६॥
तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे॥
तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक् ॥१७॥
इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद॥
स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने ॥१८॥
अंतर्हिते महादेवे त्वहं लोकपितामहः॥
तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥१९॥
नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा॥
आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥२०॥
विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम्॥
उपदिश्य च मां तात ह्यंतर्धानमुपागतः ॥२१॥
ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम्॥
वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा ॥२२॥
अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया॥
पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम् ॥२३॥
अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम्॥
विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥२४॥
ततस्संशयमापन्नस्तपस्तेपे सुदारुणम्॥
द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥२५॥
तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम्॥
मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा ॥२६॥
 ॥विष्णुरुवाच ॥
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव॥
ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः ॥२७॥
ब्रह्मोवाच ॥
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते॥
तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ॥२८॥
विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम्॥
न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ॥२९॥
प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे॥
प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह ॥३०॥
इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः॥
अनंतरूपमास्थाय प्रविवेश तदंडकम् ॥३१॥
सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात्॥
स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति ॥३२॥
प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे॥
सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ॥३३॥
पातालादि समारभ्य सप्तलोकाधिपः स्वयम्॥
राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ॥३४॥
कैलासनगरं रम्यं सर्वोपरि विराजितम्॥
निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह ॥३५॥
ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च॥
कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ॥३६॥
सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम॥
सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ॥३७॥
सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः ॥
अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः ॥३८॥
ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम्॥
मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात् ॥३९॥
तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः॥
सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ॥४०॥
तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे॥
अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम् ॥४१॥
देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः॥
तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः ॥४२॥
प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया॥
अवाक्स्रोता इति ख्यातो मानुषः परसाधकः ॥४३॥
महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत्॥
इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया ॥४४॥
त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः॥
तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः ॥४५॥
वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः॥
एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह ॥४६॥
कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः॥
एषामवांतरो भेदो मया वक्तुं न शक्यते ॥४७॥
अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम्॥
कौमारः सनकादीनां यत्र सर्गो महानभूत् ॥४८॥
सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः॥
महावैराग्यसंपन्ना अभवन्पंच सुव्रताः ॥४९॥
मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः॥
शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥५०॥
प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम॥
अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ॥५१॥
कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम॥
क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः ॥५२॥
तस्मिन्नवसरे तत्र स्मृतेन मनसा मया॥
प्रबोधितोहं त्वरितमागतेना हि विष्णुना ॥५३॥
तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम्॥
तपोकारी महद्घोरं परमं मुनिसत्तम ॥५४॥
तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः॥
अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ॥५५॥
त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः॥
आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः ॥५६॥
तमजं शंकरं साक्षात्तेजोराशिमुमापतिम्॥
सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ॥५७॥
दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः॥
अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः ॥५८॥
श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः॥
ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून ॥५९॥
अवोचं पुनरेवेशं महारुद्रं महेश्वरम्॥
जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति ॥६०॥
एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः॥
प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ॥६१॥
महादेव उवाच॥
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे॥
अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ ॥६२॥
अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः॥
सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ॥६३॥
त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते॥
मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि ॥६४॥
ब्रह्मोवाच॥
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः॥
सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः ॥६५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP