तत्वमुक्ताकलापे - बुद्धिसर:

वेदान्त देशिक उर्फ वेंकटनाथ (१२६८-१३७०) हे वैष्णव गुरू, कवि, भक्त, दार्शनिक आणि आचार्य सुद्धां होते.


धीत्वाद्वेद्मीति सिद्धा स्वयमितरमतिर्बुद्धि लक्ष्मादि धीवत्‍
यद्वा सर्वंज्ञधीवन्न स मतियुगवान्नापि एकोनवेदो ।
नो चेद्वारामतौ सा प्रथममपि सती नावबुद्धेति धी: स्यात्‍
स्वस्यां वृत्तेर्विरोधोऽप्युपशमनमियादुक्तदृष्टान्तनोत्या ॥१॥

स्मृत्या शब्दानुमानप्रभृतिभिरपि धीर्वेद्यते स्वप्रकाशा
धीत्वादेस्तामवेद्यामनुपधि वदत: स्वोक्तिबाधादय: स्यु: ।
वेद्यत्वे सा जडा स्यादिति च विहतिमव्द्याप्तिभड्गश्च नो चे-
च्छिष्याचार्यादिसर्वव्यवहतिविरहाज्जातमौनं जगत्स्यात्‍ ॥२॥

बुद्धेरर्थप्रकाशादनुमितिरिति चेत्तन्न साध्याविशेषात्‍
साध्याद्‍भेदेऽपि बुद्धिर्यत उदयति ते स्यात्ततोऽर्थप्रकाश: ।
मध्ये बुद्धि: किमर्था ननु सममुभयोप्यसाधारणत्वं
तत्सा नित्यानुमेया यदि फलति तदा बुद्धितत्त्वापलाप: ॥३॥

ज्ञातुर्ज्ञप्तेरलोपं कथयति निगम: स्मर्यते चेवमेषा
तस्मादेकत्वसिद्धो प्रसरणभिदया तद्भिदेकत्र पुंसि ।
योग्यादृष्टेरभावान्न च भवति सुषुप्त्याद्यवस्थासु बाध-
स्तत्तद्वस्तुप्रकाशक्षणविरहवती न प्रकाशेत बुद्धि: ॥४॥

उत्पत्त्यादेरभावान्न यदि दृशि भिदा नो दशाभेददृष्टे:
दृष्टादृष्टव्यवस्था क्वचिदिह पुरुषे बुद्ध्यवस्थाभिरेव ।
अज्ञानाद्यैरनेकान्तिकमपि न च धीरात्मभेदेप्यभिन्ना
ज्ञत्वाज्ञत्वादिभेद: कथमिव घटते सर्वथेका मतिश्चेत्‍ ॥५॥

भेदादिर्दृश्यभावान्न दृशि दृशितया दृश्यधर्मा न दृक्‍ चेत्‍
पूर्वस्मिन्नित्यताद्यैरनियतिविहती वाग्विरोधादि शेषे ।
बाधस्चात्र द्वयोस्स्यात्‍ स्वमत इह च येस्साध्यते ये च साध्या
नेते मिथ्या विरोधान्न दृशिरविमते: स्यादभावोऽपि धर्म: ॥६॥

बुद्धिर्द्रव्यं विकारान्वयत इतरवद्‍बोद्धृवच्चाजडत्वात्‍
संकोचादिप्रयोगा बहव इह तथा न ह्यमुख्या भवेयु: ।
एवं नास्या गुणत्वं गलति न खलु तत्तन्त्रसड्केतसिद्धं
लोके धर्मस्वभावो गुण इति विदितं साऽपि सिद्धा प्रभावत्‍ ॥७॥

नित्या धोर्हेतुतोऽस्या भवति विषयितेत्येवमिच्छन्त एव
द्रव्यत्वं नास्ति बुद्धेरिति गुणगणने तामपि स्थापयति ।
अद्रव्यत्वं कथं स्याद्विकृतिमति विकृत्युज्झने पूर्ववत्‍ स्या-
दित्यंभूताद्विकारान्न भवति यदि नातिप्रसड्गप्रसड्गात्‍ ॥८॥

सर्वं ज्ञानं न मानं परमतविजयान्नाप्रमाणं स्वबाधा-
न्मानामानव्यवस्था तदियमनुमता लौकिकैर्योक्तिकैश्च ।
तत्रामाने त्वर्ज्यं स्वरसमिति वदन्त्यन्यथाभानमेके
तत्सामग्रयैव तादृग्व्यवहृतिमपरे लाघवादाश्रयन्ति ॥९॥

नाथैरुक्ता यथार्था विमतमतिरपि न्यायतत्वे तदेत-
द्भाष्येऽनूक्तं तदत्र व्यवहृतिरुभयो बाधिताबाधिताख्या ।
शृक्तो रुप्यं प्रभाम्भ: श्रुतिनयवशत: स्वाप्नमप्यस्तु सत्यं
योग्यायोण्यादिभेदाग्रह इह चरमां गाहते संप्रतिष्ठाम्‍ ॥१०॥

भेदाज्ञानात्‍ प्रवृत्तौ न कथमुपरति: स्यादभेदाप्रतीत्या
रुप्यारुप्यभ्रमादाविव यदि न यतोऽनिष्टभेदाग्रहात्‍ सा ।
आधारे भेदवर्जं स्फुरति सदृशवस्त्वन्तरे चोपपन्ना
तत्तद्वस्तूचितैव व्यवहृतिनियतिस्त्वन्मते बुद्धिवन्न: ॥११॥

अन्यस्मिन्नन्यबुद्धिर्न यदि न घटते तत्प्रवृत्तिस्तदिच्छो
रिष्टं तत्साधनं वा यदभिमतमतोऽन्यत्र सा नेति चेन्न ।
रत्नांशो रत्नबुद्ध्या विदुरनवगते रत्न एव प्रवृत्तिं
ज्ञातस्वेष्टानुषड्गादविदितमपि खल्वाददीतात्र चैवम्‍ ॥१२॥

शुक्तितत्वारुप्यतादेनं तु रजततया भाति शुक्तिर्विगोता
यद्वा धीत्वाद्यर्थार्था विमतमतिरतो बुद्धिबाधोक्त्ययोग: ।
वैशिष्ट्यासिद्धिमात्रप्रथनमिह परं बाधकस्यापि कृत्यं
किंचासत्ख्यातिग्शें प्रसजति भवतामन्याख्यातिवेद्ये ॥१३॥

योऽसौ बोधोऽन्यथाधोजनक इति जगे भ्रान्तिरित्युच्यतेऽसौ
नेत्थं बोधापलाप: क्वचिदपि वदतां बोधमध्यक्षसिद्धम्‍ ।
यत्र प्रत्यक्षसिद्धादधिकमपि परे निष्फलं कल्पयेयु:
सिद्धैरेवात्र तत्तव्द्यवहृतिरिति हि स्थापितं भाष्यकारै: ॥१४॥

एकाधारे विरुद्धाकृतियुगयुगपतत्ख्यातिरन्योन्यबाध्या
डोलाविक्षेपकल्पा तदनियतिरियं धीक्रमे साक्षिणी ना ।
तस्मात्तत्तद्विशेषस्मृतिसमसमयं छन्नतत्तद्विरोध:
ख्यातस्साधारणोऽर्थ: परमिह विशये येन बुद्धयन्तरं व: ॥१५॥

दुम्साधा बाधभिम्यां सदसदितरता कुत्रचिद्‍ व्याहतत्वात्‍
सत्त्वासत्त्वं च ताभ्यां कथमिव न भवेव्द्याहतेश्चेत्‍ समं तत्‍ ।
दृष्टत्वाद्वा विशेष: क्वचिदपि न हि नस्सर्वरुपेण सत्त्वं
नासत्ता चानुपाधिनं च विमतिरिह ब्रह्मतुच्छातिरेके ॥१६॥

रुप्यं जातं तदा चेन्न रजतमिति घोरप्रमा स्यादमुष्मिन्‍
कार्यासामर्थ्यमात्रान्न तदिति कथनं कल्पतेऽतिप्रसक्त्यै ।
शुक्तो चेतत्तदात्वे कथमिव जनयेद्‍ दुर्घटानाद्यविद्या
नाक्षादिस्त्वर्थहेतुर्न च रजतमतिस्सा हि तेनैव जन्या ॥१७॥

सत्वासत्त्वद्वयाख्यद्वयविरहचतुष्कोटिमुक्तं च तत्त्वं
व्याघाताद्येविधूतं न यदि तव कथं सप्तभड्गीनिषेध: ।
तुच्छालोकादिशब्दा: क्वचन सति परं क्वाप्यसत्त्वे प्रवृत्ता:
वन्ध्यापुत्रादिशब्दैर्भजति च समतां विध्यलोकादिवाद: ॥१८॥

व्याघाताप्रतिप्रसड्गौ प्रमितिपरिभवे मानतोऽमानतो वा
मानान्मानस्य सिद्धौ स्वतदितरपरित्राणामेकप्रवृत्त्या ।
साधीयानेष पन्थास्समयिभिरखिलैरर्थ्यतां सार्थनीत्या
नो चेदुच्छिन्नलोकव्यवहृतिनियमा: कामचारा: कथास्स्यु: ॥१९॥

ज्ञानाकाराधिकं हि प्रथितमिदमिति श्वेतपीतादि बाह्यं
तादात्म्ये तस्य साध्ये सहमतिनियमाद्यन्यथेवात्र सिद्धम्‍ ।
ग्राह्यात्मत्वान्मुषा स्यान्मतिरपि यदि वा ग्राह्यमप्यस्तु तथ्यं
किंचान्योन्यं विरुद्धेर्युगपदवगतैर्धीरभिन्ना कथं स्यात्‍ ॥२०॥

हन्त त्र्ययन्तपक्षे कणभुगभिमतो नावयव्यस्ति कश्चित्‍
संघातो नांशतोऽन्यस्तदणुषु न भवेद्‍ दृश्यतेत्यन्धचोद्यम्‍ ।
संसर्गेविश्वमेतद्‍ घटत इह यथादृष्टि दृश्याणुपक्षे
नादृष्टं कल्पयाम: परिणतिभिरसो दृश्यपादि: श्रुते स्यात्‍ ॥२१॥

आत्मख्यातौ मतीनां मिथ इतरतया संविदन्या न सिध्ये-
दन्त्योन्यार्थानभिज्ञा: कथमिव च धियो वादजल्पादि कुर्यु: ।
मानाभासादिसीमा न कथमपि भवेद्‍ ग्राह्यमिथ्यात्वसाम्यात्‍
सर्वं तत्संवृतेश्चेन्न खलु सदितरा साऽपि तत्तन्नियन्त्रो ॥२२॥

एकाकारप्रतीतिर्निजमतिविहता नैव दृष्टे गुरुत्वं
व्यर्थाऽस्मिन्‍ संमतिस्ते बहिरपि नियतं वक्ष्यते ग्राह्यलक्ष्म ।
व्याधातो लिड्गसंख्यापरिमितिवचसां नास्त्युपाधिप्रभेदा-
देकं नानाकृति स्यान्निजगुणभिदया बाधिते धी: स्वहेतो: ॥२३॥

धोत्वास्त्वान्यार्थशून्या विमतमतिरिति स्वोक्तिबुध्यादि भग्नं
ज्ञानज्ञानेऽतिचार: क्षणिकविविधधीस्सन्तते: संमतत्वात्‍ ।
दृष्टान्तस्साध्यशून्यो न च निरुपधिकासत्प्रतीतं क्वचिन्ना
तावन्मिथ्यात्वक्लृप्तौ न तु फलति तवाशेषबाह्यार्थभड्ग: ॥२४॥

प्रत्यक्षं संप्रयुक्ते स्मृतिरपि विदिते व्याप्तिसिद्धेऽनुमा स्यात्‍
शाब्दो धीरन्वितादौ भवति तदनुगा भ्रान्तिधी: क्वाप्यसिद्धे: ।
व्योमाम्भोजादिशब्दोऽप्यनियतमतिकृत्‍ स्यात्‍ पदार्थ त्यजेच्चेत्‍
नो चेत्स्यादन्यथाधीर्ध्रुवमिह यदि वाऽनन्वितत्वाप्रतीति: ॥२५॥

नेष्ट: स्वान्यग्रहश्चेत्‍ क्वचिदपि न हि धीर्धर्मिणी व: कृतान्ते
बुद्ध्यात्मा वासनातो न च किमपि तयाऽपेक्षणीयं बहिष्ठम्‍ ।
धीसन्ताने त्वनादौ भवति च निखिला वासनैक: क्षणस्त-
न्निश्शेषध्वंसिनी सा युगपदखिलमप्युद्धमेत्‍ कल्पनौघम्‍ ॥२६॥

स्वाकारोऽर्थे: स्वबुद्धौ निहित इति च नाधारहानाद्ययोगात्‍
स्वच्छे च्छाया परस्मिन्न च भवति न च स्यादसौ रुपशून्ये ।
साम्यासत्त्याद्ययोगाद्विषयविषयिणोर्नापि भेदाग्रह: स्या-
न्नैकाका (रेण रक्तं) रोपरक्तं द्वयमपि स च ते ग्राह्यतो नातिरिक्त: ॥२७॥

संसर्गाद्वोध्यबुद्ध्योरभिदधति सिताद्याकृतेस्सिद्धिमन्ये
सादेश्यात्‍ तन्मतेऽसौ न तु भवति तथा कालजोऽतिप्रसक्त: ।
व्यंशे नैवाभिमुख्यं विषयविषयिताऽत्राकृते: प्रागसिद्धा
क्वास्यास्संसृष्टनाशे जनिरिति कुसृति: पूगताम्बूलनीति: ॥२८॥

भ्रान्तो रुप्यादिरर्थो विलसति निरधिष्ठान इत्याहुरेके
तन्नाधिष्ठानदृष्टेरनियतिविरहादन्यथाऽतिप्रसड्गात्‍
निष्ठ्यूतस्वाक्षिदोषप्रभृतिषु च भवेत्‍ केश (गुच्छ) पुञ्जादिबुद्धि:
किंचैषाप्यन्यथा धीर्यदनिदमिद्‍मित्यत्र भातं ब्रवीषि ॥२९॥

ख्यातिं भ्रान्तिस्वरुपां जगदुरविषयां केऽपि तद्धीविरुद्धं
ख्याति कस्यापि पुंस: क्वचिदपि विषये सिद्धरुपा हि सिद्धा ।
अत्रार्थासत्त्वत: स्यादियमविषयता सर्वथा सत्ततो वा
तादृक्त्वेऽप्यन्यथाख्यात्यसदधिगमयोरेव पर्याय एष: ॥३०॥

प्रत्यक्षादित्रयं च स्मृतिरिति च मति: श्रुत्यभीष्टा चतुर्धा
प्रत्यक्षं स्वत्र साक्षात्‍ प्रतिपदनुमितिर्व्याप्यतो व्यापके धो: ।
शाब्दी वाचार्थबुद्धि: स्मृतिरपि कथिता संस्क्रियामात्रजा सा
येषामिष्टान्यथाधो: पृथगभिदधिरे तेरिहान्येऽपि भेदा: ॥३१॥

ईदृक्त्वात्यन्तशून्ये न हि मिषति मतिर्नापि युक्तिस्तथात्वे
सामग्रीभेदवेद्ये पृथगवगतिरस्त्वत्र नेषाऽन्यथात्वात्‍ ।
धीत्वादेर्वा विशिष्टं प्रथयति जनिता बुद्धिराद्याक्षयोगै:
तस्मात्संस्कारशून्येन्द्रियजनितमतिर्निविलल्पेति वाच्या ॥३२॥

लिड्गाद्यव्यापृताक्षान्वयवति विषयेऽक्षार्थजन्यो विकल्प-
स्संस्कारस्थित्वन्द्रियाणामिह सहकुरुतां तावता न स्मृतित्वम्‍ ।
न स्यात्तस्यान्यथात्वं बहुविहतिहतै: कल्पनात्वादिलिड्गै:
स्याद्वानैकान्त्यमेषामनियतिमविसंवादिबाधश्च सूते ॥३३॥

शब्दात्‍ प्रागर्थसिद्धे: परमपि च तयोरक्षभेदादिबोधात्‍
शब्दैक्ये वाच्यभेदादपि बहुषु पदेष्वेकवाच्यप्रसिद्धे: ।
साम्यासत्त्याद्ययोगाद्युगपदवगतेर्व्यक्तिजात्यादिशब्दै:
शब्दाध्यासो न युक्त: प्रथयति विषयं किंतु संज्ञा तटस्था ॥३४॥

धीत्वाच्छब्दानुविद्धां विमतमतिमृशन्त्यत्र शाब्दा न सत्त-
तस्यार्थ: स्मार्यभावात्‍ स्फुरत्‍ च स कथं बालमूकादिबोधे ।
सूक्ष्मा वाड्गमात्राकल्प्या न हि समधिकता तादृशी क्वापि संज्ञा
वाचस्सूक्ष्माद्यवस्थाकथनमपि विदुर्भानवाद्यर्थमाप्ता: ॥३५॥

सत्त्वाद्यैरक्षगम्यं विमतमिति वदन्‍ वक्तु बाधं विपक्षे
श्रुत्यालम्बे तु सैव प्रसजति शरणं तादृशादृष्टसिद्धो ।
अध्यक्षं लौकिकं चेदधिगतिविहतं भावनोत्थं न युक्त
नित्यं त्वक्षानपेक्षं निरुपधिरिह ते दुर्वचोऽक्षप्रकर्ष: ॥३६॥

प्रत्येकं ह्यक्षवेद्यं प्रतिनियततया सर्वलोकप्रसिद्धं
काकोलूकार्दिकानामपि निजविषये ह्यैक्षि चक्षु:प्रकर्ष: ।
मान्थालव्यालपूर्वेष्पि खलु रसनास्पर्शनादिक्रमात्‍ स्या-
दक्षस्थानेक्यमात्रं स्थितविषयमतस्त्वकपिपासादिवाक्यम्‍ ॥३७॥

संयुक्तव्यापकत्वप्रभृतिसहकृतैर्व्यार्व्याप्तिधीसव्यपेक्षै-
रक्षैरेवानुमाधीर्भवतु किमितरत्कल्पयित्वेति चेन्न ।
निर्व्यापारेन्द्रियस्याप्युदयति खलु सा भूतभाव्यादिलिड्गै:
स्मृत्यारुढै: श्रुतैर्वा मन इह सकलज्ञानसामान्यमिष्टम्‍ ॥३८॥

पक्षस्थं व्यापमादौ विदितमिह तु न व्यापकस्य प्रसक्ति-
र्व्याप्तिस्तेन स्मृता स्यान्न च तत उभयोर्निश्चय: पक्षयोगे ।
तादृग्व्याप्यान्वितोऽसाविति मतिरपि न व्यापकं तत्र यच्छेत्‍
तस्मात्तव्द्यापिपक्षान्वयनियतमतिनक्षितस्स्कृतेर्वा ॥३९॥

नायोग्यस्याक्षबाध: स्वविषयविहतिं न क्षमेतानुमानं
स्वस्यैवापेक्षितत्वादनुमितिमखिलां बाधते नागमोऽपि ।
निस्सन्देहप्रवृत्तेरिह निपुणधियां नाप्यसौ संशयात्मा
वैशिष्टान्न स्मृतिश्चेत्यनुमितिरुदिताऽध्यक्षवन्मानमन्यत्‍ ॥४०॥

सामान्यं प्राक्प्रसिद्धं न पुनरनुगमस्सिद्धपूर्वो विशेषे
व्याप्तिस्सर्वापि भग्ना क्वचिदपि सकलव्याप्यसड्गत्यदृष्टे: ।
भूयोदृष्टेर्व्यवस्था न हि भवति तथोपाधय: स्युर्दुरुहा
इत्याद्या: स्वेष्टतर्कस्थिरनियमजुषां दर्शनेनैव बाध्या: ॥४१॥

दृष्टेऽतीचारशड्का न भवति यदि सा क्वापि देशान्तरादो
सिद्धा तत्रानुमानस्थितिरथ न तदा क्वातिशड्कावकाश: ।
व्याघातान्ता तु शड्का न पुनरुदयति स्वप्रवृत्त्यादिभड्गा-
द्यावच्छड्कं च तर्कप्रसृतिरिह ततो नानवस्थादिदोष: ॥४२॥

व्याप्यत्वं यस्य यत्र स्फुरति सहचरे सोऽस्य हेतोरुपाधि-
स्साध्यव्यापी समोऽयं समगणि निपुणेस्साधानाव्यापकश्च ।
योग्यादृष्ट्या च तर्कैरपि तमपनुदेच्छड्कितं निश्चितं वा
साम्यं नात्राहुरेके तदभिमतमिह व्यापकादर्शनादि ॥४३॥

नित्यो व्यापी च न स्यादुपधिरिह सदा सर्वतस्तत्प्रसड्गा-
न्नाप्येष व्याप्यमात्राकृतिरवियुतितो नैकलिड्गोपपत्ते: ।
नासो पक्षेतरत्वप्रभृतिरपि भवेव्द्यापकोऽतिप्रसड्गा-
त्तुल्यस्साध्येन पक्षे सह यदि घटते साधनं व्याप्नुयात्‍ स: ॥४४॥

दृष्टं साध्यस्य यत्स्यात्‍ सममधिकमपि क्वापि पक्षान्यता वा
तस्याभावेऽपि साध्ये सति यदि न भवेद्वाधकं व्यापि नैतत्‍ ।
दुर्वारे बाधके तद्‍द्वयमपि दहनानुष्णतादावुपाधि:
साध्यं तव्द्याप्यतां वा हरतु स विरहात्‍ पक्षतो हेतुतश्च ॥४५॥

व्याप्ति: पक्षान्वयश्चेत्युभयमविकलं यस्य हेतुस्स सम्य-
ड्ड्गाभासो तद्विहीनौ तदुभयविततिस्स्यादनैकान्तिकादि: ।
तत्तद्वक्रानुमोत्प्रेक्षणमपि घटते न क्वचित्‍ साध्यसिध्यै
स्वव्याघातादिदोषादविषयनियतेर्वाञच्छितालाभतश्च ॥४६॥

साध्येन व्याप्तिमेके जगदुरिह सकृद्दर्शनेनैव गम्यां
शड्कानिर्धूतिमात्रं फलमिति च परं भूयसां दर्शनानाम्‍ ।
धूतोपाधिस्तु योग: स्फुरति बहुविधैर्दर्शनैरेव पश्चात्‍
तज्जात्याधारभावाद्युगपदखिलमप्यक्षसंबन्धि तत्र ॥४७॥

अस्मिन्‍ सत्येतदस्तीत्यवितथनियतेरन्वयव्याप्त्यभिख्या
तस्याभावे तु तन्नेत्ययमपि नियमस्तौ पृथक्‍ चापृथक्‍ च ।
तस्मात्‍ त्रेधानुमानं कतिचिदकथयन्नेकहानाद्‍ द्विधैके
कश्चिच्चेव्द्याप्तियुग्मप्रिय इह भविता वर्णयत्वैकविध्यम्‍ ॥४८॥

सर्वस्थ: केवलान्वय्यघटितसरणि: स्यात्‍ स्ववृत्तेर्विकल्पे
साध्ये स्वस्विन्नवृत्ते भवति च स तदा साध्यहानेर्विपक्ष: ।
हेतोस्तद्वृत्त्यवृत्त्योरभिमतविहतिस्त्रत्र चैवं विकल्पा-
दित्युत्प्रेक्षाविभागं विघटयतु न वा सर्वथा व्याप्तिसिद्धि: ॥४९॥

तत्तद्धीव्यक्तिभेदात्प्रमितिविषयता मानसिद्धा घटादौ
प्रत्यक्षत्वं च तद्वत्तदिदमुभयमध्यक्षसिद्धं तथैव ।
इत्थं तद्‍वृत्त्यवृत्तिव्यतिकरकलहै: केवलान्वय्यपोहे
दुर्वार: शून्यवादो न तमभिमनुषे स्थापयन्‍ किञ्चिदिष्टम्‍ ॥५०॥

ख्यातत्वाच्छब्दवाच्यो विमतिविषय इत्यादिरुपे तु साध्ये
व्यर्थोऽसो हेतुरित्थं विमतिसमुदयासंभवादित्ययुक्तम्‍ ।
व्याघातव्यक्तयभावात्‍ श्रुतिशकलबलात्‍ कूटयुक्त्यादित्ययुक्तम्‍ ।
व्याघातव्यक्तयभावात्‍ श्रुतिशकलबलात्‍ कूटयुक्त्यादिभिर्वा
पाक: कश्चित्‍ प्रमुह्यन्‍ प्रमितिगतिकथापक्त्रिमैर्हि प्रबोध्य: ॥५१॥

पक्षेऽन्यत्रापि साध्यं न मितमविदिते नापि संबन्धधी: स्यात्‍
क्वापीत्यप्यस्य सिद्धावृजुरविहतिमान्नास्ति सामान्यहेतु: ।
सत्यप्यस्मिन्न शक्याधिकरणनियति: स्वेच्छया सर्वसाम्या-
द्वैषम्यं दुर्वचं तत्प्रमितिकरणता क्वापि नावीतहेतो: ॥५२॥

साध्यभावो विपक्षे कथमिव विदितस्तस्य साध्याप्रसिद्धे-
र्भावात्मन्यप्यमुष्मिन्‍ प्रतिभटवपुषा ह्यत्र ते व्याप्तिसिद्धि: ।
इत्यज्ञातान्वयेऽस्मिन्‍ कथमिव सुशक: स्यादभावो नियन्तुं
हेतौ सारोऽन्वयोऽत: क्वचिदनुपधिक: केवलान्वय्यपीष्ट: ॥५३॥

संत्यक्तावीतहेतोरभिदुरमाखिलं लक्षणाभावत: स्यात्‍
मैवं लक्ष्मैव भेदस्तदवगमकमित्याप्तवाक्ये तदुक्ति: ।
यद्वा गन्धादिरप्ल्वप्रभृतिविरहितेष्वेव दृष्टो घटादि-
ष्वाज्यादावन्वयी स्यादमिव विमतेष्वेकलक्ष्मण्यपोह: ॥५४॥

भेदोऽबादेर्घटादौ विदित इतरथा त्वप्रसिद्धि: पुरोक्ता
कृत्स्नक्षोण्यन्वितोऽसौ न विदित इति चेत्‍ पक्षसिद्धि: कथं स्यात्‍ ।
व्याहारेऽप्येवमूह्यं न खलु न विदितं तन्निमितं घटादो
नो चेत्तत्तन्निमित्तव्यहृतिनियमस्थापनं दुश्शकं ते ॥५५॥

विद्यास्थानेषु धर्म्येष्विह यदगणयन्‍ विस्तरं न्यायपूर्वं
तत्रापि ह्यक्षपादस्य इति न नियतिर्न्यायतत्त्वेऽनुगम्ये ।
नाषत्वादिप्रधानं क्वचिदपि यदि वा वार्तिकं क्वापि युक्तं
यद्वा नेयं कथंचिन्निखिलमपि न किं निर्वंह्नन्त्येवमन्ये ॥५६॥

अन्यस्मै स्वप्रतीतं प्रकटयति यया वाक्यवृत्त्याऽनुमानं
तत्रोदाहृत्युपेताऽप्यविकलमिह तद्वोधयेन्नोपनीति: ।
युक्ता तूदाहृतिस्स्वोपनयनिगमना सप्रतिज्ञादिका वा
वक्तव्या वावदूकेस्तदधिकमपि वा संमतो  स्याद्यथेष्टम्‍ ॥५७॥

कार्येर्वा कारणैर्वा स्वगुणत उत वा किञ्चिदस्तीति सिद्धं
पक्षीकारादियोग्यं समयनियमितव्यक्तिभेदो न दोष: ।
सिद्धान्तास्पृष्टचित्तेरिति खलु पशुभि: पामरैर्वाऽनु मेयं
नो चेद्रोचेत कस्मै विषमितमनसे वादसंग्रामकेलि: ॥५८॥

आभासोद्धारवाक्ये स्वयमिह पठितेऽप्यक्षतान्यस्य शड्का
स्याच्चेव्द्यर्थोपनीतिर्निगमनमपि ते तत्तदर्थं यदात्थ ।
तस्मादुद्धाटितानां परिहृतिरुचिता जेतुमिच्छोर्विशेषा-
दुक्ते माने विमर्शो यदि भवति परं तत्र तर्कोऽपि वाच्य: ॥५९॥

तर्को व्याप्याभ्युपेतावनभिमतिपदव्यापकस्य प्रसक्ति-
र्मान्प्रत्यूहघातिद्विषय उदित: पञ्चधाऽऽत्माश्रयादि: ।
विश्रान्तिर्वेपरीत्ये प्रतिहतिविरहोऽनिष्ट्ताऽनानुकूल्यं
व्याप्तिश्चास्याड्गमेनं कतिचिदनुमितेस्तादृशं भेदमाहु: ॥६०॥

यस्सर्वं नाभ्युपेयात्‍ स्वपरमतविदा केन किं तस्य साध्यं
प्रश्नोऽसावुत्तरं न: कथमनधिकृते कल्पनीया: कथा: स्यु: ।
मध्यस्थोऽप्येतदेवं यदि न न मनुते योजयेन्नात्र वादं
नो चेन्माध्यस्थ्यहानि: परमनधिकृतिस्त (त्र) स्य शिष्याय वाच्या ॥६१॥

निर्दिष्टा व्युत्थितोक्तेर्विततिरिह कथा सा त्रिधा तत्र वाद:
कर्तव्यो मानतर्कैरभिमतिनियतैस्तत्त्वसिद्ध्यै विरागै: ।
जल्पाख्याऽन्या जयार्था भवति कथकयीस्साधनाक्षेपवत्त्वे
सैव प्रोक्ता वितण्डा त्यजति परमते साधनं तां द्विधैके ॥६२॥

कर्तव्यत्वेन यत्तु प्रमितिपरवशै: कल्पितं स्वेच्छया वा
यच्चाकर्तव्यमेवं परिभवनपदं तत्प्रहाणग्रहौ स्त: ।
स्वाचारद्यूतसंयत्प्रभृतिषु च तथा स्वीकृतेयं व्यवस्था
नैनामोषद्वितण्डाऽप्यलमतिपतितुं साधनांशोज्झिताऽपि ॥६३॥

सद्‌दोषोक्त्या कथायां परपरिभवनं स्वोक्तहान्यादिनाम्ना
तत्त्वाचोद्यानुयोगं द्विविधमशकनासिद्धिभेदादवोचन्‍
पूर्वो जाति: परस्तु च्छलमनृतवच: स्यादकालग्रहश्च ॥६४॥

जाति: स्वव्याहता वागुपधिनियतिभिर्भिद्यतेऽनेकधा सा
युक्त्यत्यागस्त्वयुक्तग्रहणमविषये वृत्तिरप्यत्र दोषा: ।
स्वव्याघातोऽनुवृत्तश्छलमपि वचसां कल्पितार्थे निषेध
स्तत्तद्‍वृत्तिप्रभेदादिमपि विविधं विस्तरेणालमत्र ॥६५॥

यस्मिन्मानप्रवृत्तिस्तदिदमशरणेरभ्युपेत्यं हि सर्वे-
र्व्याघातो यत्र दुष्ठस्तदपि न शरणं साधने दूषणे वा ।
इत्थं सिद्धे कथानां रहसि कथकयोस्सावधानत्वभूम्ने
षट्‍पक्ष्यन्ता सदुक्ति: परिषदनुमता रुद्धरोधावकाशा ॥६६॥

वाक्यार्थो यस्त्वपूर्वो न खलु किमपि तव्द्याप्यमस्मिन्‍ पदादौ
साड्गत्यं बोधकत्वादधिकमनुमितौ ग्राह्यमत्रैतदेव ।
वक्तृज्ञानानुमानादिकमपि न भवेदन्ततो व्याप्त्यभावा-
त्तत्तल्लिड्गाप्रतीतावपि मतिजननाद्वक्त्रभावाच्च वेदे ॥६७॥

प्रत्येकं स्वानुभूतात्तदुभयमधिकं संस्कृतिद्वन्द्वयोगात्‍
स्मृत्यारुढं विजानन्त्यनुमितिवचसोर्वद्यमप्येवमस्तु ।
पारोक्ष्यं तत्स्मृतित्वादनधिकमिति न प्रागनिर्धारितांश-
ज्ञानस्य स्पष्टदृष्टे: परिहितहरितस्त्वेतदस्पष्टमाहु: ॥५८॥

प्रत्यक्षादीव मानं विमतिपदवचो हेतुदोषाद्यभावा-
द्वाक्यत्वादप्रमाणं विमतमिति यदि स्वोक्तिबाधादय: स्यु: ।
अव्युत्पन्नस्य बोधं न जनयति वचस्संगतिज्ञानहाने-
र्लिड्गव्याप्तिप्रतीते: पुरत इव न चावद्यमेतावताऽस्य ॥६९॥

वक्त्री व्युत्पत्तित: प्राग्यदि निजविषयं वाग्विभक्त्यन्वयाद्यै:
किं व्युत्पत्त्या तिरश्चामपि न कथमितो बालकानां च बोध: ।
स्वा (र्थे) र्थश्शब्दस्तथा चेत्तदपि  न विषयैस्तस्य साम्यात्तदन्यै
रव्युत्पन्नत्वतो वा स्वमपि न गमयेदेष तद्वत्स्ववाच्यम्‍ ॥७०॥

 शब्दस्संकेतितोऽर्थं गमयति विमतोऽपीति शास्त्रप्रतोपं
तत्कर्ताऽद्य ह्यसिद्धस्स च दुरधिगम्सृष्टिकालेऽनुमानै: ।
श्रुत्या चेत्प्रत्युतैतद्विभुरपि तनुते वेदतो नामरुपे
व्याकृत्यादेर्विरुद्धौ कमजनिविलयौ क्षुद्रभाषासु नैवम्‍ ॥७१॥

व्युत्पत्ति: कार्यं एव प्रथमसमुदिता वृद्धवाक्यात्प्रवृत्तौ
तत्सर्वास्तत्परा: स्युर्गिर इति यदि न क्वापि सिद्धेऽपि सिद्धे: ।
स्याद्वा कार्येकलक्ष्या प्रथममिह कुतश्शब्दशक्तिं नियच्छे-
त्तात्पर्यं चान्यथाऽपि ह्यनितरशरणेर्लोकवेदप्रयोगै: ॥७२॥

कोऽसौ पाञ्चाल इत्याद्यनुभवतु वचस्सिद्वतात्पर्यंयोगं
शास्त्रं कार्येकशेषं गमयति निखिलं सिद्धमित्यर्धरम्यम्‍ ।
यत्र ज्ञानं पुमर्थस्तदवधिवचनं तत्र बाधोऽपि नास्मि-
न्नातो नाट्यादिनीतिर्निधिवचनयादन्यथा स्याद्विरोध: ॥७३॥

कस्मैचिज्ज्ञापयैतत्त्वमिति परकृतां वीक्ष्य चेष्टां तदन्य-
स्तस्मै ब्रूते ततस्तद्‍गमकमिह वचो वेत्ति चेष्टाविदन्य: ।
तत्तद्वाच्येषु शब्देर्हितविदभिहितैरड्गुलीयोगपूर्वं
जानन्नन्यत्र तत्तत्स्वहितजनकृतिं शिक्षणार्थामवैति ॥७४॥

कश्चित्‍ कस्यापि पुंसस्सुतजनिमिह तत्प्रीतिकृत्त्वं च जानन्‍
तज्जन्मोक्तिप्रह्वष्टे पितरि सुतजनेर्वेति तद्वाच्यभावम्‍ ।
शक्यं तद्धर्षहेतुस्स इति नियमनं सन्निधानदियुक्ते-
रासीदत्सु प्रसूत्याद्यनियतिकथनं कार्यवाक्येऽपि शक्यम्‍ ॥७५॥

शब्दस्यैतस्य वाच्यस्त्वयमिति च तथा वाचकोऽसावमुष्ये-
त्येवं शिक्ष्येत पश्चात्‍ कतिपयवचसां पूर्वनिर्ज्ञातशक्ति: ।
इत्थं व्युत्पन्नतत्तत्सहपठितिवशाद्वाचकान्‍ वेत्ति कांश्चि-
द्ये लोके ते हि वेदे समधिकमिह यत्तत्तु तत्रैव वेद्यम्‍ ॥७६॥

व्युत्पाद्यं नाप्रतोतं प्रसजति विदिते नैरपेक्ष्यं श्रुतीना-
मिन्द्राद्यर्थे पदानामिति दुरधिगमा नामतेल्यप्ययुक्तम्‍ ।
अप्रत्यक्षेषु सिंहप्रभृतिषु वचनै: केश्चिदारण्यकोक्तै:
व्युत्पद्यते हि पोरा: स्वयमपि च वदन्त्येवमत्रापि वार्ता ॥७७॥

व्यक्ति: शब्दैर्न बोध्या यदि न खलु भवेदन्वितज्ञप्तिसिद्धि-
स्तच्छक्तिर्व्याक्तिमात्रे न च भवति यत: स्वोपलम्भादिबाध: ।
धर्मो धर्मो च नैकें किमपि न च तयोर्भिन्नयोरप्यभेद-
स्तस्मात्तां तद्विशिष्टामभिदधति पदान्यन्यथा गत्यभावात्‍ ॥७८॥

जातिं व्यक्त्या विहीनां स्पृशति न धिषणा तेन जातो प्रवृत्ता
शक्तिर्व्यंक्तिं स्पृशेच्चेत्‍ स्थित इह वचसां तद्विशिष्टावगाह: ।
जातेर्बोध: स्वहेतो: स्थितिरपि हि भवेत्क्वापि गोत्वोक्तिनित्या
शब्दात्तत्पारतन्त्र्यं स्फुरति यदि पराबोधने तत्र शक्यम्‍ ॥७९॥

जातौ शक्तिर्लघुत्वात्‍ भवति च वचसां भाषणं जातिमात्रे
भेदो निष्कर्षकेभ्यस्त्विह परमजहल्लक्षणाया निरुढि: ।
इत्युक्तं केश्चिचदेवं यदि भवति तदोपाधिशब्देऽपि नीति,
र्मन्दं वेषम्यमात्रं भवतु च नियति: प्रत्ययेलक्षणाया ॥८०॥

मत्वर्थीयानुशिष्टिर्गुणवचनगणे वैभवात्स्यादसोत्री
शक्तिस्तत्रापि तत्तद्गुणवति नियता जातिशब्दाविशेषात्‍ ।
निष्कृप्येषां प्रयोगे क्वचिदगतितया द्रव्य (शक्ति) वृत्तिर्निरुद्धा
शक्तिस्साम्ये विभक्तेस्तदवधिररुणाधिक्रियायामभाषि ॥८१॥

जीवं देवादिशब्दो वदति तदपृथक्सिसद्धभावाभिधाना-
न्निष्कर्षांभावयुक्ताद्‍ बहुरिह न दृढो लोकवेदप्रयोग: ।
आत्मासंबन्धकाले स्थितिनरवगता देवमर्त्यादिमूर्ते-
र्जीवात्मानुप्रवेशाज्जगति विभुरपि व्याकरोन्नामरुपे ॥८२॥

संस्थानेक्याद्यभावे बहुषु निरुपधिर्देहशब्दस्य रुढि,
र्लोकाम्नायप्रयोगानुगतमिह ततो लक्ष्म निष्कर्षणीयम्‍ ।
अव्याप्तत्वादिदु:स्थं परमतपठितं लक्षणं तत्र तस्मा-
द्यद्धीतुल्याश्रयं यद्धपुरिदमपृथक्सिद्धिमद्‍द्रव्यमस्य ॥८३॥

शब्देस्तन्वंशरुअप्रभृतिभिरखिल: स्थाप्यते विश्वमूर्ते-
रित्थंभाव: प्रपञ्चस्तदनवगमतस्तत्पृथकसिद्धमोह: ।
श्रोत्राद्यैराश्रयेभ्य: स्फुरति खलु पृथकच्छब्दगन्धादिधर्मो
जीवात्मन्यप्यदृश्ये वपुरपि हि दृशा गृह्यतेऽनन्यनिष्ठम्‍ ॥८४॥

निष्कर्षाकूतहानौ विमतिपदपदान्यन्तरात्मानमेकं
तन्मूर्तेर्वाचकत्वादबिदधति यथा रामकृष्णादिशब्दा: ।
सर्वेषामाप्तमुख्यैरगणि च वचसां शाश्वतेऽस्मिन्‍ प्रतिष्ठा
पाकैस्तस्याप्रतीतेर्जगति तदितरै: स्याच्च भड्क्त्वा प्रयोग: ॥८५॥

व्युत्पत्तिर्वाचकानां स्थिरचरविषये लोकतो नेश्वरादा-
वव्युत्पन्नार्थंवृत्तिस्त्वधिपतिनयत: स्यादमुख्येति चेन्न ।
व्युत्पत्ते: पूरणं हि श्रुतिशिरसि कृतं नोपराध: कथंचि-
द्देहित्वं चाधिपत्यात्‍ समाधिकमिह खल्वक्षपादप्रणीतात्‍ ॥८६॥

न ह्यक्षै:केऽपि वर्णाभ्यधिकमिह विदुर्वाचकं सावधान:
शब्दादर्थं प्रतीमस्त्विति च जनवचो नैकमन्यव्द्यनक्ति ।
सामग्रथेक्यादिनीतुया भवति मतिरियं तादृशे वर्णसंघे
संभेदे वा पदानामिति न तदधिक: कोऽपि शब्दोऽपरोक्ष: ॥८७॥

यादृग्भि: स्फोटधीस्ते भवति भवतु तैरर्थधीरेव वर्णे:
वर्णेषूक्तो विकल्पस्समगतिरुभयोर्यौगपद्यक्रमादि: ।
वाक्यस्फोटेऽपि तुल्यं तदिदमिह पदेरक्षरैर्वाऽवगम्ये
स्फोटे तद्‍बुद्धिबोध्ये सति च न घटते तत्तदध्यासक्लृप्ति: ॥८८॥

शब्दो ब्रह्मेति यत्तन्मुनिभिरभिदधे स ह्यचिद्‍भेद इष्ट:
सूक्ष्माकारस्तु सोऽर्थं न गमयति यतस्सत्तया नेष हेतु: ।
स्फोटस्त्वं वर्णंजुष्टस्त्विति यदभिहितं भारते साऽपि शक्ति:
वर्णानां स्यात्तयाऽर्थ: स्फुट इति घटते स्फोटशब्दोऽपि तस्याम्‍ ॥८९॥

यत्प्रत्येकादिकल्पे गमकविषयोरपतीत्यादिदोषात्‍
बौद्धाश्शब्दाश्च बुद्धिं कतिचिदभिदधुवक्यिवाक्यार्थरुपाम्‍ ।
नैतद्वाह्येन बाह्यो विदित इति मतेर्बांधकोतेश्च साम्या-
द्वाक्यादावैक्यबुद्धेस्त्वनुकथितनयादन्यथासिद्धितश्च ॥९०॥

आचष्टे प्रत्ययश्च प्रकृतिरपि मिथ: श्लिष्टमित्यभ्युपेतं
स्पष्टं दण्ड्यादिशब्देष्वपि तदितरथा धीविरोधप्रसड्गात्‍ ।
अन्योन्यस्मारितार्थान्वितमभिदधति स्वार्थमेवं पदानि
स्यान्नातश्चक्रकादिनं च पुनरभिधा नापि वाक्यस्य भेद: ॥९१॥

स्वार्थे शब्दस्य चासावपि मिलितमतौ व्यापृतावित्यनेका:
कल्प्यास्ते शक्तय: स्यु: कथमपि न भवेत्तादृशी शक्तिरेका ।
अर्थेषु स्मारितेषु प्रथममथ च तद्योग्यतादौ विमृष्टे
शब्दैरेवान्विते धीर्मम भवति तव स्वार्थबोधव्य्पपेतै: ॥९२॥

संसर्गं वाक्यवेद्यं स्फुटमभिदधते कानिचिद्‍भाष्यवाक्या-
न्याद्यव्युत्पत्तिरुक्ता प्रतिपदमिह च क्वापि मान्यस्य हानि: ।
इत्थं मत्वा सयूथ्या: कतिचिदभिहितान्योन्यसंसर्गंमीषु-
स्तत्तत्स्वारस्यलोकप्रतिपदनुगमात्तच्च नाधिक्षिपाम: ॥९३॥

द्वारे भिन्ने समानाधिकरणवचसामैक्यतात्पर्यसिद्धे:
भेदाभेदस्थितानामिदमनुगुणमित्यार्हंतादेर्दुराशा
वस्तुस्थित्यैकरुप्ये वचनमितरथा वोधयत्स्यान्न मानं
तन्मानत्वाद्विधैकं स्थितमिति च न सद्‍भेद एवोपपत्ते: ॥९४॥

ऐकाधार्याद्विगीतं तदिदमिति नयाल्लक्षयेर्न्निर्विशेषं
मैवं बाधातिचारस्ववचनहतिभि: स्वोक्तदृष्टान्तदौस्थ्यात्‍ ।
तत्तेदन्ताविरोषो वचसि न हि भवेत्तादृशाध्यक्षनीत्या
नो चेत्‍ स्याद्वस्समस्तं क्षणिकमिह पुनर्देशभेद: क्रमात्‍ स्यात्‍ ॥९५॥

सत्याद्युक्ति: प्रकृष्टद्युतिरुडुपतिरित्यादिवद्वस्तुमात्रं
ब्रुते लक्ष्मोक्तिभावादिति यदि न तथा स्वोक्तिबाधादिदोषात्‍ ।
रोधस्सद्वाक्यभावाद्भवति च कथितोदाह्यतिस्साध्यहीना
प्रश्नोक्तेश्चाविशिष्टं न विषय इति नापृष्टजल्पोपहास: ॥९६॥

एकत्रार्थे समानाधिकरणवचसां वृत्तिरुक्ता तत्रोऽत्र
स्थाप्ये तत्तन्निमिते प्रसजति हि भिदा धर्मिणोऽपीति चेन्न ।
नेतव्यं लक्ष्मवाक्यं प्रतिपदनुगुणं सा‍ऽत्र सिद्धा विशिष्टे
व्युत्पत्तेस्तादृशत्वाद्‍ भवति तु विहते: क्वापि भिन्नं विशेष्यम्‍ ॥९७॥

नानाधर्मप्रणाड्या बहुभिरपि पदैर्धर्मिणोऽत्रैक्यसिद्धौ
नान्योन्याधारतैक्ये प्रसजत उचि तज्ञापनैकप्रवृत्ते: ।
बोध्ये सर्वेर्विशिष्टे न च वचनभिदा तच्च सूत्रादिसिद्धं
तात्पर्यं च स्वरुपे क्वचिदपि न भवेन्निर्मित्तेऽनुपाख्ये ॥९८॥

बोध्यं चेन्निर्विशेषं बहुभिरपि पदेरेकतोऽन्यद्‍वृथा स्या-
दन्यव्यावृत्तिभेदात्‍ फलमभिदधत: स्यादखण्डत्वहानि: ।
व्यावृत्तिश्चेत्स्वरुपं भ्रम इह न भवेद्‍ भासमाने तु तस्मिं-
स्तस्मात्‍ स्वार्थेषु मुक्तेष्वखिलपदगता लक्षणैवात्र लाभ: ॥९९॥

बाधार्थं यत्समानाधिकरणवचनं नाविशिष्टं वदेत्त-
त्तत्रैकोऽध्यासयोग्याकृति वदति परो भेदयुक्तं तु शब्द: ।
निर्दिष्टे वस्तुमात्रे भवतु कथमिहारोपितं बाधनीयं
भ्रान्तिर्भेदाप्रतीतौ विरमतु च कथं हेतुपौष्कल्ययुक्ता ॥१००॥

मानं बाधाद्यभावान्निगम इतरवद्वक्तृदोषस्तु नास्मिन्‍
बाधोऽप्यस्यानुमाद्यैरपि न हि सुवचस्तद्वलेनैव बाध्यै: ।
संदिग्धा नात्र बुद्धिर्नं च न समुदिता तेन विज्ञानसिद्धा-
वुत्सर्गाम्नानमेतन्मतिकलुषजय: स्याच्च मीमांसयैव ॥१०१॥

मानं वेदोऽपि वक्तुर्गुणत इति परं न्यायवित्साधयिष्यत्‍
सामान्याद्‍ बुद्धिहेतो: प्रमितिमधिकतस्साधयत्यन्यनीत्या ।
कार्यत्वं भेदकं स त्विह वदतु कथं धीविशेषत्वहेतौ
सिद्धेऽसिद्धेऽपि नित्यप्रमितिमति विभौ निष्फलत्वादमुष्य ॥१०२॥

संवित्तीनां यथावस्थितनिजर्विषयोल्लेख औत्सर्गिक: स्या-
द्वह्वयादेर्दाहकत्वप्रभृतिवदुपधेरन्यथात्वं भ्रमांशे ।
नित्यज्ञानप्रमात्वं वदसि च निरुपाध्येव निर्हेतुकल्वा-
द्दोषाभावात्‍ प्रमा चेच्छू तिरपि जयिनी दोषदूरोज्झिता न: ॥१०३॥

सर्वं साक्षात्करोति स्वत उपधिगणैरुज्झितस्संप्रसाद:
प्रामाण्यं तत्र नोपाध्युपनतमिति तत्तुल्यताऽन्यत्र युक्ता ।
आत्मस्वात्मांशयोश्च क्वचिदपि न भवेद्‍ भ्रान्तिरंशान्तेरेऽपि
स्यादेषा न स्वरुपे क्वचन परमसौ द्विप्रकारे प्रकारे ॥१०४॥

भ्रान्तिज्ञानेऽपि सत्यं किमपि तव मतेऽप्यस्त्यधिष्ठानपूर्वं
सत्यैकालम्बि चैकं समयिभिरखिलैर्दुस्त्यजं स्वार्थंसिद्धयै ।
बुद्धेस्तत्पक्षपात: स्वयमपि कथितस्सौगतैरेव केश्चित्‍
स्वात्मांशे सत्यता च स्वत इति तदसौ वेदिकोक्ते वृथेर्ष्या ॥१०५॥

अप्रामाण्यं स्वभावो गुणत इतरदित्यत्र न ह्यस्ति हेतु-
र्नाभावो हेत्वपेक्षस्त्विति च न नियमादन्यथाऽतिप्रसड्गात्‍ ।
किञ्चाभावोऽपि भावान्तरमिति मथने स्वेष्टभड्गश्च भावो
मुक्तौ शुद्धां हि बुद्धिं वदसि न यदि सा विभ्रम: स्यान्न वा स्यात्‍ ॥१०६॥

मानत्वामानते द्वे स्वत इति वदतस्सांख्यसिद्धान्तिनस्ते
व्यक्तिद्वैतं तयोश्चेत्‍ प्रतिनियतयोपाधिभेदोऽभ्युपेत्य: ।
व्यक्यैक्ये व्याहति: स्यादथ निजविषयेष्वंशतस्ते तथाऽपि
स्याद्धीस्सर्वा तथेति स्वपरसमयोर्द्वेषरागौ जुषस्व ॥१०७॥

ज्ञानं मानं स्वतश्चेत्कथमिव विशय: कस्य चित्क्वापि भावो
मिमांसा चानपेक्ष्येत्यसदुपधिकृताकारशड्कोपपत्ते ।
नेत्रालोकादिनीतेर्भवति च निगमोऽप्यत्र मीसांसयार्थी
हेतूनां साध्यसिद्धौ सहकृदनुविधिर्हेतुभावं न हन्ति ॥१०८॥

सर्वज्ञस्य प्रमाय न खलु न विषय: स्यात्स्वकीयं प्रमात्वं
निर्बाधा धी: प्रमेति प्रमितिरपि निजं गाहते मानभावम्‍ ।
मानेऽर्थ: स्वात्मनैव स्फुरति न च परं भाति शड्कानिरासे
भ्रान्त्या स्वार्थान्यथात्वं स्वयमनागतं बाधकैर्वेद्यतेऽत: ॥१०९॥

दृष्टं मान्थालभोगिप्रभृतिषु करणस्थानभेदादिचित्रं
तादृग्द्वीपान्तरादौ श्रुतमपि न मृषा वेदसिद्धे तथा न: ।
यत्रानाप्तोक्तताधीर्नं भवति विहतिर्नापि संभावनाया:
किं व्याप्तयाऽत्रोपाचारो विहतिमति भवेन्नैव तव्द्याप्तिदौऽस्थ्ये ॥११०॥

वाक्यत्वात्‍ कर्तृमत्य: श्रुतय इति यदि ब्रूहि बाधं विपक्षे
श्रुत्या स्मृत्या च बाध्या त्वदनुमितिर्य कर्तुरत्रास्मृतेश्च ।
त्वं तावत्तिष्ठ लोकेर्नं हि पुरुषगुणप्रत्ययात्तद्‍गृहीति-
स्सन्तश्चापह्नवीरंस्तमिह न मुनयस्सत्यनिष्ठा: कृतज्ञा: ॥१११॥

आदौ वेदैक्यवादस्त्वविभजनवशात्तावता नान्यसृष्टि-
स्सर्वेषामेकवेदान्वयमपि जगदु: कालभेदप्रतिष्ठम्‍ ।
तत्तच्छाखाविभाग: प्रवचननियता काठकाद्या समाख्या
द्रष्टा मन्त्रादिकर्ता परिहृत इह चानित्ययोग: प्रवाहै: ॥११२॥

भेदो मन्वन्तरादौ भवति च नियतोऽनादिसिद्धे तदंशे
पुसूक्तादौ श्रुतीनां जनिवचनमपि प्राग्वदाविष्कृतौ स्यात्‍ ।
आज्ञारुपत्वमासां न च गलति विभो (रेकरुपा) रैकरुप्याभिसन्धे-
र्योऽसौ देव: प्रमाणं स च न शिथिलयेच्छक्तिमन्तं क्रमं तम्‍ ॥११३॥

प्रेक्षावन्तो महान्त: परिजगृहुरिमं सार्थमड्गैरनन्तं
नेत्थं बाह्यागमानां प्रसृतिरनुपधेस्तदुगृहीतेरभावात्‍ ।
दृश्यन्ते गत्यभावो नियतिषु लघिमा वञ्चनं तर्कमोहो
वृत्तिस्वास्थ्यादि चैषामुपधिरधिगमे वैपरीत्यं तु वेदे ॥११४॥

नित्यैरस्स्प्रुष्टदोषैर्भवति च निगमै: पौरुषेयेषु बाध:
पाषण्डत्वप्रथेषां जगति न च मृषा पक्षपातप्रहाणे ।
अन्योन्यं चैषु बाध: प्रसजति कृतकेष्वाप्तिमोहादिसाम्यात्‍
संवादोंऽशेषु तुल्य: परमिह कुहनासिद्धयेऽन्यप्रवेश: ॥११५॥

संवादे मानवादे: श्रुतिभिरविरले संग्रहे तत्समाने
ताभिश्चाप्तत्वसिद्धौ स्वकथित उचिततस्तस्य तन्मूलभाव: ।
नाक्षं लिड्गं नरोक्तिभ्रम इह घटते विप्रलिप्साऽपि मूलं
नाज्ञाते भावनाऽपि श्रुतिविषयतया भाति योए तु धर्म: ॥११६॥

या मूलं त्वष्टकादेरियमपि मनुजै: क्वाप्यधीता श्रुतित्वात्‍
सा चेन्नित्यानुमेया प्रसजति न कथं  तादृशाध्यक्षक्लृप्ति: ।
सर्वस्मिन्‍ पूर्वपूर्वस्मृतिरपि निगमोपज्ञमित्याचरिष्णौ
नित्यादृश्ये च मूले नियतमिह भवेदन्धसन्ताननीति: ॥११७॥

शाखोच्छेदस्त्विदानीमिह यदि स मतस्सर्वतश्चेदसिद्धि:
व्यासागस्त्यप्रधानैर्भवति च मुनिभिर्भूषिताऽद्यापि भूमि: ।
उच्छिन्ना सा यथैवाचरितुरविदिता तत्तदाचारमूलं
तद्वसा विप्रक्रीर्णा क्रमसमधिगम: कालवद्देशतोऽपि ॥११८॥

दृष्टे वेदैर्विरोधे स्मृतिपरिहिणं सूत्रभाष्यादिसिद्धं
तद्वन्नीति: पुराणप्रभृतिषु भविनां संभवाद्विभ्रमादे: ।
स्यादन्योन्यं विरोधे त्विहु बलनियतिस्सात्त्विकत्वादिभेदा-
न्मात्स्यादौ दर्शितं तच्छु तिहृतिरहितैस्तल्परैरे वाक्यै: ॥१२९॥

भागे वेदाविरुद्धे पशुपतिकपिलाद्यागमास्स्यु: प्रमाणं
मोहाद्यर्थं तु शेषं मुनिभिरभिहितं यत्र मज्जन्ति डिम्भा: ।
भूयस्यर्थे प्रधाने विहतिमतिं सतां संशयश्च क्वचित्स्यात्‍
श्रुत्या बाधं न रुन्धे श्रुतिसहपठितिर्हेत्वहन्तव्यता च ॥१२०॥

निर्दोषाम्नायमौलिश्रुतनिखिलजगन्मूलसर्वज्ञमूले
हेतुर्व्यूढे चतुर्धा क्वचिदपि न भवेद्विभ्रम: पञ्चरात्रे ।
युक्ता भक्तानुकम्पागरिमसमुदिते विप्रलिप्साऽपि नास्मिन्‍
वेदाच्छ्रैष्ठयोक्तिरर्थंस्थितिविशदतया भूमविद्यादिवच्च ॥१२१॥

जीवोत्त्पत्त्यादिवादो निगमवदिह तन्नित्यतोक्तेश्च साम्या-
ज्जीवाद्याख्यानिरुढिस्त्वभिमतिभिदया स्याच्च संकर्षणादौ ।
मन्वादेश्चोपजीव्यं हिततममिदमित्यादिकं भारतोक्तं
तत्ववाप्यैक्यं विकल्प: क्वचिदभिमतवत्तादृशाम्नायभेदात्‍ ॥१२२॥

सर्वे सर्वज्ञबुद्धेर्नंनु विषयतया नित्यसिद्धा: कृतान्ता-
स्तस्मात्तेन प्रवर्त्ये सति समयगणे कस्यचित्को विशेष: ।
मैवं तत्त्वे विकल्पत्यजि विहतिमतामेकशेषत्वमाना-
त्तनिष्ठा स्यात्‍ कनिष्ठा नमति न विदुषोऽनामिकादि: परस्मै ॥१२३॥

अर्थे पूर्वानुभूते सहमितसदृशख्यात्यदृष्टप्रभेदै:
संस्कारानुग्रहे या परिणमति मतिस्सा स्मृतिस्त्रिप्रकारा ।
याथार्थ्येऽपि स्वपूर्वानुभवमनुसरेद्वाह्यशून्या न चैषा
हेतुश्चार्थक्रियादे: स्मृतिवदनुभवोऽप्यस्ति नष्टादिकेषु ॥१२४॥

पूर्वं श्यामत्वमात्राद्भवति न हि मिति: पाकरक्तेऽपि तद्धी-
स्तत्ताभानं तथा त्रेत्‍ प्रसजति तदिदं प्रत्यभिज्ञादिकेऽपि ।
याथार्थ्यं पारतन्त्र्यान्न च गलति न चेदभ्युपेतातिवृत्ति-
र्वेदे मानैस्सहोक्ता स्मृतिरपि विफला त्वक्षपादाद्यनुक्ति: ॥१२५॥

जात: पूर्वानुभूत्या स्मृतिमुपजनयेत्क्वापि संस्कार एव
प्रागद्‍ष्टव्यक्तिमात्रप्रतिनियतिमती कीदृशादन्वयास्यात्‍ ।
मेवं कार्ये स्वबाध्ये ननु तदनुगुण: कल्प्यन्ते हेतुयोग-
स्तज्‍ज्ञानोत्पाद्य भावस्स इति च विदित: किं तदन्येन नाम्ना ॥१२६॥

तुल्यात्तुल्यान्तरे धी: स्मृतिरियमिव गौस्सेति बोधोऽनुमानं
यत्तुल्यो यस्य चेतत्सम इति निजयोर्हस्तयोर्व्याप्तिसिद्धे: ।
चिह्नोन्नीते निमित्ते पदमपि विदितं शक्तमाप्तातिदेशे
व्युत्पत्तिलक्षणै: स्वै: क्वचिदपि न भवेदन्यथाऽतोन्द्रियेषु ॥१२७॥

अर्थापत्ति: परोक्ता न पृथगनुमितेर्व्याप्तिबोधासिसाम्या-
दव्याप्यानामयुक्तिर्न हि भवति न चाव्यापका: स्थापका: स्यु: ।
जीवन्‍ क्वापीति बोधो न गृह इति मतिं निश्चितां नोपरुन्धे
नातस्तच्छान्तये सा न यदि सममिदं सम्मते चानुमाने ॥१२८॥

तत्तद्‍भावैरभावव्यवहृतिनियतौ मानमन्यत्‍ किमर्थं
स्मर्तव्यस्मृत्यभावात्‍ परमनुमिमते प्रातरश्वाद्यभावम्‍ ।
स्यादक्षाद्‍भावधीवद्विमतिविषयधीरन्वयादेस्समत्वात्‍
भावग्राहिण्यभावं तदुचितसहकार्यागमे बोधयन्ति ॥१२९॥

ऐतिह्य वृद्धवाक्यं बहुदिवसगते यंत्त्वनिर्द्धायं मूलं
मानं चेदागमस्तत्तदितरदपि च स्यात्तदाभास एव ।
लक्षादिभ्यश्श्शतादिप्रमितिरनुमितिर्व्याप्यतादेरबाधा-
च्चेष्टालिप्यादि लिड्गं शितमतिभिरतश्शिष्टमप्येवमूह्यम्‍ ॥१३०॥

मानत्रित्वे तु मन्वाद्यनुमतिविषये तत्र यत्कैश्चिदाप्तै-
राधिक्यं क्वाप्यधीतं तदपि सुघटितं गोबलीवर्दनीत्या ।
उक्तार्थोदाहतिर्वा भवतु बहुमुखी शिष्यमेधामहिम्ने
सर्वे च स्वेष्टतन्त्रेष्वनुकथनशतं निर्वहन्त्येवमूहै: ॥१३१॥

प्रत्यक्षादित्रिकं यत्पृथगभिदधता भाष्यकारेण शेषं
नैव क्षिप्तं न चोपस्कृतमिह न तत: स्यात्तदाधिक्यसिद्धि: ।
रीती: सर्वीदितानामियमिति हि तथोदासि सड्ख्याविवादे
तेनान्वारुह्य तत्तत्समधिकगणना स्वीकृता नस्सयूथ्यै: ॥१३२॥

मानं सर्वोपजीव्या प्रथममिह भवेदक्षजन्या मनीषा
तन्मूला चानुमा स्यात्तदुभयजनितस्त्वागमो द्विप्रकार: ।
मूलं न क्वापि बाध्यं क्वचिदधिकलैर्मूलजातीयबाध:
स्यादेतै: कर्ममालाघटितश्चवघटीयन्त्रजभ्रान्तिशान्ति: ॥१३३॥
                            
सर्वं संदिग्धसत्त्वं क्षणिकमगुणकं नित्यमाकस्मिकं वा
बुद्धि: कृत्स्ना न मानं निखिलमपि तत: स्यान्मृषा धीतरद्वा ।
प्रख्योपाख्यादवीय: किमपि नियतिमन्नामरुपं च नेत्या-
द्युद्वेलापार्थजल्पानपहसितुमसौ वर्णितो मानभेद: ॥१३४॥

प्रज्ञाव्युत्पत्तिपाकव्यवहरणफलश्रेणिनिश्रेणिकाया-
मारुढा निष्प्रकम्पा प्रमितिगुणकरालम्बनात्सत्परीक्षा ।
मिथ्यालोकादिशापैरपि न भवति प्राप्तविस्त्रम्भसौधा
तत्साह्याद्वाह्यपाटच्चरमुषितमिदं सद्धनं प्रत्यनैष्यम्‍ ॥१३५॥

N/A

References : N/A
Last Updated : January 24, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP