तत्वमुक्ताकलापे - अद्रव्यसर:

वेदान्त देशिक उर्फ वेंकटनाथ (१२६८-१३७०) हे वैष्णव गुरू, कवि, भक्त, दार्शनिक आणि आचार्य सुद्धां होते.


तत्तद्‍द्रव्येषु दृष्टं नियतिमदपृक्सिद्धमद्रव्यजातं
तद्वद्विश्वं परस्य व्यवधिनियमनात्र स्वरुपेऽस्य दोष:
इत्थं निर्धायं भाग्ये भगवति विविधोदाहृतिव्यक्तिसिद्धये
निर्बाधान्‍ द्रव्यधर्मान्निरनुगतिअलद्‍दुर्नयान्निर्णयाम्‍: ॥१॥

व्याख्यातं द्रव्यषटक्‍ व्यतिभिदुरमथाद्रव्यक्तिन्ताऽस्य सत्ता
धीमेदादे: पुरोक्ता निजगदुरनृपादानतां तस्य लक्ष्म ।
द्रव्यादत्यन्तभिन्नं त्विदमनुपधिकं तद्विशिंष्यात्‍ स्वभावात्‍
दृष्टे न ह्यस्त्ययुक्तं न कथमितरथा विश्वत्तत्त्वापलाप: ॥२॥

अद्रव्यं द्रव्यसिद्धौ तदुपहिततया तच्च लक्ष्येत तस्मा-
देकासिद्धो द्वयं नेत्यपि न सदुभयान्योन्यवैशिष्ट्यदृष्टे: ।
आधारे द्रव्यशब्दस्तदधिकरणकेऽनाश्रये त्वन्यदित्यं
व्युत्पत्तिर्विश्वहृद्या न तदपलपति स्वर्गकर्णीसुतोऽपि ॥३॥

सामान्यात्मा विशेषाकृतिरपि यदि न स्वीकृतो धर्मवर्ग:
स्यातां न भ्रान्तिबाधौ न किमपि कथकास्साधयेयु: स्वसाध्यम्‍ ।
यस्मिन्‍ बाधानवस्थे क्वचन न खलु तन्नीतिरन्यत्र दृष्टे
नो चेन्निश्शेषकुक्षिम्भरिरुपनिपतन्‍ दुस्तरस्शून्यपक्ष:  ॥४॥

चादीनां वृत्तियोग्यं यदुत पदविदोऽसत्त्वमद्रव्यमाहु-
र्नेतावत्तन्मृषात्वं गमयति न च तद्‍बाधकं किंचिदस्ति ।
तात्पर्यं चान्यदत्र स्फुटविदितमतस्तत्र सत्त्वेतरत्वा-
दन्य: कश्चिन्नत्रर्थ: परमिह निपुणैर्द्योतकत्वादि चिन्त्यम्‍ ॥५॥

आहुर्द्रव्येषु धर्मान्‍ कतिचन गुणपर्यायवेषम्यभिन्नान्‍
पर्यायाणां गुणत्वे स्थितवति सहजागन्तुतामात्रमेतत्‍ ।
मिथ्याभूतान्‍ विकारानभिदघति परे सत्यरुपान्‍ स्वभावान्‍
तानेकद्व्यादिरुपानभिदधतु कथं निर्गुणानां क्षणानाम्‍ ॥६॥

बाह्येर्थे बौद्धतोका: किल जननजराभड्गरुपान्‍ विकारा-
नाद्यन्तो चित्तचेत्तेष्वपि जगदुरमी तत्त्स्वरुपं न वा स्यु:  ।
पूर्वस्मिन्नक्रम: स्यादुपरि तु न कथं तस्य धर्मास्तु एते
तन्मिथ्यात्वे तु नित्यं निखिलमपि भवेत्तुच्छमेवान्यदा स्यात्‍ ॥७॥

आदावैक्येन बुद्धिर्द्वयमपि मिलितं गृह्यती व्यक्तिजात्यो-
र्भेदाभेदाविरोधं दिशति यदि न तत्तद्विशिर्ष्टंक्यबुद्धे: ।
इत्थंत्वेदंत्वशून्यं न हि किमपि कदाऽप्यर्भंकोऽपि प्रतीया-
त्तद्वेशिष्ट्यप्रतितिर्निरुपधिरपृथक्‍सिद्धिमात्रेण सिध्येत्‍ ॥८॥

व्यक्त्या जातेरमेदं यदि वदसि पृथकसिद्ध्यभावादिलिड्गै-
र्भेदाभावोऽक्षबाध्यस्तव च न हि मतो नान्यथाऽत्रास्य मुक्ति: ।
धर्म्येक्यादेकवाक्स्यान्न तु भवति ततो धर्मंधर्म्येक्यबुद्धि-
स्तद्वोधश्चाप्युपाधिर्न स इह भवता दृश्य इत्यभ्युपेते ॥९॥

सत्त्वान्नैकान्तमाहुर्विमतमितरवत्‍ केऽपि तद्धोविरुद्धं
न ह्यत्राकारभेदात्‍ परिहृतिरनवस्थानदोषप्रसड्गात्‍ ।
स्वव्यापारोक्तिचयर्यासमयनियतयोऽप्येवमेवाकुला: स्यु-
र्दृष्टान्तेऽपि ह्य पाधिद्वयवति नियतस्थौल्यसौक्ष्म्यादियोग: ॥१०॥

सिद्धे वस्तुन्यशेषै: स्वमतमुभयथा वर्ण्यते तत्रतत्र
स्यादर्थस्यैकरुप्ये कथमिदमिति चेत्तन्न भिन्नाशयोक्तै: ।
मन्तव्या वैभवोक्ति: क्वचिदनभिमते संशयोक्ति: क्वचिद्वा
भाग (द्वन्वा) द्वैतान्नूसिंहभूतिषु घटते चित्रसंस्थानयोग: ॥११॥

स्यादस्ति स्याच्च नास्ति द्वितयमनुभयं स्यात्तिभिश्चान्तिमं त्रि-
स्सैषोक्ता सप्तभड्गो जिनसमयजडैर्द्रव्यपर्यायवर्गे ।
इष्टां सार्वत्रिकीं तां स्वपरमतकथातत्फलादौ विविक्षन्‍
कक्षीकुर्वीत धूत: कथकपरिषदा कां दिशं कान्दिशीक: ॥१२॥

भेदे वस्तुस्वरुपे भ्रम इह न भवेद्धर्मपक्षेऽनवस्था
स्याद्वाऽन्योन्याश्रयादिस्तदयमनृत इत्युक्तिबाधादिदु:स्थम्‍ ।
धर्म: क्वापि स्वरुपं क्वचिदिति च यथादृष्टि नोक्तप्रसड्गौ
यद्दृष्ट्या यत्र यस्याध्यसनपरिह्यतिस्सोऽस्य तस्मात्तु भेद: ॥१३॥

भेदो गृह्येत बुद्धध्वाऽधिकरणमवधिं चेति न ह्यक्रमोऽस्मिन्‍
प्रत्यक्षस्य क्रमोऽपि क्षणभिदुरतया नेति तुल्यं भ्रमेऽपि ।
अक्षान्धादिव्यवस्थाक्षतिरपि युगपद्योग्यधर्मेर्ग्रहोऽत-
स्तद्युक्ते भिन्नशब्द: कथिततदुपधिज्ञप्त्यपेक्ष: क्रमात्स्यात्‍ ॥१४॥

अद्रव्ये नैकरुपे ह्यगणिषत गुणा: सत्त्वमुख्या द्विधाऽऽद्यं
शुद्धं तन्नित्यभूतौ त्रितयमिह चतुर्विंशतौ व्याप्तित: स्यात्‍ ।
पञ्चान्ये शब्दपूर्वा अपि परिगणिता भूतवर्गेष्वथान्य:
संख्यानादिश्च भेद: परिणमति यथासंभवं द्रव्यवर्गे ॥१५॥

स्थित्युत्पत्त्यन्तलीलाविधिषु भगवताऽधिष्ठिता: शास्त्रवेद्या:
सत्वाद्या:  स्थूलसूक्ष्मप्रकृतिगतगुणा हेतुभूतास्सुखादे: ।
साम्ये तेषां त्रयाणां सदृशपरिणति: स्यादिहान्यान्यश्चात्वे
क्लृप्ताऽन्यैर्द्रव्यतैषां श्रुतिपथविहता कुत्रचित्तूपचार: ॥१६॥

बुद्धित्वादि: प्रधाने समपरिणतिरित्येवमागन्तुधर्मा:
द्रव्येष्वनेषु चान्ये कतिचन कथिता: केचिदध्यक्षसिद्धा: ।
आनन्त्यादर्थमान्द्याद्‍ दुरवगमतया सूक्ष्मवैषम्यभेदे-
रैकेकश्येन चिन्तामिह जहति बुधा निश्चितापेक्षितार्था: ॥१७॥

शब्दाद्यास्तत्तदक्षप्रतिनियतिजुषस्सर्वंतन्त्रप्रसिद्धा-
स्तैरेकद्वयादिसंख्यैर्द्युपवनहुतभुग्वारिभूभ्यस्समेता: ।
पञ्चीकारादिनैषां विनिमितगुणता व्योमनैल्यादिबोधे
तद्योगात्तत्र तत्तद्‍गुणजनिरिति चेन्नान्यथाऽत्रोपत्ते: ॥१८॥

कस्तूरीचम्पकादौ समविषमतया सम्मतस्सौरभादि-
स्तद्वच्छब्दादयोऽमी त्रिगुणतदधिकद्रव्यनिष्ठा गुणा: स्यु: ।
निष्कृष्टे शास्त्रदृष्ट्या न कथमपि मिथस्संकरश्शड्कनीय:
स्वाच्छन्द्याच्छड्कमान: स्वमिव सुरगुरुं किं न शड्केत मुग्धम्‍ ॥१९॥

शब्दो नैकेषु युक्त्याऽप्युचित इह पुन: पारिशेष्यं तु मन्दं
वायुश्शब्दस्वभावश्श्रुतिशिरसि यत: स्मर्यते च स्वरात्मा ।
गन्धालोकादिनीतिं यविह निजगदुर्यामुनाद्यास्ततोऽपि
स्पष्टो भेर्यादिनिष्ठोऽयमिति गतिवचो गन्धवत्तद्वि (शेषे) शिष्टे ॥२०॥

सत्यान्‍ सत्यापयन्त: कतिचन चतुर: स्पर्शरुपादिधातून्‍
शब्दं स्वार्हाक्षिसिद्धं चतुरधिकरणं प्राहुरेभ्यो न भिन्नम्‍ ।
किं तद्‍ भेदाप्रतीते: प्रबलविहतितस्संमतैक्यप्रमात:
स्वाच्छन्द्याद्देशनाया विभवत इति वा वीक्ष्य शिष्टा विजह्य: ॥२१॥

शब्दोऽवस्थाविशेष: श्रुतिभिरभिहितस्तेन नैष स्वनिष्ठो
व्योमादेश्चाविभुत्वात्‍ क्वचिदपि न तु तत्सन्निधिस्तद्विदूरे ।
साक्षादक्षाप्तिसाक्षात्कृत इति घटवद्‍ द्रव्यमित्यप्यसारं
साध्यात्‍ प्राग्धेत्वसिद्धेर्नं हि परमतवन्नाभसं श्रोत्रमत्र ॥२२॥

वर्णानां सध्वनीनामभिदधति हरिद्वासस: पुद्‍गलत्वं
नाक्षादेस्सिद्वमेतन्न च तदबिमते शब्दित: शब्दशब्द: ।
सूक्ष्मद्रव्ये हि धर्म: श्रुतिविषयदशालक्षणो दुस्त्यजस्तै-
स्तस्मान्नास्मत्समीक्षामतिपर्तितुममी शक्तुयुस्तद्वदन्ये ॥२३॥

वर्णे स्थैर्यं विरुद्धान्वयविरहवति प्रत्यभिज्ञा नियच्छे-
त्तैव्र्यादिव्यञ्जकस्थं भ्रमवशघटितं तत्र कल्प्येत दिग्वत्‍ ।
एकाक्षग्राह्यसंवित्प्रतिनियतिरपि ह्यञ्जनादाविव स्या-
द्व्यक्त्या स्यात्‍ कार्यंताधीर्यदि न निगदितो नैगमैरस्य नाश: ॥२४॥

ध्वन्यात्मा वायुभेद: श्रुतिविषयतयाऽपाठि तौतादिताद्यै:
तद्वत्‍ पञ्चाशदेते समकरणतया वर्णिता: किं न वर्णा: ।
तैव्रयादिर्वर्णधर्मो नियत इति यथादर्शनं स्थापनीयं
स्पर्शादौ चैवमिष्टं तदिह न सुलभा द्रव्यता नित्यता च ॥२५॥

शब्दानित्यत्वतोऽपि श्रुतिषु न विलय: स्यात्‍ क्रमव्यक्तिनीत्या
तन्नित्यत्वे च काव्यादिकमपि न कथं नित्यमित्यभ्युपैषि ।
तस्मानित्यैकरुपक्रमनियमवशान्नित्यभाव: श्रुतीना-
मीशोऽप्यधापको न: पर (मि) मतिचकितैर्वर्णनित्यत्वमुक्तम्‍ ॥२६॥

नैष्वोष्णौ नापि शीतौ क्षितिसततगती तत्र तोयादियोगात्‍
शीतत्वादिप्रतितिस्तदुपधिकतया तत्रतत्रैव दृष्टे: ।
आयुर्वेदे तुषारो मरुदिति कथनं त्वद्भिराप्यायिकाभि-
र्वृद्धिह्वसौ समाद्येर्भवत इति परं तच्चिकित्सानियत्यै ॥२७॥

स्यादुष्ण: कृष्णवर्त्मा सलिलमपि तथा शीतमस्तु प्रकृत्या
स्पर्शोऽन्योप्यत्र दृष्टस्य तु भवतु रुमाक्षिप्तलावण्यवच्चेत्‍ ।
मैवं संसृष्टवस्तूधिनियततया तद्विवेकस्य युक्ते:
प्रायश्शीतो भवेतिप्रभृतिकमपि तद्दाहकत्वादिरोधात्‍ ॥२८॥

पीता भू: श्वेतमम्भो हुतवहपवनौ रक्तधूम्रौ तथा द्यौ-
र्नीलेति क्वापि शिष्टं तदिह न नियतां वर्णसत्तां ब्रवीति ।
ध्यानार्थं मन्त्रवर्णॊष्विव कथितमिदं व्योमवाती ह्यरुपौ
पीतैकान्त्यं भुवोऽक्षश्रुतिहतमथ तत्प्राचुरी साऽस्तु मा वा ॥२९॥

कृष्णामाम्नासिषु: क्ष्मां तदिह न विरहं वक्ति रुपान्तराणां
प्रत्यक्षादेर्विरोधात्पचनविषमितं स्पर्शगन्धादि चास्या: ।
पाश्चस्तैजोविशेषे स्फुरति वसुमति भागतो वर्णभेदो
न ह्यम्भ: क्वापि दृष्टं विपरिणतगुणं पाकसंस्कारतोऽपि ॥३०॥

आरब्धं रुपभेदेरवयवनियतैश्चित्रमन्यत्तु रुपं
काणादा: कल्पयन्त: क्व तदिति कथयन्त्वंशतस्तद्विकल्पे ।
नांशेष्वेतत्तदिष्टं न च तदभिहित: कश्चिदंशीति तूक्तं
स्वाधारव्यापकत्वं सुगममिह तथा स्पर्शगन्धादिचैत्र्यम्‍ ॥३१॥

स्नेह: प्रत्यक्षसिद्धो यदुपधिरुवके स्निग्धधीस्स द्रवत्वा-
त्तोयत्वाच्चातिरिक्त: क्वचिदिह यदसौ भाति ताभ्यां विनाऽपि ।
सौवर्णादिद्रवाणां न च भवति यत: पांसुसंग्राहकत्वं
पर्यायानुक्तिरस्मिन्‍ भवति विषमता चेति केचिद्‍ गृणन्ति ॥३२॥

अन्ये स्नेहं तु रुपं किमपि निजगदु: स्निग्धवर्णोक्त्यबाधात्‍
इष्टवात्‍ दुस्त्यजं तद्भवति खलु भिदा काऽपि गन्धादिकेऽपि ।
अत्प्वादे: पांसुसड्गस्सुगममिदमयस्कान्तजात्यादिनीत्या
न ह्यन्यत्तत्र क्लृप्तं न च न दृढमितं पार्थिवे पिच्छिलत्वम्‍ ॥३३॥

मासृण्यादिप्रभेदोपहितगुरुतयाऽबादिनिम्नाभिमुख्यं
माषव्रीह्यादिराशौ भवति च पतने तादृशं ताततम्यम्‍ ।
किंचादृष्टान्यक्लृप्तिर्ज्वलनपवनयोर्न क्रियायां तथाऽस्मि-
न्नित्येकेऽन्ये तु दृष्ट्वा गुणमधिकमुशन्त्यादिमस्यन्दहेतुम्‍ ॥३४॥

तोये दृष्टं स्वभावाद्‍ घृतकनकमुखे पाकजन्यं द्रवत्वं
तैलादौ नैव पाकानुगम इति भवेत्तादृशाबंशक्लृत्पि: ।
भस्मीभावाद्यनर्हे यदुत कणभुजा सूत्रितं तेजसत्वं
हैमादिश्लिष्टभौमावयवनयविदाम्त्थमेतन्न ह्यद्यम्‍ ॥३५॥

पातस्तुल्योऽम्बुभूम्यो: पवनदहनयोस्तिर्यगूर्ध्वप्रवृत्त्या
पाते भेदात्‍ पलादिप्रतिनियतिरपि ह्यंशवैषम्यत: स्यात्‍ ।
भागानां तारतम्याज्जलशिखिमरुतां स्यन्दनादे (र्भिदेष्टा) र्विशेष-
स्तस्मात्‍ सर्वोऽप्यदृष्टादिह भवतु न चेत्‍ स्याद्‍ गुणोऽन्योनलादौ ॥३६॥

त्वकसंवेद्यं गुरुत्वं कतिचिदभिदधुस्तत्तु तेषां गुरुत्वं
नोर्ध्वं स्पृष्ट‍वा प्रतीमस्तविह परघृते नाप्यधस्तात्स्पृशन्त: ।
न ह्यन्यालम्बितोऽर्थो भवति लघुतर: स्पर्शनं नोपरुद्धं
तेनाक्रान्तौ प्रणुत्तिक्रम इति गुरुणा तर्कितस्तोलनाद्यै: ॥३७॥

क्षित्यादौ सांख्यदृष्ट्या यदि किमपि तम (:) स्कार्यमिष्टं गुरुत्वं
तद्वत्‍ कल्प्येत वह्निप्रभृतिषु न कथं सत्त्वकार्यं लघुत्वम्‍ ।
यादृग्भूताद्‍ गुणात्तद्वदसि च पतनं तादृशादस्तु तस्मात्‍
क्लृप्तिस्त्वन्यस्य गुर्वी भवतु तदधिकं काममाप्तोपदेशात्‍ ॥३८॥

एकव्द्यादिप्रतीव्यवहृतिविषयो यो गुणस्सा तु संख्या
क्वाप्यैक्यं नित्यसिद्धं क्वचिदवयवगैर्जन्यते तत्तदैक्यै: ।
द्वित्रित्वाद्यं त्वनेकावगतिसहकृतैकेकनिष्ठैक्यजन्यं
तत्तल्पुंमात्रदृश्य़ं क्षणिकमिति कथा काऽपि कौतस्कुतानाम्‍ ॥३९॥

तत्र द्वित्वाद्यपेक्षामतिविषभिदामात्रमेवास्त्वभीष्टं
द्वित्वाद्युत्पत्तिमूलं यदभिलपसि तव्द्याह्रतेरस्तु मूलम्‍ ।
द्वित्वादिप्रागभावैध्रुवमिह हि विना धीविशेषोऽभ्युपेय:
तन्मूलं निर्गुणानां विगणनमपि च स्थापनीयं गुणानाम्‍ ॥४०॥
केवल्यं नैकसंख्यापरविरहतया नापि मुख्यान्यभावौ
सड्घातैक्यं तु राशिक्रममवयवि तु प्राडनिरुस्तं ततोऽन्यत्‍ ।
तेनासड्घातरुपे क्वचन निरुपधि: स्यादसावेकसंख्या
स्वाधाकरेकायुरेषा परमुपचरिता सेयमद्रव्यवर्गे ॥४१॥

ऐक्यं स्वाभेदमाहु: कतिचन न भिदाऽस्त्येकमेवेति दृष्टे-
र्भेदादृष्ट्यैक्यमोहस्तदिति च वचनं तत्रतत्राभ्युपेतम्‍ ।
अन्ये त्वेतत्स्वसत्वं विदुरितरसमुच्चित्यवस्थातुवृत्तं
तत्पक्षेऽपि स्वरुपादधिकमिदमिह द्वित्वमोहादिसिद्धे: ॥४२॥

अन्यत्‍ गृह्वात्यभिज्ञा तदिदमिति पुन: प्रत्यभिज्ञाऽन्यदेक्यं
कालक्षेत्रादिभेदग्रहजनितभिदाभ्रान्तिशान्तिस्तत: स्यात्‍ ।
मोहस्तत्रैकताधीर्ज्वलन इव भवेत्‍ प्रत्यभिज्ञा त्वतश्चेत्‍
स्वव्याघातोऽनुमाया भ्रम इह निखिला स्यादभिज्ञाऽपि तद्वत्‍ ॥४३॥

अद्रव्येऽप्यस्ति संख्याव्यवहृतिबलतस्सा ततोऽन्या गुणादे:
मैवं संख्यासु संख्याव्यवहृतिवदियं स्यात्त्विहोपाधिसाम्यात्‍ ।
नो चेत्प्राप्ताऽनवस्थाव्यवहृत्तिनियतिस्थापनं तुल्यचर्चं
तस्मात्‍ काणाकक्लृप्तिर्गुरुमतकथकेर्युक्तमत्रापि सोढुम्‍ ॥४४॥

देशाधिक्यादिसिद्धावपुधिभिरिह तद्युक्तसंयोगभेदात्‍
देशव्यप्तिप्रभेद: परिमितिरिति चेन्नोपधीनां मितत्वात्‍ ।
देशैस्तन्न्यूनतादौ प्रसजति हि मिथस्संश्रयस्तत्स्वतस्सा
मन्तव्या क्वापि राशिप्रभृतिषु तु परं देशसंबन्धभेद: ॥४५॥

बौद्धास्तुच्छामणूनामभिदधति परिच्छित्तिमाकाशधातुं
वस्तुस्थित्या परिच्छित्त्यभवनशतस्स्यादमीषां विभुत्वम्‍ ।
अन्यत्रासत्त्वरुपा परिमितिरिति हि स्थापितं सा मृषा चेत्‍
प्राप्तं सर्वत्र सत्त्वं प्रथमसरगता स्मर्यतां व्योम्नि युक्ति: ॥४६॥

स्थूलाणुह्वस्वदीर्घेतदुपनिषदि स्थापितं ब्रह्म तस्मिन्‍
सर्वोत्कृष्टं महत्वं श्रुतमपि तदिह स्थूलतान्या निषिद्धा ।
अन्ये त्वाहुर्विभूनामपरिमितवच: प्रत्ययान्मित्यभावं
भावैकात्मन्यभावे परिमितिविरहोऽप्यत्र भावान्तरं स्यात्‍ ॥४७॥

नात्यन्ताणोर्महत्ताऽस्त्यवयविनि हते मध्यमं क्वास्तु मानं
तद्धेतुष्वेव तद्धीरपि तव घटते लाघवोत्कण्ठितस्य ।
एवं त्यक्ते महत्त्वे परममहदपि त्याज्यमेवेति चेन्न
त्यागाभावात्तदिष्टादधिकमनधिकं वाऽस्तु न क्वापि दोष: ॥४८॥

द्रव्यं कृत्त्स्नं स्वभावात्‍ परिमितिरहितं व्यापकैकत्वयुक्ते-
रौपाधिक्यंशक्लृप्तिर्घटगगननयात्स्यादवस्था ह्युपाधि: ।
स्वाभावैर्वेष्टितत्वं घट्त इह घटाद्याकृतौ द्रव्यधर्मे
पार्श्वोक्तिस्तावता स्यादिति न सदवधेरन्यथाऽप्यत्र सिद्धे ॥४९॥

अव्यक्ते स्यादणुत्वप्रभृतिपरिणति: स्तम्भकुम्भादिनीत्या
नाणुक्तं पूर्वसिद्धं नरमृगरचनाद्यप्यवस्थाक्रमेण ।
इत्युक्तं सांख्यशैवप्रभृतिसमयिभिस्तत्तथैवास्तु मा वा
नित्याणौ जीवतत्त्वे न कथमपि भवेदण्वस्थाप्रसूति: ॥५०॥

चर्चा तुल्येव भिन्नं पृथगितरदिति प्रत्यये तत्पृथक्त्वं
भेदाख्यो नीलपीतप्रभृतिरभिमत: मुधाऽन्यस्य क्लृप्ति: ।
नाप्यज्ञातावधीनां पृथगिदमिति धोर्नापि भिन्नादिवाचां
साकं क्वापि प्रयोगो न च पृथगिति चोर्द्रव्यं एवेति सिद्धम्‍ ॥५१॥

तत्त्वादोनां पटादिव्यवहृतिनियता दृष्यते काऽप्यवस्था
सा चेद्‍ द्रव्यस्वरुपं भवति विफलता कारकव्यापृतीनाम्‍ ।
तत्रासंयुक्तबुद्धि: कथमिव च भवेत्‍ स्थेर्यवादस्थितानां
नैरन्तर्यं च भावो मम तदघटितं मध्यमेवान्तरं च ॥५२॥

सर्वं द्र्व्यं सभागं न यदि कथमुपाध्यन्वयो भागत: स्यात्‍
कात्सर्न्येनोपाधियोगे कथमणुविभुनोस्सूक्ष्मतादीति जैना: ।
सामग्रीशक्तिभेदप्रजनितविविधोपाधियोगस्वभावा-
दौपाधिर्क्यंशक्लृप्ति: कथमिव न भवेद्‍ द्विष्ठसंबन्धदृष्टे: ॥५३॥

नैरन्तर्यं विभूनामपि भवति ततोऽन्योन्ययोगोऽपि योग्य:
केचित्‍, तं हेत्वभावाज्जहति विहतिकृन्नित्यधीकल्पने तत्‍ ।
स्याद्वा तत्सिद्व्यसिद्ध्योरनुमितिपटुबोधहानेर्विपक्षे
शास्त्रैरन्यद्विभु: स्यात्‍ परधृतमपृथक्सिद्धिरेवं तताऽस्य ॥५४॥

संयोगाद्विश्वसृष्टि: प्रकृतिपुरुषयोस्तादृशेस्तद्विशेषै:
ब्रह्मादिस्तम्बनिष्ठा जगति विषमता यन्त्रभेदादयश्च ।
अक्षाणामर्थयोगाद्विविधमतिरबाद्यन्वयादड्कुरादि:
शुद्धाशुद्धादियोगान्नियतमपि फलं न्यायतत्त्वे (स्य) न्यघोष: ॥५५॥

संयुक्ते द्रव्ययुग्मे सति समुपनतो यस्तु संयोगनाश:
संग्राह्योऽयं विभागव्यहृतिविषयस्सोऽपि तद्धेतुत: स्यात्‍ ।
त्वन्निर्दिष्टे विभागे गतवति च सतो: स्याद्विभक्तप्रतिति:
भूयस्संयोगसिद्धो कथमिति तु यथा त्वद्विभागान्तरादौ ॥५६॥

कोऽसौ संयोगनाशस्तव मत इति चेत्‍ सोऽयमन्यत्र योग-
स्तस्य प्राचा विरोधात्‍ स तु मिषति तथाऽऽलाचितस्त (स्य) द्विनाश: ।
अज्ञातप्राच्ययोग: परमभिमनुते सेन रुपेण चैनं
सर्वोऽप्येवं ह्यभाव: स्फुटमिह न पुन: कश्चिदन्योऽस्ति दृष्ट ॥५७॥

स्पन्दावृत्त्यादिभेदात्‍ परमपरमिति प्रत्ययो तत्तदर्थे
कालाधिक्यादिमात्रान्न खलु समधिकं शक्नुयातां विधातुम्‍ ।
दृष्टिर्नान्यस्य क्लृप्तिर्भवति गुरुतरातिप्रसड्गोऽन्यथा स्यात्‍
किं न स्यातां गुणाद्यै: परतदितरते पूर्वभावादि चान्यत्‍ ॥५८॥

द्रव्यं प्राग्‍ बुद्धिरुक्ता परमिह विषयैस्सड्गमादिर्निरुप्य-
स्संयोगं भाष्यकारा: प्रथममकथयन्न्यायतत्त्वानुसारात्‍ ।
तत्संयोगे समेऽपि स्फुरति न निखिलं तेन योग्यत्वमन्यत्‍
ग्राह्यं संबन्धसाम्ये नियतविषयता दृश्यते हिन्द्रियेषु ॥५९॥

नित्यं नित्यादिबुद्धिर्निखिलविषयिणी तद्वदेव स्वभाव:
शास्त्रे: क्षेत्रज्ञबुद्धेरपि समधिगत: कर्मभिस्तन्निरोध: ।
संकोचोल्लासयोश्च प्रतिनियतिरिह स्यादुपाधिप्रभेदा-
न्निश्शेषोपधिमोक्षे निखिलविषयतामश्नुवीत स्वभावात्‍ ॥६०॥

मुक्तानां धी: क्रमाच्चेत्‍ प्रसरति न कदा‍प्यन्तमेषाऽधिगच्छेत्‍
संक्षिप्तायाश्च दूरान्तिकपरिपतने योगपद्यं न शक्यम्‍ ।
संयोगो भूतभा (वि) व्येष्वपि न हि घटते तद्धि यस्सांप्रतिक्या
इत्याद्येर्न क्षति: स्यात्‍ श्रुतिमुखविदिते योग्यतावैभवेऽस्या: ॥६१॥

वेगस्याचिन्त्यरुपो रविशशिनयनाद्यंशुवर्गेषु भूमा
भागानन्त्येऽप्यणूनामतिपतनमतो ह्याहुरन्योन्यमेके ।
इत्थं सर्वैरबाध्यां गतिमनुवदतां मुक्तबुद्धेर्विकासे
युज्यन्ते यौगपद्यप्रभृतय इति तु श्रद्दधीध्वं श्रुतार्था: ॥६२॥

यत्सूक्ष्मं विप्रकृष्टं व्यव्यहितमपि तद्‍ गृह्नती योगिबुद्धि-
र्भूयिष्ठादृष्टलब्धातिशयकरणवृत्त्यानुगुण्येन सिद्धा ।
नष्टादिष्वक्षतो धी: कथमिति यदि न प्रत्यभिज्ञादिनीते-
श्चित्रास्संबन्धभेदा: करणविषययोस्तत्र तत्राभ्युपेता: ॥६३॥

नित्याया एव बुद्धेस्स्वयमभिदधत: केचिदद्रव्यभावं
संबन्धं धर्मतोऽस्या: कृतकमकथयन्‍ भूषणन्यायसक्ता: ।
स्वाभीष्टद्रव्यलक्ष्मस्मृतिविरहकृतं नूनमेषां तदेतत्‍
सौर्त्रं तल्लक्षणं तैरनुमतमिह च स्याद्धि कार्याश्रयत्वम्‍ ॥६४॥

प्राकट्यं नाम धर्मं कतिचन विषये बुद्धिसंबन्धजन्यं
मन्यन्ते तन्न दृष्टं व्यवहरणविधावानुगुण्यं तु भानम्‍ ।
क्वापि स्वाभाविकं स्यात्‍ क्वचन भवति धीर्गोचरत्वात्मकं तत्‍
भातीत्यादिप्रयोग: स्वदत इति नयात्तत्र कर्मंत्वगर्भ: ॥६५॥

इष्टद्विष्टप्रनष्टादिषु च परगतै: कथ्यतेऽन्यद्विशिष्टं
ज्ञातत्वोक्तावपीत्थं व्यवहृतिनियमास्तावतैवोपपन्ना: ।
प्राकट्येऽस्मिन्‍ गुणादिष्वपि कथमधिकं भूतभव्येषु च स्यात्‍
कर्मत्वं तु क्रियार्थे सति फल इति च प्रायिकव्याप्तिहाने: ॥६६॥

आधत्ते धी: क्रियात्वात्‍ किमपि गमनवत्‍ कर्मंणीत्यप्य (सारं) युक्तं
दत्तानेकोत्तरत्वान्न च फलमधिकं भाति हानादिमात्रात्‍ ।
हेतुर्धात्वर्थता चेदतिचरणमथ स्पन्दता स्यादसिद्धि-
र्धीस्वारस्यानृशंस्यादनुमतमधिकं कैश्चिदस्मत्सयूथ्यै: ॥६७॥

इच्छाद्वेषप्रयत्ना: सुखमितरदपि ज्ञानतो नातिरिक्ता
या धीस्तद्धेतुरिष्टा न तदधिकतया कल्पने कोऽपि लाभ: ।
पर्यायत्वं विशेषे न तु भवति यथा प्रत्यभिज्ञादिभेदे
नो चेदीर्ष्याभ्यसूयाभयघृतिकरुणाद्यन्यदऽन्यच्च कल्प्यम्‍ ॥६८॥

चेतस्त्रोतस्स्त्रुतीनां चिदवधिकतया चैत्तसड्केतभाजां
रागद्वेषादिकानामभिदधतु कथंभावमस्थेमभावा: ।
एतेषां हेतुसाध्यक्रमनियतिमतां सर्वंचित्साक्षिकाणां
कथ्येतातथ्यभावे कथमिव कथकद्वन्द्वयुद्धावतार: ॥६९॥

तत्रेच्छैव द्वोधोक्ता  विषयनियमतो रागविद्वेषनाम्ना
पूर्वस्तीव्रस्तु काम: पर इह भजते तादृश: क्रोधसंज्ञाम्‍ ।
एकैवेच्छा सिसृक्षा भगवत उदिता संजीहीर्षेति चान्यै-
स्तद्वल्लोके न किं स्यादधिकमिह तु चेल्कल्प्यतेऽतिप्रसक्ति: ॥७०॥

इच्छात: कार्यसिद्धौ किमिह यतनमित्यन्तरा कल्प्यतऽन्य-
त्तन्मोषत्वोपलब्धेरिति यदि यतने कल्पितेऽप्येतदेवम्‍ ।
मैवं व्यावर्तमानादनुगतमधिकं वर्ण्यते मानविद्‍ऽभि:
वाञ्छन्तोऽपि ह्ययत्ना वयमिह पवनस्पन्दनेन्दूवयादौ ॥७१॥

प्राणस्पन्दस्सुषुप्तिप्रभृतिषु घटते तादृशादृष्टमात्रात्‍
यत्त्वं यत्ने निदानं वदसि भव (तु) ति तल्लाघवात्‍ प्राणवृत्तौ ।
धीवृत्तिश्चैव यत्न: स्थित इति स कथं काष्ठकल्पे सुषुप्ते
नो चेद्‍ बाह्यानलादेर्ज्वलनमपि तत: कल्प्यतां न त्वदृष्टात्‍ ॥७२॥

स्याद्‍ दु:खाभावमात्रं सुखमभिदधतो वैपरीत्यप्रसक्ति:
स्वापादौ दु:खसिद्धिर्नं यदि सुखमपि ह्यत्र नैवास्ति तादृक्‍ ।
शीतोष्णातीतनीतेर्द्वितयसमधिकावस्थितिर्दुस्त्यजाऽत-
स्तत्तच्छब्दप्रयोगेष्वनियतिरुचितैस्संघटेतोपचारै: ॥७३॥

भेदस्त्रेषा मतीनां ह्यपधिनियमितैरानुकूल्यादिधर्मे-
स्तस्यैवात्यन्तहानेर्निरुपधिकसुखस्तादृशो धीविकास: ।
निस्सीमब्रह्मतत्त्वानुभवभवमहाह्लाददुग्धार्णवेऽस्मिन्‍
निश्शेषैश्वर्यंजीवानुभवरसभरो बिन्दुभावोपलभ्य: ॥७४॥

संसारे नास्ति किञ्चित्‍ सुखमिति कतिचित्तद्धेटेतोपचारा -
न्नो चेद्‍व्युत्पत्तिहीनं सुखपदमधिकं तत्सुखं नाभिदध्यात्‍ ।
तस्माद्‍ दु:खोत्तरत्वप्रभृतिभिरिह तद्‍दु:खमित्युक्तमाप्ते
क्ष्र्वेलोपश्लेषदुष्टे मधुनि विषमिति व्याहृति: किं न दृष्टा ॥७५॥

धर्मोऽधर्मश्च तत्तत्फलकरणतया शास्त्रसिद्धं क्रियादि-
द्वारं त्वेतस्य कालान्तरनियतफले स्यादिहादृष्टमन्यत्‍ ।
आहुस्तत्‍ केचिदन्त:करणपरिणतिं वासनां चेतसोऽन्ये
पुंधर्मं केचिदेके विभु किमपि परे पुद्‍गलांस्तत्सय़ूथ्या: ॥७६॥

तुल्ये सेवादिहेतो फलभिदुरतया साध्यते चेददृष्टं
हेतोस्सूक्ष्मोऽस्तु भेदो न खलु समुचिता धर्मिणोऽन्यस्य क्लृप्ति: ।
व्याख्यातं यत्तु बाह्यैर्विषयसमफाप्रापकत्वं क्रियाणां
तत्सूतेऽतिप्रसक्तिं तदिह न निगमादन्यतोऽदृष्टिसिद्धि: ॥७७॥

निस्संकोचान्निषेधात्‍ क्वचन्‍ फलतयाऽनूदितांहस्तु हिंसाअ
रुन्धे सामान्यभड्गे विधिरनुमितिरप्यत्र बाधादिदु:स्था ।
स्वल्पो दोषो विमृष्टे सुपरिहर इह क्रत्वनुग्राहके स्या-
दित्युक्तं सांख्यसक्तै: पशुहितवचनान्नेति शारीरकोक्तम्‍ ॥७८॥

सिध्येद्वा विश्ववृत्तेरनितरफलता स्थापनाद्यैरदृष्टं
तत्सत्ताज्ञप्तिमात्रात्तदुचितनियतानुष्ठितिर्नेव सिध्येत्‍ ।
तस्माच्चर्याविशेषे श्रुतिरिह शरणं स्वर्गमोक्षादिहेतौ
सेवादृष्टास्वरुपं  प्रथयतु बहुधा तत्तदुक्ताद्विविक्तम्‍ ॥७९॥

शक्तिर्यागादिकस्य स्वफलवितरणे संभवे वा फलस्य
स्थाप्या मध्ये तयोरित्यबहुमतिपदं सत्सु ततातिती वाक्‍ ।
शक्ताभावे हि शक्तिर्नं भवति शमितो धर्मधर्म्येक्यजल्प-
स्तद्द्वारे शक्तिशब्दो यदि भवतु परं क्लृप्तिमस्य क्षिपाम: ॥८०॥

द्वारं तत्तत्फलाप्ते: श्रुतिभिरवधृतौ देवताप्रीतिकोपौ
व्याचक्रे देवपूजा यजनमिति न तन्न श्रुतं वाक्यविद्भि: ।
आम्नातेऽपेक्षितेऽर्थे न च नयनिपुणैरश्रुतं कल्पनीयं
नो चेत्स्याद्दत्ततोयाञ्जलिरिह भवतां रात्रिसत्रादिनीति ॥८१॥

आराध्यादिप्रकाश: स्फुटमुपकुरुते मन्त्रसाध्यो विधीनां
प्राशस्त्यादिप्रतीतिर्नं च भवति मषावर्णनैरर्थवादै: ।
सत्येऽप्याकाड्क्शितेऽर्थे च भवति मूषावर्णनेरर्थवादै: ।
सत्येऽप्याकाड्क्षितेऽर्थे तदुभयगमिते वाक्यभेदादि न स्या-
ल्लोकेऽप्येवं हि दृष्टं तदनुगतिमुचां सर्वशास्त्रप्रकोप: ॥८२॥

बुद्धिर्मन्त्रार्थवादैर्भवति दृढतरा देवतातद्‍गुणादौ
बाधश्चातीन्द्रियेऽक्षैर्न हि भवति धियां मानता च स्वतो न: ।
दु:खासंभिन्नदेशादिकमिव फलदा देवता तत्रतत्र
प्राप्या च श्रूयतेऽत: कथय कथमियं शब्दमात्रादिरुपा ॥८३॥

प्राचीनेन्द्राद्यपाये दिशतु कृतफलं को नु कल्पान्तरादा-
वन्ये तत्तत्पदस्था न तदुपजनका: प्रागनाराधितत्वात्‍ ।
मेवं यस्य श्रुतिश्च स्मृतिरपि नियतादेशरुपे स एक-
स्सर्वाराध्यान्तरात्मा न हि गलितपदो नापु सुप्तस्तदाऽपि ॥८४॥

अस्त्वेवं कर्मवर्गे स्वयमिह फलदो हव्यकव्यैकभोक्ता
तन्निध्नैस्तै: किमन्तर्गडुभिरिति च न स्वोक्तिबाधप्रसक्ते: ।
कर्माराध्यत्वमेषां दिशति फलमसु पूर्वमाराधितस्तै:
श्रद्धेया: श्राद्धभोक्तृद्विजवदत इमे निर्जरास्तस्य देहा: ॥८५॥

विश्वेशाकूतभेदव्यवहितफलदे वैधघण्टापथेऽस्मिन्‍
संस्काराणां गतार्थां सरणिरपि तथा मन्त्रणप्रोक्षणाद्यै: ।
राजेच्छोपात्तभोग्यप्रभृतिनियमवत्तत्र कार्यान्तरादि-
स्सत्तादीनां गुणानां विपरिणतिभिदां तत्फलं केचिदूचु: ॥८६॥

कृष्यादौ मर्दनादावपि च न हि परप्रीतिमूला फलाप्ति-
स्तद्वत्‍ स्याच्छास्तसिद्धेष्विति न सदफलं ह्यत्र दृष्टान्तमात्रम्‍ ।
दृष्टौ चातस्समीची तदुपगतिरिह त्यक्तिरिष्टेऽपि वांशे ॥८७॥

प्रध्वस्तं कर्मं कालान्तरभवितृफलासाधकं तल्लिडादे-
र्वाच्योऽर्थं: स्थायि कार्यं न यदि कथमिबान्वेतु कामी नियोज्य: ।
तच्चापूर्वं प्रधार्न फलजनकमपि स्यान्नियोज्यप्रसिद्ध्ये
नित्ये नैष्फल्यमस्येत्यभिदधुरपरे तेऽपि निर्धूतकल्पा: ॥८८॥

कृत्युद्देश्यं सुखादि स्वत इह न परं स्यादनन्यार्थवेद्यं
क्लृप्तिश्चान्यस्य हेतोरपि च परिहृतं तत्परत्वं श्रुतीनाम्‍ ।
नित्ये चापूर्वतोऽन्यत्‍ फलमनघगिरस्सस्मरुर्दुस्त्यजं तन्नो-
चेत्‍ स्वस्मिन्नियोगायुतमपि निपुणान्नैव शक्तं नियोक्तुम्‍ ॥८९॥

व्युत्पत्तिश्चेल्लिडादे: स्वयमवगमिते स्यान्मिथस्संश्रयादि-
र्नान्यैरत्रानुभूति: स्मृतिरपि न च वस्तद्‍द्वयान्यो विमर्श: ।
अर्थांपत्त्या मिते चेन्न गुरुमतमिदं मन्यसे तत्तथा चेत्‍
कल्प्येत द्वारमात्रं तदिति न खलु तद्वाच्यभावादिकल्प्यम्‍ ॥९०॥

देवप्रीन्यादिकं वा विदितमिह विधिप्रत्ययस्यास्तु वाच्यं
नात्रान्योन्याश्रयो न श्रुतपरिहरणं नापि क्लृप्तिर्गरिष्ठा ।
प्राधान्यं स्याच्च किञ्चिन्नृपभजनयात्‍ सिद्धमेतच्च शास्त्रे-
रित्थं त्वर्थविरोधेऽप्यतिगरिमभयान्नेष्यते शब्दशक्ति: ॥९१॥

सव्यापारं विशेष्ये स्वयमभिदधते नैव शब्दा: कदाचित्‍
श्रुत्वा लिड्व्यापूतिं वा कुत इह यतनं स्वोपयोगाद्यबोधे ।
तस्मादास्माकतत्तद्यतनकृदभिधा स्वस्य वाच्या लिड्गादे-
रित्युक्तिं वह्ववद्याममनिषत बुधास्त्रस्तरीमात्ररुपाम्‍ ॥९२॥

न स्यात्‍ पुंस: प्रवृत्यै विदितमपि गिरा स्वेष्टह्तुत्वमात्रं
दुस्साधादावयोगादथ सहकुरुते साध्यतैकार्थयोग: ।
इत्थं शक्तिर्द्वये स्याद्‍गरिमहतमिदं किञ्चिदत्रार्थतश्चे-
दिष्टोपायत्वमर्थादुचितमिह तत: खण्डिता मण्डनोक्ति: ॥९३॥

धात्वर्थस्यैव रुपं किमपि हि कथयन्त्यत्र सर्वे लकारा:
कर्तृव्यपारसाध्यं त्वभिदधति विधिप्रत्ययास्तल्लिडाद्या: ।
वैघट्यं द्वारसिद्धि: प्रशमयति तथा सन्ति लोकोक्तिभेदा-
स्सिद्धं शब्दानुशशिष्ट्या त्विदमुचितमिति स्थापितं भाष्यकारै: ॥९४॥

इष्टस्वर्गादिकस्य त्वितरदपि यदा साध्यमुक्तं तदाऽर्थात्‍
सिद्धं तत्साधनत्वं सुगममिह तदाऽनर्थकत्वं निषेध्ये ।
नित्यत्वेनोपदिष्टेष्वकरणमपि तत्तुल्यमेवार्थलब्धं
सामान्यात्‍ प्राप्तमेतत्‍ फलन्यतिरपि व्यज्यते तत्तदुक्त्या ॥९५॥

सन्ति ह्यन्ये लिडर्था: कथयित्रुपुरुषाकूतभेदास्तथाऽत्रा-
प्याप्तस्याहुर्नियोगं हितमभिलषितं केऽपि भाष्याशयस्थम्‍ ।
शास्त्राज्ञाचेदनात्वं श्रुतिषु विविधपदेरन्वितत्वं नत्रोऽपि
स्वादेशे चावधूते भवति समुचित: प्रत्यवाय: स्वतन्त्रात्‍ ॥९६॥

षाड्‍गुणस्यैव कुक्षौ गुणगण इतर: श्रीसखस्येव विश्वं
षट्‍स्वन्ये ज्ञानशक्त्योर्विततय इति च व्यक्तमुक्तं हि तज्ज्ञै: ।
निस्सीमानन्दभावस्थिरचरचिदचिच्छासनप्रेरणाद्या
ऐशानज्ञानधर्मा: कतिचन नियता: केचिदागन्तवश्च ॥९७॥

हेतो कार्योपयुक्तं यदिह भवति तच्छक्तिशब्दाभिलप्यं
तच्चामुष्य स्वधर्मस्तवितरदपि वाऽपेक्षितत्वाविशेषात्‍ ।
विश्वं सर्वाद्भुतैकोदधिरगणि न सा तत्स्वरुपादिमात्रम्‍ ॥९८॥

यद्‍भ्रंशान्मन्त्ररुद्धो न दहति दहनश्शक्तिरेषाऽस्तु सोऽयं
हेतुर्मन्त्राद्यभावस्स च गत इति तद्धेत्वभावाददाह: ।
शक्तेर्नाशे किमस्या: पुनरिह जनकं वृत्तिरोधस्तु युक्तो
वह्नेरित्यादिघोषो विरमति विदिते शब्दतश्शक्तितत्वे ॥९९॥

शब्दादिष्वति शक्तिर्यदि कथमिव न द्रव्यतैषां गुणित्वे
सा चेन्नास्त्येषु कार्यं किमपि कथमित: स्यादितोदं न युक्तम्‍ ।
शक्तिश्शक्ता न वेति स्ययमवमृशत: स्वोक्तदोषप्रसड्गे
निस्तारश्चेत्स्वभावात्‍ फणिमरणमिह प्रस्तुते किं प्रवृत्तम्‍ ॥१००॥

बाह्याक्षादेरवृत्तौ चिरविदितमपि स्मर्यते येन सोऽयं
संस्कारास्तुल्यदृष्टिप्रभृतिसहकृतश्चेतसस्साह्यकारी ।
नासौ पूर्वानुभूति: कथमुपक्रुरुतां सा पुरैव प्रनष्टा
तुल्यादेर्नापि दृष्टि: कथमनवगते सा स्मृतिं नैव कुर्यात्‍ ॥१०१॥

यज्जन्यां संस्क्रियां यत्‍ किमपि नियमतो बोधयिष्यत्यदृष्टं
तत्तद्वेद्यावलम्बिस्मृतिमुपजनयेत्‍ संमतं च द्वयोस्तत्‍ ।
न ह्यन्यद्‍ दृश्यतेऽत्र क्वचन तदधिके कल्पिते गौरवं स्या-
दित्युत्प्रेक्षा न युक्ता न हि परजनिते क्वापि तत्संस्क्रियोक्ति: ॥१०२॥

बुद्धेरर्थेषु पूर्वप्रसरणजनितस्तेषु भूयोऽवगाहे
संस्कार: कारणं तद्धीप्रसरजनकृताक्लृरौचित्यहीना
धीनिष्ठेनैव तेन ह्यचितमविकृतेरात्मन: कुण्ठतादि: ॥१०३॥

शीघ्रं यातीति कर्मातिशयसमधिको दृश्यते कुत्र वेग-
स्तद्‍भेदैर्वेगभेदं कथयसि च समस्तीव्रमन्दक्रमादि: ।
तत्कर्मत्वाद्वितीते प्रथमवदुचिता तद्‍गुणोत्पन्नता चेत्‍
बाधो नास्मिन्विपक्षे गुणपरिपदि वा कर्म सत्तत्त्वत: स्यात्‍ ॥१०४॥

शाखाकोदण्डचर्मप्रभृतिषु सति चाकर्षणादो कुतश्चिद्‍
भूय: स्वस्थानयानं भवति स तु गुण: स्यात्‍ स्थितस्थापकश्चेत्‍ ।
मेवं संस्थानयानं भवतु नियतो यद्विशिष्टे तवासौ
तेन द्वौत्यं विलम्बो विरतिरपि परावर्तने जाघटीति ॥१०५॥

प्राग्देशप्रापकोऽसौ किमिति नियमितो मेदिनीमात्रनिष्ठ-
स्तोयाग्न्यादावदृष्टेरिति यदि न पृथिव्येकदेशेऽप्यदृष्टे: ।
भूम्यंशे दृश्यते तत्फलमिति यदि नाबादिभेदेऽपि साम्यात्‍
भूपृष्टम्भादिभेदादिदमिति च विपर्यासकल्पेऽप्यपायात्‍ ॥१०६॥

केचिद्‍देशान्तराप्तेर्जनिमभिदबधते कर्म वा कर्मजेष्ठा
नेत्येकेऽम्भ: प्रवाहस्थिरवपुषि झषे तत्प्रतीतेरभावात्‍ ।
खादौ स्त्रोत:प्रदेशान्तरयुतिरुदके खादिदेशान्तरराप्ति-
स्तुल्या तल्लौल्यदृष्टि: पयसि तदधिकं कर्म नालम्बते चेत्‍ ॥१०७॥

कर्मत्वान्नाक्षयोग्यं विमतमिति यदि व्याप्तिशून्यं तदेत-
द्योग्यत्वेऽपि ह्यदृष्टिस्सहकृदपगमादर्यमादिक्रियाणाम्‍ ।
नो चेत्कर्मेव न स्यात्‍ फलमपि हि भवेत्कर्महेतोस्त्वदिष्टात्‍
द्विष्ठत्पाद्वा फलस्य द्वितयमपि भवेत्कर्मवत्सर्वदा व: ॥१०८॥

केचित्कर्मादिरुपं जगदुरसमवाय्याह्युयं हेतुभेदं
किं तैरेव निमित्ताश्रयमिह जनकं नानिमित्तं विभक्तम्‍ ।
तत्प्रत्यासत्तिमात्रं व्यभिचरति यदि स्वाकक्लृप्तेऽपि तुल्यं
युक्त्या नैयत्यमत्रेत्यपि सममथवा स्वस्ति व: स्वैरवाग्भ्य:  ॥१०९॥

कर्मोत्क्षेपादिभेदात्‍ कतिचिदकथयन्‍ पञ्चधा तच्च मन्दं
दिग्भेदात्तस्य भेदे दशविधमपि तत्कल्पनं सांप्रतं स्यात्‍ ।
यत्किञ्चिद्‍भेदकाच्चेदनवधिकभिदा कर्महेतुध्रुवाच्चे-
दव्याप्तिर्बुद्धितश्चेदियमितरसमा संकरस्त्वत्र सह्य: ॥११०॥

मुत्त्स्वर्णादिप्रसूते भवति हि घटधीर्नान्यदन्यद्‍ घटत्वं
नैकं बाध्यं समत्वात्तदिह परिहृति: कुत्रचित्क्वापि योग: ।
पारापर्यं विरोध: परिहरणसमावेशनं चास्त्युपाधौ
तुल्यं चातिप्रसड्गादिकमिति न यथादृष्टभड्ग: क्वचित्स्यात्‍ ॥१११॥

जाति: प्राणप्रदात्री गुण इह तदनुप्राणिते भेद (क:) कं स्या-
दित्याहु: केऽपि नेत्यं नियतिरुभयथाऽप्यर्थदृष्टेर्निशादौ ।
तेनान्वेष्टव्यभेदप्रतिनियतिमता केनचिन्नित्यरुप्यं
प्राप्ता यादृच्छिकीषु प्रमितिषु (तु) च यथादर्शनं तव्द्यवस्था ॥११२॥

भिन्नेष्वेकावमर्शो न तु निरुपधिकस्तेषु चैक्यं विरुद्धं
ज्ञानाकारोऽपि बाह्या न हि भवति न चासिद्धमारोपणीयम्‍ ।
तस्माद्‍ गोत्वादिबुद्धिव्यवहुतिविषय: कोऽपि सत्योऽनुवृत्त-
स्तत्य त्यागेऽनुमादे: क्षतिरिति कणभुक्‍ तन्त्रभक्ता गृणन्ति ॥११३॥

मध्ये यद्यस्ति जातिमंतिविहतमथो नास्ति भिन्ना भवेत्‍ सा
तस्मादन्यत्र वृत्तिर्न च सकलमति: क्वापि कृत्सनांशवृत्त्यो: ।
धर्मिध्वंसे तु धर्मस्थितिरपि न भवेन्नात्र गत्यादि च स्या-
दित्याद्येर्बाह्यजल्पेरनितरगतिका संविदक्षोभणीया ॥११४॥

अन्यापोहस्तु गोत्वप्रभृतिरिति तु नेदंतया तत्प्रतीते-
रन्योन्यापोहबुद्या नियतिरिति मिथस्संश्रयस्तत्प्रतीतौ ।
विध्याक्षेपक्षमत्वाद्विषमसमतया बुद्धिनैयत्यसिद्धे-
श्शब्दार्थत्वादपोहो विमतिपदमिति व्याप्तिभड्गादि:दुस्थम्‍ ॥११५॥

युज्येतोपाधितश्चेनुगतधिषणा तत्र नेष्टाऽन्यक्लृप्ति-
स्तस्मात्‍ संघातवर्गेष्ववयवरचनाभेद्तो‍ऽन्यत्र सिध्येत्‍ ।
सौसादृश्यात्तु जातिव्यवहृतिनियमस्तेन नातिप्रसवक्ति-
र्नो चेत्मूर्तत्वमुख्येस्त्वदभिमतिनयाव्द्यज्यतां जातिरन्या ॥११६॥


जातेर्यव्द्यञ्जकं ते तदपि यदि मतिं जातितस्संगृहीतं
साऽपि व्यड्गयान्यतस्स्यात्तदुपरि च भवेज्जातिसंस्थानमाला ।
स्वेनैव व्यञ्जकस्याप्यनुगतिरिति चेत्तर्हि जाति: किमर्था
व्यावृत्तानां स्वभावाद्यदि तदनुगतव्यञ्जकत्वं जितस्त्वम्‍ ॥११७॥

व्यावृत्तेर्व्यक्तिवन्न व्यवहृतिनियमस्साध्यता नानुवृत्तौ
तद्धर्मस्यानुवृत्तौ तदभिमतमिह स्वीक्रियेतेति चेन्न ।
केचित्संस्थानभेदा: क्वचन खलु मिथो भान्ति सादृश्यरुपा-
स्तस्मादन्योन्यजेकस्मृतिविषयतया तत्तदेकावमर्श: ॥११८॥

सादृश्यस्यानुवृत्तौ भवति परमता जातिरेवान्यथा चे-
त्तन्मूला नानुवृत्तव्यवह्रुतिरुचितेत्येतदप्यात्तसारम्‍ ।
एकैकस्थं तु तैस्तैर्निरुपधिनियतैस्सप्रतिद्वन्द्विकं स्यात्‍
धर्माभावप्रतीतिप्रभृतिनियमवद्‍ दुस्स्यजेयं व्यवस्था ॥११९॥

सादृश्यं शक्तिसंख्याप्रभृति च कतिचिद्‍भिन्नमूचुर्गुणादे:
स्यादत्रातिप्रसक्ति: प्रतिगुणमगुणीकारलिड्गोपलब्धे: ।
साधर्म्यात्‍ संग्रहश्चेत्‍ सममिदमुभर्योयेन केनापि यद्वा
किं दन्तादन्ति कृत्वा फलमिह बलिभुग्दन्तचिन्तान्तरेऽस्मिन्‍ ॥१२०॥

गन्धादौ सन्निदेशो न हि भवति न च द्रव्यभेदे निरंशे
तस्माज्जात्याऽनुवृत्तव्यवहृतिरिति चेदुक्ततुल्योत्तरं तत्‍ ।
तत्तद्वस्तुस्वभावाद्‍ घटत इह मिथस्सप्रतिद्वन्द्विकत्वं
तज्जात्याधारतादेरपि तव नियतिस्तत्र न ह्यनत: स्यात्‍ ॥१२१॥

सत्तासामान्यमेके त्रिषु परिजगृहु: केऽपि जातावपीदं
प्रख्यादीनां समत्वात्कथय न किमिदं सर्वनिष्ठं गृहीतम्‍ ।
किञ्च प्रामाणिकत्वप्रभृतिसमधिकं सत्वमन्यत्र दृष्टं
तद्‍ब्रह्मेत्याश्रितं येर्ध्रुवमपलपितं तत्तृ तैर्धर्मतोक्ते: ॥१२२॥

यज्जातीयं यदा यद्यदवधि गुणकं यत्र न ह्यन्यदीदृक्‍
दृष्टेरित्यं विशेषैर्जगति विषमतां वक्ति वैशेषिकोऽपि ।
नित्येष्वत्यन्ततुल्येष्वपि नियतदशाभेदयोगोऽस्ति शास्त्रात्‍
प्राच्योपाध्यादयो वा विदुरतिभिदुरान्‍ योगिवर्यादयस्तान्‍ ॥१२३॥

मुक्तास्त्वत्पक्षक्लृप्ता न हि निगम (दृशां) विदां तादृशाण्वादयो वा
येषामन्योन्यभेदो गजतुरगनयात्कल्प्यतेऽन्य विशेष: ।
जात्यैक्याद्व: पृथक्त्वैरिह न यदि फलं स्याद्विशेषै: कथं तत्‍
तेषामप्यस्त्युपाधिस्सम इति न भिदाऽस्त्यत्र संरम्भमात्रात्‍ ॥१२४॥

नास्मद्‍दृश्या विशेषा: प्रणिहितमनसां तद्वियां क्वोपयोग-
स्तत्तद्वस्तुप्रकाशस्सुलभ इह पुनर्भिन्नधीरस्तु मा वा ।
वि (श्व) श्वं स्त्रष्टुर्विशिष्टप्रमितिमिह न ते कुर्वते नित्यसिद्धां
तस्मात्तत्सिद्ध्यसिध्योर्न फलमनुमया नागमोऽप्यत्र तादृक्‍ ॥१२५॥

बन्धं नाध्यक्षयामस्समधिकमपृथक्सिद्धयोस्तत्स्वरुपात्‍
कल्प्ये तस्यातिरेके तदुपरि च तथेत्यप्रकम्याऽनवस्था ।
ताभ्यामेष स्वभावाद्धटित इति कृता भक्तिरस्त्वेतयोस्ते
नो चेत्‍ ज्ञानादिकानां विषयविषयिताद्यापतेदन्यदेवम्‍ ॥१२६॥

सम्बन्धे सर्वतुल्ये प्रसजति गुणजात्यादिसड्कीर्णभाव:
तत्तद्‍द्वस्वभावादनियतिशमने निष्फलाऽन्यस्य क्लृप्ति: ।
त्यक्ते तत्तद्विशेषे स्वयमुभयस मे चात्र संबन्धरुपे
नानासम्बन्धपक्षेऽप्ययमधिकरणाधेयभेद: कथं स्यात्‍ ॥१२७॥

धर्मो धर्मो द्वयं वा कृतकमभिमतं यत्र सम्बन्धमत्र
प्राहु: कार्यं स्वभावात्तदुभयघटितं केऽपि दत्तोत्तरं तत्‍ ।
सिद्धेऽसिद्धे समं वा तदुदय इति तु प्रेक्ष्य प्रक्षत्रयेऽपि
प्रागुक्तेभ्योऽतिरिक्तान्‍ प्रणिहितमनस: पश्यत प्रत्यवायान्‍ ॥१२८॥

सोऽभावो यु: स्वभावं नियमयति दशादेशकालादिभेदो
नैवं सर्वाश्रितानां त्यजनमनितरस्थ्याप्यधीप्रातिपत्वात्‍ ।
तत्तत्प्रत्यर्थिभावस्फुरणसहकृतो नञ् प्रयोगक्षमोऽसौ
नाभावानामभावं स्वमपि कलयसे भावभेदादितोऽन्यम्‍ ॥१२९॥

प्रध्वंसप्रागभावो द्वितनुरभिमत: प्रागभावात्ययश्च
प्रागूर्ध्वानाद्यनन्तप्रतिनियतदशासन्तति: स्यात्तथा न: ।
क्लृप्तेऽन्यस्मिन्नभावे परमपि च(पु)पराभावपारम्परीत-
स्संपद्येतानवस्था स्वत उपरमणं दृष्ट एवास्त्वभीष्टे ॥१३०॥

द्रव्येष्वेव ह्यवस्था क्रमत उपनता जन्मभड्गादिरुपा
नावस्थानामवस्थान्वय इति न भवेत्‍ कार्यतादीति चेन्न ।
ता एवान्योन्यवैरव्यतिभिदुरतयाऽन्योन्यनाशादिरुपा-
श्चिन्त्यो जमादिषट्‍कव्यहृतिविषयस्तत्तदर्थे यथार्हम्‍ ॥१३१॥

नाभाव: कारणानां कथमपि विषयो नि:स्वभावत्वयुक्ते:
नाशोऽप्यस्यानपेक्ष्य: स्वयमसत इति प्रागभावादि नित्यम्‍ ।
स्वाभावग्रस्तमेतन्निखिलमपि जगन्नि:स्वभावं तत: स्यात्‍
मैवं भावान्तरात्मन्यधिकवपुषि वा तत्स्वभावत्वदृष्टे: ॥१३२॥

एतावन्त: पदार्था न तु पर इति तत्सिद्धयसिद्ध्योरयुक्तं
मैवं योऽस्त्येष सिद्धान्त पर इति वचस्येष दोषो न तु स्यात्‍ ।
सत्येव स्यात्तवापि ह्याधिकमनधिकं वेति शड्कावकाशो
नैवं चेन्नैव शड्का न च परिहरणं भित्तिलाभे हि चित्रम्‍ ॥१३३॥

इत्यं श्रीवेड्कटेश: श्रुतममत जगन्मूलकन्दं मुकुन्दं
विस्तारो यस्य विश्वं मुनिभिरभिदधे विस्तरो वाड्मयं च ।
यन्नास्मिन्‍ क्वापि नैतत्‍ क्षममिह कुहकैरिन्द्रजालं न तैस्ते-
रेकं तत्सर्वसिद्ध्ये कलयत हृदये तत्त्वमुक्ताकलापम्‍ ॥१३४॥

निश्शेषां वस्तुवृत्तिं निपुणमिह मया न्यनस्ता क्वापि कोणे
यत्रोदासि द्विधा वा समगणि गहने सम्मते सन्मतीनाम्‍ ।
निष्कष्टुं कश्चिदन्य: प्रभुरिह भगवल्लक्ष्मणाचार्यंमुद्रा-
मक्षुद्राचार्यशिक्षाशतगुणितमतेरप्रमत्तान्न मत्त: ॥१३५॥

दृष्टेऽपह्नु त्यभावादनुमितिविषये लाघवस्यानुरोधा-
च्छास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात्‍ ।
नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धै:
त्रातं सम्यग्यतीन्द्रैरिदमखिलतम: कर्शनं दर्शनं न: ॥१३६॥

हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोष-
क्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पड्क्तिरस्मदुगुरुणाम्‍ ।
दिक्सौषाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्त-
त्सिद्धान्तास्तोम्मतूलस्तबकविगमनव्यक्तसद्वर्तनीका ॥१३७॥

अध्यक्षं यच्छु तं वा लघु भवति तदित्यादिमो वादिमोह-
स्तत्तोदर्कां न तर्कास्तदिह जगति किं मेधया साधयामा ।
तिष्ठत्वेतल्लधिष्ठा: कतिचन दधतो मानसे मानसेतुं
हंहो सभ्यानसभ्यस्थपुट्मुखपुटा दुर्जना निर्जयन्ति ॥१३८॥

स्यादित्थं शिक्षितार्थो य इह यतिपतिच्छात्रहस्ताग्रहनृत्य-
न्नाराचन्यासरेखासहचरितमतिस्सर्वंतन्त्रस्वतन्त्र:
शुष्कोपन्यासशिक्षापटिमकटुरत (द्भण्ड) द्वैरिविद्वत्करोटी-
कुट्टाकक्रीडमष्टापदकटकमसौ वामपादे बिभर्तु ॥१३९॥

गाथा ताथागतानां गलति गमनिका कापिलो क्वापि लीना
क्षीणा काणादवाणी द्रुहिणहरगिरस्सौरभं नारभन्ते ।
क्षामा कौमारिलोक्तिर्जंगति गुरुमतं गौरवाद्‍ दूरवान्तं
का शड्का शड्करादेर्भजति यतिपतो भद्रवेदीं त्रिवेदीम्‍ ॥१४०॥

॥ समाप्तश्चायं तत्त्वमुक्ताकलाप: ॥
शुभमस्तु

N/A

References : N/A
Last Updated : January 24, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP