सृष्टिखण्डः - अध्यायः ०४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः॥
सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा॥
धन्या तु शांभवी माया तदधीनं चराचरम् ॥१॥
गतयोर्गणयोश्शंभोस्स्वयमात्मेच्छया विभोः॥
किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥२॥
सूत उवाच॥
विमोहितो मुनिर्दत्त्वा तयोश्शापं यथोचितम्॥
जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥३॥
शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम्॥
क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥४॥
उवाच वचनं कुद्धस्समिद्ध इव पावकः॥
दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानश्शिवेच्छया ॥५॥
नारद उवाच॥
हे हरे त्वं महादुष्टः कपटी विश्वमोहनः॥
परोत्साहं न सहसे मायावी मलिनाशयः ॥६॥
मोहिनीरूपमादाय कपटं कृतवान्पुरा॥
असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥७॥
चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः॥
भवेन्नष्टाऽखिला माया तव व्याजरते हरे ॥८॥
गतिस्स कपटा तेऽतिप्रिया विष्णो विशेषतः॥
साधुस्वभावो न भवान्स्वतंत्रः प्रभुणा कृतः॥९॥
कृतं समुचितन्नैव शिवेन परमात्मना॥
तत्प्रभावबलं ध्यात्वा स्वतंत्रकृतिकारकः ॥१ ०॥
त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः॥
विप्रं सर्वोपरि प्राह स्वोक्तवेद प्रमाणकृत् ॥११॥
तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात्॥
यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥१२॥
अद्यापि निर्भयस्त्वं हि संगं नापस्तरस्विना॥
इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥१३॥
इत्थमुक्त्वा हरिं सोथ मुनिर्माया विमोहितः॥
शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन् ॥१४॥
स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः॥
अन्वकार्षीस्स्वरूपेण येन कापट्यकार्यकृत् ॥१५॥
तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे॥
यन्मुखं कृतवान्मे त्वं ते भवंतु सहायिनः ॥१६॥
त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः॥
मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥१७॥
इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः॥
विष्णुर्जग्राह तं शापं प्रशंसञ्शांभवीमजाम् ॥१६॥
अथ शंभुर्महालीलो निश्चकर्ष विमोहिनीम॥
स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यया ॥१९॥
अंतर्हितायां मायायां पूर्ववन्मतिमानभूत्॥
नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥२०॥
पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः॥
प्रशशंस तदा मायां शांभवीं ज्ञानिमोहिनीम् ॥२१॥
अथ ज्ञात्वा मुनिस्सर्वं मायाविभ्रममात्मनः॥
अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥२२॥
हर्य्युपस्थापितः प्राह वचनं नष्ट दुर्मतिः॥
मया दुरक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥२३॥
दत्तश्शापोऽपि तेनाथ वितथं कुरु तं प्रभो॥
महत्पापमकार्षं हि यास्यामि निरयं धुवम् ॥२४॥
कमुपायं हरे कुर्यां दासोऽहं ते तमादिश॥
येन पापकुलं नश्येन्निरयो न भवेन्मम ॥२५॥
इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः॥
पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥२६॥
अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः॥
विष्णुरुवाच॥
न खेदं कुरु मे भक्त वरस्त्वं नात्र संशयः ॥२७॥
शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् ॥१ ॥
निरयस्ते न भविता शिवश्शं ते विधास्यति ॥२८॥
यदकार्षीश्शिववचो वितथं मदमोहितः॥
स दत्तवानीदृशं ते फलं कर्म फलप्रदः ॥२९॥
शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम्॥
गर्वापहर्ता स स्वामी शंकरः परमेश्वरः ॥३०॥
परं ब्रह्म परात्मा स सच्चिदानंदबोधनः॥
निर्गुणो निर्विकारो च रजस्सत्वतमःपर ॥३१॥
स एवमादाय मायां स्वां त्रिधा भवति रूपतः॥
ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः ॥३२॥
निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः॥
परं ब्रह्माव्ययोऽनंतो महादेवेति गीयते ॥३३॥
तत्सेवया विधिस्स्रष्टा पालको जगतामहम्॥
स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा ॥३४॥
साक्षी शिवस्वरूपेण मायाभिन्नस्स निर्गुणः॥
स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः ॥३५॥
शृणु त्वं नारद मुने सदुपायं सुखप्रदम्॥
सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा ॥३६॥
इत्युक्त्वास्त्वसंशयं सर्वं शंकरसद्यशः॥
शतनामशिवस्तोत्रं सदानन्यमतिर्जप ॥३७॥
यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति॥
इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः ॥३८॥
मुने न कुरु शोकं त्वं त्वया किंचित्कृतं नहि॥
स्वेच्छया कृतवान्शंभुरिदं सर्वं न संशयः ॥३९॥
अहार्षित्त्वन्मतिं दिव्यां काम क्लेशमदात्स ते॥
त्वन्मुखाद्दापयांचक्रे शापं मे स महेश्वरः ॥४०॥
इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम्॥
मृत्युंजयः कालकालो भक्तोद्धारपरायणः ॥४१॥
न मे शिवसमानोस्ति प्रियः स्वामी सुखप्रदः॥
सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः ॥४२॥
तस्योपास्यां कुरु मुने तमेव सततं भज॥
तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम् ॥४३॥
कायेन मनसा वाचा यश्शंकरमुपैति भो॥
स पण्डित इति ज्ञेयस्स जीवन्मुक्त उच्यते ॥४४॥
शिवेति नामदावाग्नेर्महापातकप र्वताः॥
भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥४५॥
पापमूलानि दुःखानि विविधान्यपि तान्यतः॥
शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा ॥४६॥
स वैदिकस्य पुण्यात्मा स धन्यस्स बुधो मुने॥
यस्सदा कायवाक्चित्तैश्शरणं याति शंकरम् ॥४७॥
भवंति विविधा धर्मा येषां सद्यःफलोन्मुखाः॥
तेषां भवति विश्वासस्त्रिपुरांतकपूजने ॥४८॥
पातकानि विनश्यंति यावंति शिवपूजया॥
भुवि तावंति पापानि न संत्येव महामुने ॥४९॥
ब्रह्महत्यादिपापानां राशयोप्यमिता मुने॥
शिवस्मृत्या विनश्यंति सत्यंसत्यं वदाम्यहम् ॥५०॥
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ते॥
संसारमूलपापानि तस्य नश्यंत्यसंशयम् ॥५१॥
संसारमूलभूतानां पातकानां महामुने॥
शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥५२॥
शिवनामामृतं पेयं पापदावानलार्दितैः॥
पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥५३॥
शिवेति नामपीयूषवर्षधारापरिप्लुतः॥
संसारदवमध्यपि न शोचति न संशयः ॥५४॥
न भक्तिश्शंकरे पुंसां रागद्वेषरतात्मनाम्॥
तद्विधानां हि सहसा मुक्तिर्भवति सर्वथा ॥५५॥
अनंतजन्मभिर्येन तपस्तप्तं भविष्यति॥
तस्यैव भक्तिर्भवति भवानी प्राणवल्लभे ॥५६॥
जातापि शंकरे भक्तिरन्यसाधारणी वृथा॥
परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता ॥५७॥
यस्या साधारणी शंभौ भक्तिरव्यभिचारिणी॥
तस्यैव मोक्षस्सुलभो नास्येतिन्य मतिर्मम ॥५८॥
कृत्वाप्यनंतपापानि यदि भक्तिर्महेश्वरे॥
सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥५९॥
भवंति भस्मसाद्वृक्षादवदग्धा यथा वने॥
तथा भवंति दग्धानि शांकराणामघान्यपि ॥६०॥
यो नित्यं भस्मपूतांगो शिवपूजोन्मुखो भवेत्॥
स तरत्येव संसारमपारमतिदारुणम् ॥६१॥
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून्॥
लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः ॥६२॥
विलोक्य वेदानखिलाञ्छिवस्यैवार्चनम्परम्॥
संसारनाशनोपाय इति पूर्वैर्विनिश्चितम् ॥६३॥
अद्यप्रभृति यत्नेन सावधानो यथाविधि॥
साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम् ॥६४॥
आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम्॥
सर्वश्रुतिश्रुतं शैवम्मंत्रञ्जप षडक्षरम् ॥६५॥
सवार्ङ्गेषु प्रयत्नेन रुद्राक्षाञ्छिववल्लभान्॥
धारयस्वातिसद्भक्त्या समन्त्रम्विधिपूर्वकम् ॥६६॥
शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा॥
पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः ॥६७॥
अप्रमादेन सततं शिवैकशरणो भव॥
शिवार्चनेन सततमानन्दः प्राप्यते यतः ॥६८॥
उरस्याधाय विशदे शिवस्य चरणाम्बुजौ॥
शिवतीर्थानि विचर प्रथमं मुनिसत्तम ॥६९॥
पश्यन्माहात्म्यमतुलं शंकरस्य परात्मनः॥
गच्छानन्दवनं पश्चाच्छंभुप्रियतमं मुने ॥७०॥
तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः॥
नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि ॥७१॥
ततश्च भवता नूनं विधेयं गमनं मुने॥
ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः ॥७२॥
नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने॥
प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा ॥७३॥
स शैवप्रवरो ब्रह्मा माहात्म्यं शंकरस्य ते॥
श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि ॥७४॥
अद्यतस्त्वं भव मुने शैवश्शिवपरायणः॥
मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति ॥७५॥
इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः॥
स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वंतरधीयत ॥७६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP