सृष्टिखण्डः - अध्यायः ०३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः॥
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते॥
अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥१॥
मुनौ गते हरिस्तात किं चकार ततः परम्॥
नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥२॥
व्यास उवाच॥
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः॥
प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः ॥३॥
सूत उवाच॥
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे॥
शिवेच्छया चकाराशु माया मायाविशारदः ॥४॥
मुनिमार्गस्य मध्ये तु विरेचे नगरं महत्॥
शतयोजनविस्तारमद्भुतं सुमनोहरम् ॥५॥
स्वलोकादधिकं रम्यं नानावस्तुविराजितम्॥
नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥६॥
तत्र राजा शीलनिर्धिर्नामैश्वर्यसमन्वितः॥
सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ॥७॥
चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दतैः॥
नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥८॥
एतादृशम्पुरं दृष्ट्वा मोहम्प्राप्तोऽथ नारदः॥
कौतुकी तन्नृपद्वारं जगाम मदनेधितः॥९॥
आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः॥
उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे ॥१०॥
अथ राजा स्वतनयां नामतश्श्रीमतीं वराम्॥
समानीय नारदस्य पादयोस्समपातयत् ॥११॥
तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः॥
केयं राजन्महाभागा कन्या सुरसुतोपमा ॥१२॥
तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः॥
दुहितेयं मम मुने श्रीमती नाम नामतः ॥१३॥
प्रदानसमयं प्राप्ता वरमन्वेषती शुभम्॥
सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता ॥१४॥
अस्या भाग्यं वद मुने सर्वं जातकमादरात्॥
कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥१५॥
इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः॥
समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥१६॥
सुतेयं तव भूपाल सर्वलक्षणलक्षिता॥
महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥१७॥
सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः॥
अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥१८॥
इत्युक्त्वा नृपमामंत्र्य ययौ यादृच्छिको मुनिः॥
बभूव कामविवशश्शिवमाया विमोहितः ॥१९॥
चित्ते विचिन्त्य स मुनिराप्नुयां कथमेनकाम्॥
स्वयंवरे नृपालानामेकं मां वृणुयात्कथम् ॥२०॥
सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा॥
तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः ॥२१॥
विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः॥
विष्णुलोकं जगामाशु नारदः स्मरविह्वलः ॥२२॥
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह॥
रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥२३॥
तथेत्युक्ते तथा भूते शिवेच्छा कार्यकर्त हि॥
ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम् ॥२४॥
नारद उवाच॥
त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः॥
तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी ॥२५॥
जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी॥
परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम् ॥२६॥
स्वयंवरं चकरासौ भूपतिस्तनयेच्छया॥
चतुर्दिग्भ्यः समायाता राजपुत्रास्सहस्रशः ॥२७॥
यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम्॥
त्वद्रूपं सा विना कंठे जयमालां न धास्यति ॥२८॥
स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव॥
वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा ॥२९॥
सुत उवाच ॥वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः॥
शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः ॥३०॥
विष्णुरुवाच॥
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव॥
भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे ॥३१॥
इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे॥
स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः ॥३२॥
एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः॥
मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥३३॥
अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः॥
चक्रे स्वयम्वरं यत्र राजपुत्रैस्समाकुलम् ॥३४॥
स्वयम्वरसभा दिव्या राजपुत्रसमावृता॥
शुशुभेऽतीव विप्रेन्द्रा यथा शक्रस भा परा ॥३५॥
तस्यां नृपसभायां वै नारदः समुपाविशत्॥
स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥३६॥
मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम्॥
आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥३७॥
पूर्वरूपं मुनिं सर्वे ददृशुऽस्तत्र मानवाः ॥
तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः ॥३८॥
तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ॥
विप्ररूपधरौ गूढौ तत्रेदं जज्ञतुः परम् ॥३९॥
मूढ मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ॥
कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥४०॥
पश्य नारद रूपं हि विष्णोरिव महोत्तमम्॥
मुखं तु वानरस्येव विकटं च भयंकरम् ॥४१॥
इच्छत्ययं नृपसुता वृथैव स्मरमोहितः॥
इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥४२॥
न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः॥
पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥४३॥
एतस्मिन्नंतरे भूपकन्या चांतःपुरात्तु सा॥
स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी ॥४४॥
मालां हिरण्मयीं रम्यामादाय शुभ क्षणा॥
तत्र स्वयम्बरे रेजे स्थिता मध्ये रमेव सा ॥४५॥
बभ्राम सा सभां सर्वां मालामादाय सुव्रता॥
वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥४६॥
वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा॥
दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ॥४७॥
न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम्॥
अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम् ॥४८॥
एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः॥
न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥४९॥
अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा॥
अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥५०॥
तामादाय ततो विष्णू राजरूपधरः प्रभुः॥
अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल ॥५१॥
सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति॥
मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः ॥५२॥
तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम्॥
विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥५३॥
गणावूचतुः॥
हे नारदमुने त्वं हि वृथा मदनमोहितः॥
तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम् ॥५४॥
सूत उवाच॥
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत्॥
मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥५५॥
स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम्॥
शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥५६॥
युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि॥
भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती ॥५७॥
श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ॥
न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥५८॥
स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम्॥
चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥५९॥
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP