संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|तत्वमुक्ताकलापे| जडद्रव्यसर: तत्वमुक्ताकलापे जडद्रव्यसर: जोवसर: नायकसर: बुद्धिसर: अद्रव्यसर: तत्वमुक्ताकलापे - जडद्रव्यसर: वेदान्त देशिक उर्फ वेंकटनाथ (१२६८-१३७०) हे वैष्णव गुरू, कवि, भक्त, दार्शनिक आणि आचार्य सुद्धां होते. Tags : sanskritvedant deshikवेदान्त देशिकसंस्कृत जडद्रव्यसर: Translation - भाषांतर लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेव संवर्धमानो नाभीनालीकरि (ड्ग) ह्णन्मधुकरपटलीदत्तहस्तावलम्ब: ।अस्माकं संपदोधानविरलतुलसीदामसञ्जात भूमा कालिन्दी कान्तिहारी कलयतु वपुष: कालिमा कैटभारे: ॥१॥नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पोत्रो विततमखविधे: पुण्डरीकाक्षसूरे: ।श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्वमुक्ताकलापं व्यातानीद्वेड्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ॥२॥प्रज्ञासूच्याऽनुविद्ध: क्षतिमनधिगत: कर्कशात्तर्कशाणाच्छुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्ध: ।आतन्वान: प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो धार्यो हेतुर्जयादे: स्वहृदि सहृदर्यस्तत्वमुक्ताकलाप: ॥३॥शिष्टा जीवेसह्तत्वप्रमितियुतपरोपासनामुक्तिहेतु: शक्यस्तत्तत्प्रकारावगतिविरहिभिर्नेव याथात्म्यबोध: ।ते ते चार्था विदध्यु: कुमतिविरचितास्तत्त्वबोधोपरोधं तस्मान्निर्धूतसर्वंप्रतिमतविमतिं साधये सर्वमर्थम् ॥४॥आवापोद्वापतस्स्यु: कतिकति कविधीचित्रवत्तत्तदर्थे-ष्वानन्त्यादस्तिनास्त्योरनवधिकुहनायुक्तिकान्ता: कृतान्ता: ।तत्त्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान् पुस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादि: ॥५॥द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्वमाह-र्द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ ।अन्त्यं प्रत्यक् पराक् च प्रथममुभयधा तत्र जीवेशभेदा-न्नित्या भूतिर्मतिश्चेत्यपरमिह जडामादिनां केचिदाहु: ॥६॥तत्र द्रव्यं दशावत्प्रकृतिरिह गुणैस्सत्वपूर्वेरुपेता कालोऽब्दाद्याकृतिस्स्यादणुरवगतिमान् जीव ईशोऽन्य आत्मा ।संप्रोक्ता नित्यभूमिस्त्रिगुणसमधिका सत्तयुक्ता तथैव ज्ञातुज्ञेयावभासो मतिरिति कथितं संग्रहाद् दव्यलक्ष्म ॥७॥एकार्थंप्रत्यभिज्ञा भवति दृढतरा दर्शनस्पर्शनाभ्यां संघातादेरयोगादवगमयति सा वस्तुरुपादतोऽन्यत् ।एकस्मिन् दूरतादेरविशदविशदप्रत्यभिज्ञादि तद्वत् नैकत्वेऽप्यक्षभेदाद्भिदुरमिव मिथस्संश्रयादिप्रसड्गात् ॥८॥धर्मो निर्धर्मकश्चितत्कथमिव भाविता सोऽभिलापादियोग्यो धर्मेणान्येन योगे स च भवति तथेत्यव्यवस्थेति चेन्न ।कश्चिद्धर्मोऽपि धर्मो स्फुटमतिमथने स्वान्यनिर्वाहकत्वं तन्निष्कर्षप्रयोगेष्वपि भवति पुनस्तस्य धर्मी विशेष: ॥९॥तच्छून्ये तस्य वृत्ति: कथमिव घटते तद्विशिष्टे तु वृत्तौ स्वाधारत्वप्रसड्गस्तत इह न गुणो नापि धर्मीत्ययुक्तम् ।तद्वत्तिधर्मर्मिमात्रे न भवति तत एवास्य तच्छून्यताऽतो नोक्तो दोषो स्वधीवाग्विहतिरितरथा तद्वदन्येऽपि जल्पा: ॥१०॥स्वच्छन्देनागमेन प्रकृतिमहृदहड्कारमात्राक्षसिद्धि-र्नाध्यक्षेणाप्रतीतेनं पुनरनुमया व्याप्तिलिड्गाद्यसिद्धे: ।सत्त्वाद्युन्मेषभिन्नान्महत इह तथा स्यादहड्कारभेद: प्राच्यादक्षाणि मात्रा: प्रजनयति परो मध्यमस्तूभयार्थ: ॥११॥तत्राहड्कारजन्यं भजति परिणतै: शब्दमात्रं नभस्त्वं तद्वत्तन्मात्रपूर्वास्तदुपरि मरुदग्न्यम्बुभूम्य: क्रमात्स्यु: ।सूक्ष्मस्थूलस्वभावस्वगुणसमुदयप्रक्रियातारतम्यात् तन्मात्राभूतभेद: कललदधिनयात् कल्पितस्तत्त्वविद्भि: ॥१२॥अद्भयोऽग्निस्तेजसस्ता इति न हि वचसोर्बांधितुं युक्तमेकं निर्वाह: कल्पभेदाद्यदि न दृढमितात्तत्वसृष्टयैकरुप्यात् ।व्यष्टो ताभ्य: कदाचित्तदुपजनिरतो व्यत्ययस्तत्समष्टौ आदावप्सृष्टिवादश्श्रुतिमितमितरन्न प्रतिक्षेप्तुमीष्टे ॥१३॥पृथ्व्यास्स्पर्शादिभेदो द्रवमृदुकठिनीभावभेदश्च दृष्ट-स्तद्वत्पृथ्वीजलाग्निश्वसनपरिणतिर्लाघवायेति जैना: ।तत्र द्रव्यैक्यमिष्टं क्रमजनिविलयौ त्वागमादप्रकम्यौ तर्कैकालम्बिगोष्ठ्यां भजतु बहुर्मात तादृशी लाघवोक्ति: ॥१४॥तत्त्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिता: षोडशान्ये विकारा निष्कर्षेदंपरेऽस्मिन् वचसि तदितरत्सर्वमावर्जनीयम् ।दृष्टवा सांख्यं पुराणादिकमपि बहुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छ्रमबहुलयाऽप्यत्र तज्ज्ञैरुदासि ॥१५॥निश्शेषं कार्यतत्वं जनयति स परो हेतुतत्वैश्शरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरुप: ।तेजोबन्नाभिधेये बहुभवनमभिध्यानलिड्गं च दृष्टंतस्मादोशाननिघ्ना: प्रकृतिविकृतयस्स्वस्वकार्यप्रसूतौ ॥१६॥द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा तैरेकैकस्य भार्ग: परमनुकलयत्यर्धमर्धं चतुर्भि: ।हृत्थं पञ्चीकृतैस्तैर्जनयति स जगद्धेतुरण्डादिकार्या-ण्यैदंपर्यं त्रिवृत्त्वश्रुतिरधिकगिरामक्षमैका नोरुद्धुम् ॥१७॥कार्यं नैवारभेरन्समधिकमणवस्सर्वतस्संप्रयुक्ता दिवसंयोगैकदेश्यान्न घटत इह ते दिक्कृतोऽप्यंशभेद: ।बुद्धेस्त्वंशानपेक्षा स्फुरति विषयिता विश्रमस्त्वस्तु दृष्टे नो चेदारम्भकांशप्रभृतिषु नियता दुर्निवारा: प्रसड्गा: ॥१८॥स्याद्भागानन्त्यसाम्ये परिमितिसमता सर्षपक्ष्माभृतोश्च-न्मैवं भागेष्वनन्तेष्वपि समधिकता स्थौल्यहेतुर्गिरे: स्यात् ।व्यक्त्यानन्त्येऽपि जात्यो: परतदितरता पक्षमासाद्यनन्तं श्रौतोपादनसौक्ष्म्यं न भवदभिमतं तत्प्रथिम्नश्श्रुतत्वात् ॥१९॥कार्योपादानभेदे न कथमधिकर्ता गौरवादेस्स्वकार्यं नान्यत्वं नामसंख्याव्यवहृतिधिषणाकारकालादिभेदै: ।द्रव्याभेदेऽप्यवस्थान्तरत इह तु ते पत्रताटड्कवत्स्यु: नोचेदंशांशिनोस्स्यात्प्रतिहतिरुभयो: स्पर्शवत्वाविशेषात् ॥२०॥इत्थ वृत्त्यादिखेदो न भवति च न: कल्पनागौरव स्या-द्वत्रे दीर्षेकतन्तुभ्रमणविरचिते वस्त्रधीर्नापि बाध्या ।देशाधिक्यं समेतेष्वणुषु न हि तत: स्थूलधीबाधशड्का संसर्गादेर्विशेषादवयविपरिषद्राशिवन्यादिवाद: ॥२१॥द्रव्यैक्यं प्रत्यभिज्ञा प्रथयति परिमित्यन्तरेऽन्याप्रतीते-रंशूत्कर्षक्षयादिक्षममपि च ततो राशिवत्स्थूलमेकम् ।नो चेदश्रान्तचण्डानिलजलधिधुनीदन्तिदावानलाद्यै: क्षोणीयं क्षुद्यमाना क्षणमपि चरमामण्ववस्थां न जह्यात् ॥२२॥संघातोऽनेकभूतैरपि भवति यया ह्येकभूतस्य भागै-र्देहादि: पञ्चभूतात्मक इति निगमाद्युक्तिमिश्च प्रसिद्धम् ।न त्वेवं संकर: स्याद्ववह्यतिनियमस्सूत्रितस्तारतम्या-हेहादौ येन भूतान्तरयुजि भवतो भौमतादिव्यवस्था ॥२३॥सन्ति प्रागप्यवस्थास्सदितरकरणाप्राप्तनिष्पत्तदृष्टे: तस्मिन्सत्येव तस्माज्जनिरपि नियता तन्निमित्तादिनीते-र्व्यक्तिर्व्यक्ताऽनवस्थां भजति न च कृतामात्य नैवं कृतौ न: ॥२४॥वस्तुस्थैर्यं विरुद्धानुपहितविषया साधयेत् प्रत्यभिज्ञा नैकस्मिञ् शक्त्यशक्ती कृतितदितरयो: साह्यभेदेन सिद्धे: ।एकस्मिन् कालभेदाद्भवति च सहकार्यंन्वयानन्वयादि-र्नोचेत्रो देशभेदादपि सुपरिहरस्तेन नैकं क्वचित्स्यात् ॥२५॥तत्त्वेदंत्वे हि कालान्तरघटनमये नैककाले घटेतांकालद्वैतेऽनवस्थाद्यत इह न मिति; प्रत्यभिज्ञेति चेत्र ।स्वस्य स्वाभावकाले विहतिनियमनास्त्वेन चात्रैककाल्यात् काले कालानपेक्षे कथमपि सुवचौ नानवस्थाविरोधौ ॥२६॥प्रथक्षम् वर्तमानं प्रथयति यदिहावर्तमानाद्विभक्तं तस्मात्तेनैव सिद्धं क्षणिकमिति न सत्तावदित्यप्रतीते: ।तत्कालासत्त्वमेव ह्यपनयति सतो वर्तंनानत्वबोध: कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसड्ग: ॥२७॥उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने जन्मन्येवोपरोधात्क्षणिकमिह जगत्सर्वमित्यप्यसारम् ।लिड्गं ह्येष्यत्त्वमात्रं जननविधुरता तत्क्षणानुक्षणत्वे तत्त्वं तज्जन्यता वा तदिदमनियमासिद्धिबाधादिदूष्यम् ॥२८॥कालानन्तर्यसाम्ये क्षणिकवपुषि ते देशकालाद्युपाधौ सर्वे पूर्वे भवेयुस्तदुपरि भवतां कारणानि क्षणानाम् ।सन्तानैक्यव्यवस्था निजफलनियतिर्वासनानां च न स्यात् कार्पासे रक्ततादिक्रमविपरिणत्संस्कृतद्रव्यतस्स्यात् ॥२९॥मेयत्वाद्यैर्विगीतं क्षणिकमिह जगत्स्यात्क्षणोपाधिवच्चेद् बाधो दृष्टान्तहानि: स्थिर इति विदितो यत्क्षणस्याप्युपाधि: ।सामग्री कार्यशून्या क्षण इयमपि तद्धेनुसंधो न चासौ हेतुर्नान्य: स्थिरास्ते क्रमवदुपधिवत्स्यात्क्षणत्वं स्थिरेऽपि ॥३०॥दीपादीनां कदाचित्सदूशाशेषसन्तत्यपेते ध्वंसे दृष्टेऽप्यशक्या तदितरविषयेऽनन्वयध्वंसक्लृप्ति: ।बाधादेर्दर्शिंतत्वादपि च दृढमिते सान्वयेऽस्मिन्घटादौ दुर्दर्शावस्थया स्यु: पयसि लवणवल्लीनदीपादिभागा: ॥३१॥सत्त्वेऽसत्त्वेऽपि पूर्वं किमपि गगनतत्पुष्पवन्नैव साध्यंहेतुप्राप्तिनं पश्चाद्भवितुरघटितोत्पादनेऽतिप्रसड्ग: ।जन्यं जन्मान्यथा वा द्वयमसदनवस्थानकार्यंक्षतिभ्या-मित्याद्यैर्हेतुसाध्यं न किमपि यदि न स्वक्रियादेर्विरोधात् ॥१२॥कादाचित्कस्य कालावधिनियतिकरं पूर्वसत्कारणं स्यात् भावोपष्टम्भशून्यो न खलु तदवधि प्रागभावोऽपि कुर्यात् ।कार्यं निर्हेतुकं चेत्कथमिव न भवेन्नित्यता तुच्छता वाकादाचित्कस्वभावाद्यदि न नियमनादन्यथाऽतिप्रसड्गात् ॥३३॥नेत्रोदेर्दीपिकादेरिव नियमयुतं तैजसत्वादिसाध्येरुपादिग्राहकत्वं यदि करणतया स्यादसाधारणत्वम् ।तत्साहाय्यं त्वसिद्धं भवति गमकतामात्रामप्यञ्जनादा-वक्षाहड्कारिकत्वं श्रुतिपथनिपुणैर्घोषितं नैव बाध्यम् ॥३४॥तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति किंतु प्रवेशं नो चेत्पृथ्व्यादिवाक्येष्विव हि लयपदं व्योम्नि चाक्षेषु च स्यात् ।भूतैराप्यायितत्वात्ववचिदुपचारिता भौतिकत्वोक्तिरेषा-मन्नाप्तेजोमयत्वं श्रुतिरपि हि मन:प्राणवाचामुवाच ॥३५॥रुपादिज्ञानसिद्धौ यदि करनतया कल्पनं धीन्दियाणांतद्वद्गत्यादिकर्मंस्वपि करणतया सन्तु कर्मेन्द्रियाणि ।कर्मंज्ञानाक्षहेत्वोस्समपरिहरणा ह्यन्यथासिद्धिशड्खा तस्मादेकादशाक्षाण्यपि निगमविदो मन्वते न्यायपूर्वम् ॥३६॥सांख्यैस्त्रेधोक्तमन्त:करणमिह मनोबुद्ध्यड्कारभेदा-च्चितं चान्ये चतुर्थं विदुरुभयमसत्तादशश्रुत्यभावात् ।तत्तत्तत्त्वोक्तिमात्रं न हि करणभिदामाह क्लृप्तिस्तु गुर्वी बुद्ध्याद्याख्या निरुढा क्वचिदिह मनसो वृत्तिवैचित्र्य (मात्रा) योगात् ॥३७॥एकं तत्तत्प्रदेशप्रतिनियततया शक्तिभेदं प्रपन्नंदेहव्यापीन्द्रियं चत्प्रथममिह भवेदागमेनैव बाध: ।नो चेत्स्याद्देहभेदप्रतिनियततया सर्वंजन्तोस्तदेकं भेदाम्रानादक्लृप्तेरपि न च भजते देह एवेन्द्रियत्वम् ॥३८॥सूक्ष्माण्य़ेकादशाक्षांण्यपि न यदि कथं देहतो निष्कमादि-श्चितानुत्वे तु सर्वेन्द्रियसमुदयने धीक्रमोऽप्यस्तु मानम् ।वृत्त्याऽक्ष्यादेर्दवीय: प्रमितिजनकता वृत्तिराप्यायनार्थे: भूतैजति: प्रसर्प: श्रुतिमितमपि चानन्त्यमेषां स्वकार्ये ॥३९॥प्राप्यग्राहीन्द्रियत्वाद्विमतमितरवत्प्राप्तिरुक्तप्रकारा वृत्तिं दृष्टेर्निरुन्धे विरलपटनयादम्बुकाचादिरच्छ: ।नो चेद्गृह्येत योग्यं सममिह निखिलं निष्फले छादकादौ स्थैर्ये तद्योग्यभावो न हि गलति समा सन्ततिस्त्वन्मतेऽपि ॥४०॥शब्दं गृह्याति दूराभ्युदितमपि बहिस्सन्तता श्रोत्रवृत्ति-र्दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधानात् ।इत्येकेऽन्ये तु दूरान्तिकगगजनताशब्दधीकालभेदात् श्रोत्रायातस्य तस्य ग्रहमनुमितिपप्याहुरस्मिन्दिगादे: ॥४१॥प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षु षैवास्मदादे: कूपोऽसौ रन्ध्रमेतत्पतति खग इहेत्यादिधीश्चात्र मानम् ।आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहिति बोधस्तस्यांशैश्चेतु त्र्यणौ तच्छिथिलगति न च व्योमवागातपादौ ॥४२॥रुपस्पर्शोज्झित्वान्न भवति गगनं दर्शनस्पर्शनार्हं घ्राणश्रीत्रे रसज्ञाऽप्यवगमयति न द्रव्यमन्यत्त्वबाह्यम् ।तस्मान्नाध्यक्षवेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात् पञ्चीकारेण नैल्यं पटमलिनिमवद्भाषितं वोपकुर्यात् ॥४३॥शब्दस्याधारभूतं कथमपि गगनं शक्यते नानुमातुं स्वेच्छात: पारिशेष्यक्रम इह कथितोऽतिप्रसड्गादिदु:स्थ: ।निष्क्रान्त्यादेनं तद्धीस्सति नभसि यतो नास्ति कुड्यादिकेऽसौरोधस्स्वावारकैश्चत्तदभवनवशान्निष्क्रमादिश्च सिध्येत् ॥४४॥यत्त्वाकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र याऽसा-वन्योन्यं स्पर्शभाजां विहतिरिह न सा प्राच्यतत्त्वेष्विव स्यात् ।इत्यैदंपर्यमूह्य न यदि कथमिवान्येषु लभ्योऽवकाश: सिद्धादे: स्वप्रभावाज्जल इव कथितो युज्यते मज्जनादि: ॥४५॥सद्रूपेणैव भानान्न भवति वरणाभावमात्रं विहाय: संसर्गाभावमात्रं न च भवति यतो नास्ति संसर्गिबोध: ।अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्यु-स्तादात्म्याभावसिद्धि: कथ (मिव) मपि च भवेत्तंतमर्थं विहाय ॥४६॥नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यद्यै: प्रसाध्यं क: स्याद्वाधो विपक्षे कथमिव निगमे बाधकेऽत्रानुमा स्यात् ।बाधस्सामान्यदृष्ट्या श्रुतिसमधिगते नैव कुत्रापि शक्य-स्तेनामूर्तत्वलिड्गान्न सृजति विमतो मूर्तमित्याद्यपास्तम् ॥४७॥प्राकप्रात्यक्त्वादिभेदं भजतु वियदिदं भानुयोगादिभेदा-दर्स्यवोपाधिभेदादधिकदिश इव स्तां परत्वापरत्वे ।व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपाध्यन्वितैस्तत्तदर्थे-र्दूरत्वादिव्यवस्था स्वयमुत विभूना ब्रह्मणा किं परैर्न: ॥४८॥अन्यस्मिन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्ति:सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिक्लृप्ते: ।एवं ह्येवाधिंकायामपि दिशि भवतोऽतिप्रसड्गो निषेध्यो धर्मी धर्मश्च कल्प्यौ तव तदितरता स्यात्तु काले स्वमानात् ॥४९॥संख्यानं तत्त्वपड्क्तौ क्वचिदपि न दिश: कालबद्वा न भेद: कण्ठोक्तो व्याक्रियादिव्यवहरणमपि ह्यन्यर्थवोपपन्नम् ।श्रोत्रादुक्तस्तु लोकप्रभृतिवदुदयस्तस्य तत्राप्ययो वा नैतावत्तत्वभेदं गमयति न च तच्छ्रौत्रतामान्यपर्यात् ॥५०॥वातो वातीति साक्षान्मतिरितरसमा स्पर्शतो नानुमाऽसा-वन्धेऽन्येषु प्रसड्गान्न पुनरगमकं स्पर्शनं रुपशून्ये ।अन्याक्षग्राह्यतादृग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम् ॥५१॥संख्याद्यास्स्पर्शनास्स्युस्तदधिकरणकास्स्पर्शने गन्धवाहे तेषां द्रव्योपलम्लप्रतिनियतनिजाध्यक्षयोग्यत्वतश्च तु ।इ(ष्टंत्वं) ष्टस्त्वंशेन चात्मप्रभृतिषु सहते तै: प्रसिद्धयन्ति सर्वेतद्बाह्य व्याप्तिरिष्टा यांद सततगतेरप्यसावस्तु बाह्ये ॥५२॥न प्राणो वायुमात्रं सह परिपठनात्र क्रिया द्रव्यतोक्ते-स्तेजोवद्वा न तत्त्वान्तरमगणनतो वायुतानुज्झनाच्च ।तस्माद्वातो विशेषं घनजलकरकान्यायत: प्राप्य कंचि-द्देहान्तर्दाशविष्यं भजति बहुविधोपक्रियो वृत्तिभेदै: ॥५३॥प्राणोऽक्षं प्राणशब्दादुपकरणतया न च प्राणताऽक्षेषु मुख्या ।देहस्यानक्षभावेऽप्युपकृतिरधिका तत्समाक्षोवत्यदृष्टि-नं प्राणे सात्विकाहकरणविकृतितार्लक्षणं तद्धि तेषाम् ॥५४॥प्राणापानाख्यभस्त्रारभसविसृमर: प्राप्य वैश्वानराख्यांमध्येदेहं हुताशो वसति जलनिधावौर्ववत्सर्वभक्ष: ।तत्तद्विद्यासु वे (द्यस्त्वन) द्यं त्वन इव हि परज्योतिष: सोऽपि रुपंनात्मानौ तो जडत्वाज्जनिविलयमुखैर्भेदकण्ठोक्तिभिश्च ॥५॥धर्मो भाति प्रभैका बहलविरलताद्यत्र दृष्टानुसारात् सा दोषांशा विशीर्णा इति यदि बहुधा कल्पनागौरवादि ।रत्नादीनां स्थिराणां विशरणविहतेर्निष्प्रभत्वादि च स्यात् तेजस्तप्रभाकं तिमिरहरतया साऽपि तेजोविशेष: ॥५६॥भाष्ये भास्वत्प्रभादौ प्रतिहतिबहलीभावपूर्वं यदुक्तं तेन स्त्रोतस्समाधि परमतनयत: प्राहुरेके प्रभायाम् ।वस्तुन्यस्ते विकल्पे स्फुटविघटनयोर्वक्तुराप्तस्य वाचो-स्तात्पर्यं तर्कमानानुगुणमधिगुणैश्चिन्त्यमन्तेवसद्भि: ॥५७॥प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीपनाश: सामग्रयन्यान्यकार्य जनयति च न चानेकदीपप्रतीति: ।साम्यादे: स्यात्तु तद्धी: प्रवहणभिदुरास्सप्रभास्तत्प्रदीपा निर्बाधा भास्करादो प्रथयति नियत प्रत्यभिज्ञा स्थिरत्वम् ॥५८॥वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि भूम्नाधात्रीभागै: प्रभूतैस्स्फुटमिह घटिता धातवो हाटकाद्या: ।ताद्क्त्वेपि स्फुरत्ताद्यनितरसुलभ किंचिदन्वीक्ष्य तज्ञै: व्याख्यातं तेजसत्व विधितदितरयोस्तन्त्रसौकयंसिद्ध्यै ॥५९॥नैल्याद्भौमं तमिस्त्र चटुलबहलताद्यन्वयात्तन्न नैल्य छायावत्पारतन्त्र्यं त्वयस इव मणौ दृष्टिसिद्धा:स्वभावात् ।स्पर्शाख्यातिनं रुप हरति हरिशिलालोकवत्तत्र चाक्ष्णो-र्नालोकोऽर्थ्यस्ससिद्धाञ्जननयनदिवाभीतदृष्ट्यादिनीते: ॥६०॥नालोकाभावमात्रं तिमिरमविरतं नीलमित्येव दृष्टे-र्नेल्यं त्वारोपितं चेत्कथमिव न भवेक्त्वापि कस्यापि बाध: ।आरोपे चात्र नैल्यं न भवति नियत भास्वरान्यत्वसाम्या न्नात्रादृष्टं नियन्तृप्रतिनियतगुणारोप्क्लृप्तेर्गुरुत्वात् ॥६१॥ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवतंवार्ता भावाभावौ निषेद्धु तदुभयविधिवदुव्याहृतत्वादशक्यम् ।अन्तर्यन्तुश्च तेज: सहपठिततमो देह इत्यामनन्तिस्याच्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण ॥६२॥तिष्ठात्युर्वीभचक्रं पानरयवशाद्भ्राम्यतीत्युक्तमार्प्त-र्भ्रान्तै: क्लृप्तं त्रिलोकोभ्रमणमिह तथा मेदिनीभ्रान्तिपातौ ।तद्भ्रान्तो प्राकप्रतीचो: प्रसजति पतने पत्रिणोस्तारतम्यं पाते गुर्ष्यास्तु तस्या: प्रलघु दिवि समुत्क्षिप्तमेनां न वायात् ॥६३॥ज्योतिश्शास्त्रं पुराणाद्यपि न हि निगमग्राह्यमन्योन्यबाध्यं विद्यास्थानं तु सर्वं प्रतिनियतनिजोपक्रियांशे प्रमाणम् ।तात्पर्यं तर्कणोयं तदिह बहुविदा भूपरिध्यादिभे (दे दै:)दुर्ज्ञानं सर्वथा यन्मुनिभिरपि परैस्तत्र तूदासितव्यम् ॥६४॥सूर्यावृत्त्याद्युपाधिव्यतिकरवशत: कालताऽस्त्वम्बरादे-रन्यास्मिन्नन्यधर्मोपनयननियम: प्राग्वदत्रेति चेन्न ।कल्पान्तेऽप्येककाल: प्रकृतिपुरुषवद्ब्रह्मणोरुपमन्य-त्रिर्दिष्टोऽनाद्यनन्तो मुनिभिरिति तत: कार्यता चास्य भग्ना ॥६५॥कालोऽस्मीति स्वगीता कथयति भगवान्काल हत्याप्तवर्यो हेतु: सर्वस्य नित्यो विभुरपि च पर: किं परेणेति चेन्त्र ।कालान्तर्यामितादे: स खलु समुदित: संप्रतीते तु भेदे साधर्म्यं नैक्यहेतु: स हि तदितरवद्धोषितस्तद्विभूति: ॥६६॥कालस्योत्पत्तित: प्राक् परमपि च लयात् कालनास्तित्ववादी स्वोक्तिव्याघातभग्नो न वदति यदि यत्को वदेत्कालसृष्टिम् ।आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्या-त्रोचेत्तत्रापि पूर्वापरवचनहतिदुंर्निवारप्रसड्गा ॥६७॥कालोऽध्यक्षावसेय: क्षणलवदिवसाद्यंशतोऽर्थान्विर्शिषन् साक्षाद्धीस्तत्तदर्थेष्विव भवति हि न: कापि कालान्वयेऽपि ।तत्संयोगा: परत्वादय इति च ततोऽप्येष नैवानुमेयो नो चेत्र क्वापि लोकव्यवहृतिविषयोऽव्यक्तवस्त्यादनेहा ॥६८॥कालस्योपाधिभेदात्कतिचिदभिदधत्यब्दमासादिभेदं तत्तद्रूपेण काल: परिणमत इति प्राहुरेके तदा तु ।ये तत्रोपाधय: स्युस्त इह परिणतिं प्राप्नुयुस्सानुबन्धा: नित्यो व्यापी च तादृकपरिणतिभिरसो सर्वकार्ये निमित्तम् ॥६९॥वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि (जलनिधि) न जलधिर्माधवीं दोधवीति ।भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥७०॥ N/A References : N/A Last Updated : January 24, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP