TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तत्वमुक्ताकलापे - नायकसर:

वेदान्त देशिक उर्फ वेंकटनाथ (१२६८-१३७०) हे वैष्णव गुरू, कवि, भक्त, दार्शनिक आणि आचार्य सुद्धां होते.


नायकसर:
व्याप्तयाद्यव्याकुलाभि: श्रुतिभिरधिगतो विश्वनेता स विश्वं
क्रीडाकारुण्यतन्त्र: सृसति समतया जीवकर्मानुरुपम्‍ ।
रोषोऽपि प्रोतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्ते:
स्वेच्छायां सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववाद: ॥१॥

अप्रत्यक्ष: परात्मा तदिह न घटते धातुरध्वक्षाबाधो
योग्यादृष्टेरभावान्न खलु न भवता स्वीकृतस्स्वेतरात्मा ।
तस्मिन्‍ देहानपेक्षे श्रुतिभिर (धगते) वसिते देहबाधान्न बाधो
वेदेभ्यो नानुमानं न च पुरुषवचस्तिष्ठते बद्धवैरम्‍ ॥२॥

वाच्यत्वं वेद्यतां च स्वयमभिदधति ब्रह्मणोऽनुश्रवान्ता:
वाक्चित्तागोचरत्वश्रुतिरपि हि परिच्छित्त्यभावप्रयुक्ता ।
नो चेत्पूर्वापरोक्तिस्ववचनकलहहृस्सर्ववेदान्तबाध-
स्तत्सिद्धिर्हेतुभिश्चेत्प्रसजति विहतिर्धर्मिसाध्यादिशब्दै: ॥३॥

नित्यं ब्रह्मादिशब्दा निरुपधिकसतो लक्षका इत्ययुक्तं
मुख्यस्यान्यस्य हानेर्नं च निपुणधियो मुख्यमिच्छन्ति लक्ष्यम्‍ ।
मुख्यत्वे बाधकं च क्वचिदपि न वयं किञ्चिदालोकयामो
मुख्यं लक्ष्यं च वाच: पदमिति न च तद्‍गोचरत्वातिपात: ॥४॥

निस्साधारण्यनारायणपदविषये निश्चयं यान्त्यबाधे
सद्‍ब्रह्माद्यास्समानप्रकरणपठिताश्शड्कितान्यार्थशब्दा: ।
अन्तर्यन्ता च नारायण इति कथित: कारणं चान्तरात्मे-
त्यस्मादप्येककन्ठ्यं भवति निरुपधिस्तत्र शम्भवादिशब्द: ॥५॥

विष्णोरप्यस्त्याभिख्या शिव इति शुभतारुढिरत्रानुपाधि-
स्तम्माद्धयेयश्श्रुतोऽसौ शिव इति शिव एवेति वाक्यं त्वनूक्ति: ।
उक्तं नारायणाधिष्ठितमिति च तमोऽनेकबाधोऽन्यथा स्यात्‍
ब्रह्मेशादेर्महत्यामुपनिषदि लयाद्युक्तमेव तु नात्र ॥६॥

य: प्रोक्तस्सर्वकर्तु: परमखिलतनोर्नापरं किञ्चिदस्ती-
त्यस्यैव स्यादनूक्त्योत्तरतरकथनं न त्वितोन्यस्य बाधात्‍ ।
विश्वव्याप्तस्य तस्योचितमुपधिपरिच्छेदनादुन्मितत्वं
स्वस्यैव प्रापकत्वादशिथिलचिदचिद्धारणाच्चैष सेतु: ॥७॥

पुंसूक्तं सर्ववेदप्रपठनमहितं यत्परत्वैकतानं
तस्यैव श्रीपतित्वं विशदमभिदधे ह्य त्तरत्रानुवाके ।
आम्नातश्चैष नारायण इति निखिलब्रह्माविद्यासु वेद्य-
स्तत्तद्विद्याप्रदेशश्रुतविविधपदप्रत्यभिज्ञप्तिपूर्वम्‍ ॥८॥
रुद्रेन्दादिश्च यत्र स्फुरति परतयाऽनन्यथासिद्धलिड्ग:
तत्तत्तत्वैर्विशिष्टो हरिरखिलतनुस्तासु विद्यासु वेद्य: ।
पारम्यं त्वान्यपर्यान्न भवति न किरित्यादिभि: स्तोत्रवाक्यै-
रन्याकूतेर्नंमस्यादिभिरपि न पर: स्यादनैकान्त्यदु:स्थे: ॥९॥

धर्माणां स्थापनार्थं स्वयमपि भजते शासिता शासनं स्वं
स्वस्यापि प्रत्यवायानभिनयति नृणां पापभीतिं विधित्सु: ।
शुद्धैस्स्वेच्छावतारैर्भजति सुलभतां तावतोत्पत्त्यनूक्ति:
प्रोक्तो विष्णुश्शिखायामपि हि स पुरुष: प्राप्ततारार्धंमात्र: ॥१०॥
आद्यं रामायणं तत्स च निगमगणे पञ्चम: पञ्चरात्रं
सत्त्वोपज्ञं पुराणं मनुमुखमुनिभिर्निर्मितं धर्मशास्त्रम्‍ ।
त्यक्तान्यो मूलवेद: कठपरिपठिता वल्लिकास्तापनीयं
सौबालब्रह्माविन्दुप्रभृतिकमपि नस्तत्परं तत्परत्वे ॥११॥

मध्यस्थोक्तिर्विरुद्धे परमहिमपरे तत्र तत्रैतदुक्ति:
वृत्तान्तास्ते विचित्रा: स्वमतमभिहितं देवतातत्त्वविद्भि: ।
वेषम्यं शिल्पशास्त्रप्रभृतिषु विविधं वैदिकस्वीकृतत्वं
प्रज्ञासंस्कारभाजां भवति भगवति स्वप्रधाने प्रमाणम्‍ ॥१२॥

इन्द्रेशानाद्यभिख्या स्वयमिह महदाद्युक्तिर्भिर्वा विशिष्टा
तत्तत्पारम्यमानं न भवति बलवद्धर्मिमानोपरोधात्‍ ।
नो चेत्स्यान्नेक ईशो न भवति यदि वाकश्चिदन्योन्यबाधात्‍
लोकेऽप्यन्वर्थभावं न हि दधति महावृक्शमुख्यास्समाख्या: ॥१३॥

एकं त्रेधा विभक्तं त्रितयसमधिकं तत्त्वमीशास्त्रयस्ते
विष्ण्वन्या मूर्तिरोष्टे प्रभवननियम: कल्पभेदात्‍ त्रयाणाम्‍ ।
इन्द्रादीनामिव स्यान्निजसुकृतवशादीश्वराणां प्रवाह:
स्यादेकस्येश्वरत्वं प्रतिफलनवदित्यादि चैवं परास्तम्‍ ॥१४॥

सर्गादीनामसिद्धौ न हि निगमगिरां भज्यते सम्प्रदाय:
तत्सिद्धौ नानुमानं प्रभवति यदिदं बाधशून्यं विपक्षे ।
शास्त्रेभ्यस्त्प्रसिद्धो सह परिपठनाद्विश्वकर्ताऽपि सिध्ये-
द्धर्मानुष्ठापनार्थं तदनुमितिरितो नैव शक्या कदाचित्‍ ॥१५॥

साध्यं यादृक्सपक्षे नियतमवगतं स्याधि पक्षेऽपि तादृक्‍
तस्मात्कर्मादियुक्त: प्रसजति विमते कार्यंताद्येस्तु कर्ता ।
एतत्तत्सिद्धयसिद्धयोर्न घटत इति न क्ष्मादिपक्षे सपक्ष-
व्याप्ताकारप्रसड्गात्तदनुपगमने न क्वचित्स्यात्प्रसड्ग: ॥१६॥

यत्कार्यस्योपयुक्तं तदिह भवतु न: किं परेणेति चेन्न
ज्ञानादेरुद्भवे तद्विषयनियमनेऽप्यर्थनादिन्द्रियादे: ।
नित्यं ज्ञानं विभोस्तन्न नियतविषयं तेन नान्यार्थनं चे-
न्नानित्यस्यैव दृष्टेस्तव कथमजसंयोगभड्ड्गोऽन्यथा स्यात्‍ ॥१७॥

किं वा धीच्चे गृहीते विषयनियतये ते हि यत्नोऽत्र नेच्छेत्‍
निर्हेतुस्तत्प्रमेष्टा भवतु विषयवानेष तद्वत्स्वतस्ते ।
प्रोक्ते यत्ने स्वभावाद्विषयवति सधो: स्यादितीदं क्व दृष्टं
यद्वा धीस्तं हि नित्यं न तु जनयति ते सा कथं तन्नियन्त्री ॥१८॥

नि:श्वासादिप्रयत्नक्रम इह भवतां जीव एवास्त्वदृष्टे-
र्यद्वा तैरेव सर्वं घटत इति भवेत्तत्कृता सिद्धसाध्यम्‍ ।
क्लृप्तावन्यस्य कर्तृद्वयमुपनमिति त्वत्सपक्षे तथा स्यात्‍
पक्षेऽपीत्यव्यवस्था यदि विफलतया त्यक्तिराद्यऽपि सा स्यात्‍ ॥१९॥

साध्यो हेत्वादिवेदी मत इह कलया सर्वथा वा तवासौ
पूर्वत्रेशो न सिध्येन्न कथमपि भवेव्द्याप्तिसिद्धि: परत्र ।
पक्षस्पर्शाद्विशेषान्न खलु समधिकं पक्षधर्मत्वलभ्यं
कल्प्योऽन्यम्ते विशेषस्सुकृतविषमता जीवशक्तिस्तु सिद्धा ॥२०॥

कार्यं स्यात्कर्तभावेऽप्यवधिभिरितरै: कालवत्स ह्यसिद्ध:
ते चादृष्टप्रयुक्तास्तदपि यतनवक्ष्यात्तु यत्नानपेक्षम्‍ ।
एकत्यागेऽन्यहेतुत्यजनमिति च न ध्वंसवत्सावधित्वात्‍
तस्माद्धेतोरभावे न फलमिति गतिस्तद्विशेषे विशेष: ॥२१॥

धर्मो यावत्सपक्षानुगत उपधिरित्यभ्युपेतस्त्वयाऽपि
त्यागे तस्यात्र तद्वच्छिथिलितनियमा: क्वापि नोपधायस्स्यु: ।
तादृग्धर्मात्ययाच्च प्रकरणसमता स्यान्न चातिप्रसड्ग:
पक्षादिस्थित्यबाधा न्निरुपधिकतया स्यात्परात्मानुमा तु ॥२२॥

सर्वस्यावीतहेतोरपि च निरसनं द्रक्ष्यसि स्वप्रसड्गे
श्रुत्याऽत्र व्याप्तिसिद्धावलमनुमितिभिर्निष्फल: संप्लवोऽपि ।
तस्मादुल्लोकभूमा स कथमनुमया विश्वकर्ता प्रसिध्येत्‍
शास्त्रानुक्तत्वबाधद्वयपरिहृतये शास्त्रयोनित्वसूत्रम्‍ ॥२३॥

प्राज्ञाधिष्ठानशून्यं न तु परिणमितुं शक्तमव्यक्ततत्वं
वास्यादौ व्याप्तिसिद्धेरिति यदभिहितं सांख्यसिद्धान्तभड्गे ।
सोऽपि प्राज्ञव्युदासेऽप्यनुमितिशरणान्‍ प्रत्युपात्त: प्रसड्गो
नेष्टे तत्सिद्ध्यसिद्धयोरनुमितिरिति खल्वाशयस्सूत्रकर्ता ॥२४॥

अस्यैवाचिन्त्यशक्तेरखिलजनयितु: स्यादुपादानभाव:
सूक्ष्माव्यक्तादिदेह: परिणमति यतोऽनेकघा स्थूलवृत्त्या ।
निष्कृष्टेऽस्मिन्‍ शरीरिण्यखिलगुणगणालड्कृतानन्दरुपे
संपद्यन्ते समस्तास्समुचितगतयो निर्विकारादिवादा: ॥२५॥

कर्तोपादानमेव स्वसुखमुखगणे स्वप्रयत्नप्रसृते
संयोगं स्वस्य मूर्तेस्स्वयमौपजनयन्नीश्वरोऽप्येवमिष्ट: ।
सर्वोपादानभावस्तत इह घटते सर्वकर्तर्यमुष्मिन्‍
सर्वश्रुत्यैकरस्यप्रणयिभिरुचितं द्वारमत्राभ्युपेतम्‍ ॥२६॥

साविद्यं केऽपि सोपाधिकमथ कतिचिच्छक्तिभिर्जुष्टमन्ये
स्वीकृत्येकाद्वितीयश्रुतिमपि जगदुस्तद्विशिष्टेक्यनिष्ठाम्‍ ।
नित्यत्वं विग्रहत्वं प्रकृतिपुरुषयोर्हेतुतां विश्वकर्तु-
स्तद्वैशिष्ट्यं च शास्त्रप्रथितमजहतां कोऽपराधोऽतिरिक्त: ॥२७॥

ब्रह्मोपात्तान्विकारान्‍ कतिचिदभिदधुश्चेतनाचेतनेशान्‍
नेतद्युक्तं यदीशादनधिकमनघं निर्विकारं श्रुतं तत्‍ ।
भिन्नाया ब्रह्मशक्तेर्विकृतय इति चेद्वह्मजन्यत्वभड्गो
भेदाभेदोपपाद्यं सकलमिति मते सप्तभड्गी न दूष्या ॥२८॥

विश्वं चित्तद्रुणानुद्भव इह घटते रत्नगन्धादिनीत्या
सर्वं ब्रह्मेत्यधीतं त्रिविधमिति च तद्दाशताद्यस्य चोक्तम्‍ ।
तस्मात्सर्वानुवृत्तं सदनवधिदशाचित्रमित्यप्ययुक्तं
प्रत्यक्षागोचरत्वप्रभृतिबहुभिदावादिसर्वोक्तिबाधात्‍ ॥२९॥

अव्यक्तं त्वन्मतेऽपि ह्यनवयवमथाप्येतदंशा विकारा:
ते चान्योन्यं विचित्रा पुनरपि विलयं तत्र तत्त्वेन यान्ति ।
इत्थं ब्रह्मापि जीव: परिणमति विहृत्यर्थमित्यप्यसारं
स्वानर्थकप्रवृत्ते प्रसजति च तदा सर्वशास्त्रोपरोध: ॥३०॥

ब्रह्मैवोपाधिभिन्नं भजति बहुविधां संसृतिं सोऽप्यनादि-
स्तस्मान्नात्यन्तभिन्नो जड इति तु मते दु:खमद्वारकं स्यात्‍ ।
सौभर्यादौ व्यवस्था न कथमुपधिभि: स्वावतारेषु चैषा
सर्वज्ञस्स्वेक्यवेदी कथमनवधिभिर्जीवदु:खेर्न दु:ख्येत्‍ ॥३१॥

बन्धो ब्रह्मण्येशेषे प्रसजति स यदोपाधिसंयोगमात्रात्‍
सादेश्याच्चेदुपाधौ व्यभिचरति भवेद्बन्धमोक्षाव्यवस्था ।
आच्छेद्ये छेदनादिर्विहत उपधिभिर्न स्वतोऽशस्तवास्मिन्‍
नोपाधिर्जीवतामप्युनुभवितुमलं ब्रह्मरुपोऽप्यचित्त्वात्‍ ॥३२॥

नापि ब्रह्मण्याविध्यास्थगितिनिजतनौ विश्वमेतद्विवृत्तं
तस्मिन्‍ सा स्वप्रकाशे कथमिव विलगेत्तत्प्रकाशैकबाध्या ।
न ह्येतस्मिन्नविद्याविलयकृदधिको वृत्तिवेद्यो विशेषो
बाधो वृत्तिस्वरुपाद्यदि भवति तदा ज्ञानबाध्यत्वभड्ग: ॥३३॥

छन्नत्वे स्वप्रकाशादनधिकवपुषो ब्रह्मणस्स्यादभावो
भावानां छादनं हि स्फुरणविलयनं तस्य वोत्पत्तिरोध: ।
मिथ्यादोषाद्‍भ्रमोक्तौ कथमधिकरणं सत्यमित्येव वाच्यं
नाधिष्ठानानवस्था भवतु तव यथा नास्त्यविद्यानवस्था ॥३४॥

दोषाभावेऽप्यविद्या स्फुरति यदि तत: किं न विश्वं तथा स्यात्‍
सा चान्यां कल्पिकां चेदभिलषति तदा साऽपि चेत्यव्यवस्था ।
नापेक्षा चेदनादेरकलुषधिषणागोचरत्वात्सतो स्यात्‍
ब्रह्मैवास्यातु दोषो यदि न तु विरमेद ब्रह्मणो नित्यभावात्‍ ॥३५॥

ज्ञातेऽज्ञातेऽप्यभाव: खलु दुरवगमस्संविदस्तेन भाव:
स्यादज्ञानं यदीहाप्यपरिहृतमिदं तद्विरोधादिसाम्यात्‍ ।
तुल्यैवाकारभेदात्परिहृतिभरुयो: क्लृप्तिरत्राधिका ते
मुग्धोऽस्मीत्यादिसाक्षात्कृतिरपि नियतं तत्प्रतिद्वन्दिगर्भा ॥३६॥

स्वाजन्मान्यस्वदेश्यस्वविषयवृतिकृत्स्वव्यपोह्यार्थपूर्वा
ध्वान्तोत्याद्यप्रभावद्विमतमतिरिहापूर्वनिर्भासनाच्चेत्‍ ।
अज्ञानाज्ञानभेत्त्रो किमियमनुमिति: स्वेष्टभड्गोऽन्यथा तु
व्यर्थाऽसाविन्द्रियादिष्वतिचरणमसिद्ध्यादि च स्याद्विकल्पे ॥३७॥

यच्चोक्तं दैवदत्तो मितिरितरमितिन्यायतो हन्त्यनादिं
मात्वात्तन्मित्यभावाधिकमिति तदपि स्यादबाधं विपक्षे ।
नाभावो भावतोऽन्यो न च पुरुषभिदाऽस्त्येकजीवत्ववादे
दृष्टान्ते ध्वंसकत्वं न च विदितमिदं ध्वंसतामात्रसिद्धे: ॥३८॥

अस्पृष्टावद्यतोक्तेनं खलु विषयतामभ्युपेयादविद्या
न क्षेत्रज्ञोऽपि तापत्रयपरित्पनान्नापि तद्‍ब्रह्म मौग्ध्यात्‍ ।
मित्यात्वातुद्वेषभावो न भवति किं तन्निरासप्रयासै-
रुच्छेत्तव्यापुमर्थान्वयत इह पर: कोऽभिलष्येत दोषा ॥३९॥

शुद्धे ब्रह्मण्यविद्या यदि न घटते तस्य जीवैक्यवाद-
स्तस्मान्निर्दोषतोक्तिर्निरुपधिदशया निर्वहेदित्ययुक्तम्‍ ।
प्रत्यक्षादिप्रमाणानुगुणबहुविधश्रुत्यबाधेन नेतुं
शक्येऽप्यैक्यादिवाक्ये बहुगुणनिश्चये ब्रह्मणेऽसूयसि त्वम्‍ ॥४०॥

मायाविद्यादिशब्दै: प्रकृतिरभिमता न त्वदिष्टाऽस्त्यविद्या ।
किं चाविद्यादिशून्य: पर इति विविधाम्नायाण्ठोक्तमर्थं
क्षेप्तं मायादिशब्द: क्षम इति वदत: स्यादविद्या तवैव ॥४१॥

निर्दोषश्रुत्यबाधप्रणयिभिरुदितो ब्रह्मजीवानुबन्धी
मायाविद्याविभागोऽप्यफल इह परोन्मोहनार्था हि माया ।
मिथ्यार्थान्‍ दर्शयित्वा विहरणमपि तेस्तादृशं भावयन्तो
मायैव स्यादविद्या न कथमितरथा स्यादनुच्छेदनोया ॥४२॥

मिथ्याभूतस्य सत्यं निरुपधि भजते न ह्युपादानभावं
तस्योपाश्चिश्व मिथ्यात्मक इति निरधिष्ठानता नास्य युक्ता ।
तस्मात्सत्यानुते द्वे मिथुनमिति न सद्विश्वसत्ता ह्यबाध्या
सद्विद्यायां च कार्यं ननु कथमसतस्सद्भवेदित्युपात्तम्‍ ॥४३॥

कार्याणां यत्सरुपं किमपि गुणमयं कारणं कापिलोक्तं
तत्क्षिप्तं माक्षिकादे: क्रिमिमुखजननात्सूत्रकारैर्द्वितीये ।
तस्मान्मिथ्यात्मकस्य स्वयमनुपधिकं सत्यमेवास्तु सूति:
सत्योपादानवादे जगदपि न मृषा स्यादितीष्टं त्विदं न: ॥४४॥

मायाविद्यादिशब्दै: प्रकृतिरभिमता ज्ञानकर्मादयो वे-
त्येतत्तत्तत्प्रदेशे स्फुटविदितमतो न त्वदिष्टाऽस्त्यविद्या ।
किं चाविद्यादिशून्य: पर इति विविधाम्नायकण्ठोक्तमर्थं
क्षेप्तं मायादिशब्द: क्षम इति वदत: स्यादविद्या तवैव ॥४१॥

निर्दोषश्रुत्यबाधप्रणयिभिरुदितो ब्रह्मजीवानुबन्धी
मायाविद्याविभागो‍ऽप्यफल इह परोन्मोहनार्था हि माया ।
मिथ्यार्थान्‍ दर्शयित्वा विहरणमपि तेस्तादृशं भावयन्ती
मायेव स्यादविद्या न कथमितरथा स्यादनुच्छेदनोया ॥४२॥

मिथ्याभूतस्य सत्यं निरुपधि भजते न ह्युपादानभावं
तस्योपाधिश्च मिथ्यात्मक इति निरधिष्ठानता नास्य मुक्ता ।
तस्मात्सत्यानृते द्वे मिथुनमिति न सद्विश्वसत्ता ह्यबाध्या
सद्विद्यायां च कार्यं ननु कथमसतस्सद्भवेदित्युपात्तम्‍ ॥४३॥

कार्याणां यत्सरुपं किमपि गुणमयं कारणं कापिलोक्तं
तत्क्षिप्तं माक्षिकादे: क्रिमिमुखजननात्सूत्रकारैर्द्वितीये ।
तस्मान्मिथ्यात्मकस्य स्वयमनुपधिकं सत्यमेवास्तु सूति:
सत्योपादानवादे जगदपि न मृषा स्यादितीष्टं त्विदं न: ॥४४॥

दृश्यत्वाद्विश्वमिथ्यावचसि विहतयोऽसिद्धयश्चात्र बह्वय:
पक्षादेस्सिद्ध्यसिध्योनं हि गतिरितरा नापि वादाड्गमीदृक्‍ ।
मर्यादां लोकसिद्धां विजहत इह ते नापरा सा प्रसिध्ये-
न्निर्मर्यादोक्तिमात्राज्जगदपलपत: किं न सत्यं तपस्तत्‍ ॥४५॥

साध्ये सत्येतरत्वे कथित इह भवेत्स्वस्य हि स्वान्यभावो
नान्यत्सत्यं तु दृष्टं तदवधिकभिदासाधने चेष्टसिद्धि: ।
सत्यत्वं चेन्निषेध्यं प्रसजति दहनेऽप्युष्णतायां निषेध ।
साध्यं क्ष्वक्षाद्यबाध्यं यदि किमपि परं तेन न व्याप्तिसिद्धि: ॥४६॥

त्वात्यन्ताभावदेशे विदितमिति यदि स्थाप्यमिष्टं क्वचित्त-
त्तत्रैवेति स्वशक्यं क्वचिदपि न तथा ह्यस्ति सिद्धान्तसिद्धि: ।
बाधश्चास्मिन्नुपाधिस्समधिकदशादेशकालाद्युपाधौ
नासो साध्योऽत्र मानं निखिलमपि यतस्तद्विधानैकतानम्‍ ॥४७॥

तुच्छत्वं ते न हीष्टं सदसदितरता व्याहतत्वादिदु:स्था-
सिद्धा चासौ परेषां भवदनभिमतोऽन्यात्मना वेद्यतादि: ।
विश्वं हीदं मृषा नस्तदितरवपुषा त्वन्मतारोपितैश्च
स्यादेवं दूरतस्ते ध्रुवमपसरतोऽप्युक्तदोषानुषड्ग: ॥४८॥

साध्यं मिथ्या न वा ते द्वितयमनुचित्तं निष्फलत्वादिदोषा-
दाद्यं ह्वीष्टं ममापि प्रसजति भजतस्सत्यभेद: परस्मिन्‍ ।
पक्षीकारेऽस्य बाधादिकमतिचरणं तद्वहिष्कारपक्षे
तच्चेद्‍ब्रह्मस्वरुपं भुवनमभिहितं हन्त सब्रह्मकं स्यात्‍ ॥४९॥

इष्टं ब्रह्मापि दृश्यं तव च कथयतस्तश्य जिज्ञास्यतादीन्‍ ।
मिथ्या चेद्‍दृश्यताऽस्मिन्ननु विमतिपदेऽप्येवमेषा त्वयेष्टा ।
लिड्गं जाड्यादिकं चेत्तदपि मम मते ह्यंशतस्स्यादसिद्धं
मिथ्यालिड्गैश्च सिध्येत्किमपि यदि भवेद्वाष्पधूमोऽग्निलिड्गम्‍ ॥५०॥

व्यावृत्तं शुक्तिरुप्यं विदितमिह मूषा विश्वमेवं न किं स्यात्‍
मैवें हेतोरयुक्तेस्स खलु भिदुरता बाध्यता नाशिता वा ।
आद्येऽनेकान्त्यमन्त्ये स्वसमयविहतिमध्यमे स्यादसिद्धि-
र्धीविच्छेदादिकल्पान्तरमपि कथितैर्दूषितं दोषबृन्दै: ॥५१॥

यत्स्यात्तत्सर्वदा स्याद्यपि च न भवेत्तच्च न स्यात्कदाऽपि
श्वापि व्योमारविन्दादिवदिति यदि न व्याहतेस्साध्यहेत्वो: ।
मध्ये सत्वं गृहीत्वा खलु तदुभयतोऽसत्त्वलिड्गं गृहीतं
सामग्र्या चावधी द्वौ स्फुटतरविदितौ साऽपि तत्तत्प्रवाहात्‍ ॥५२॥

आम्नायस्यापि शक्तिर्न खलु गमयितुं स्वोपजीव्यप्रतीपं
यूपादित्यैक्यवाक्यप्रभृतिभिरितरथा नोपचारं भजेत ।
अक्षाम्नाय: स्वपूर्वापरविहतिभयान्नेति नेत्यादिवाक्यं
वैलक्षण्यादिमात्रं प्रथयति भुवनाद्‍ब्रह्मणो विश्वमूर्ते: ॥५३॥

प्रत्यक्षेणैव पुंसां भवति दृढतरो देह एवात्ममोहो
ज्वालैक्यप्रत्यभिज्ञाद्युभयमपि च तद्वाध्यते ह्यागमाद्यै: ।
तस्मादक्षादिसिद्धं श्रुतिभिरपि जगद्वाध्यतामित्ययुक्तं
संदेहार्थेषु शक्तं न खलु तद्दोषदूरेष्वपि स्यात्‍ ॥५४॥

प्रत्यक्षं दोषमूलं श्रुतिरिह न तथा पौरुषेयत्त्वहाने-
स्तस्मास्सा बाधिकाऽस्येत्यसदखिलधियामन्ततो दोषसाम्यात्‍ ।
शास्त्रस्यापि ह्यविद्याप्रभृतिभिरुदयस्सम्मतस्त्वन्मतस्थे-
स्तस्यानाविद्यभावे न हि निखिलभिदापह्ववश्शक्यशड्क: ॥५५॥

दोषोत्यत्वाविशेषे न हि भवति परं पूर्वबाधप्रगल्भं
दोषज्ञानं तु मा भूदविदुषि पुरुषे वस्तुतस्त्वन्यथा तत्‍ ।
निर्दोषत्वाभिमन्तुस्वसमयिमतिभि: किं न मिथ्याकृतान्ता:
प्राबल्यं चेन्निषेध: पर इति मुखरं तुर्यबुद्धस्य तूर्यम्‍ ॥५६॥

निर्दोषं यच्च शास्त्रं तदपि बहुविधं बोधयत्येव भेदं
वाक्ये तत्त्वोपदेशप्रकरणपठिते नान्यपर्यं प्रतीम: ।
नात्रापच्छेदनीतिर्नियतिमति सदोपक्रमन्यायसिद्धे:
स्वप्रख्याप्यापलापे श्रुतिरपि वृषलोद्वाहमन्त्रायते व: ॥५७॥

भेद: प्रत्यक्षसिद्धो न निगमविषयस्स्यादिति त्वर्भेकोक्ति:
प्रख्यातादन्यमेनं प्रथयति यदसौ त्वन्मताद्वेतवन्न: ।
सन्मात्रग्राहि चाक्षं नियमयसि ततो ब्रह्म दृश्यं मृषा स्यात्‍
किं ते श्रुत्या तदानीं फलमभिलषतां क्वापशूद्राधिकार: ॥५८॥

वेदा बुद्धागमाश्च स्वयमपि हि मूषा मानता चैवमेषां
बोद्धा बुद्धि: फलं च स्थिरतदितरताद्यन्तरालं च बुद्धे: ।
आतस्त्रैविद्यडिम्भान्‍ ग्रसितुमुपनिषद्वारवाणोपगूढै:
प्राया प्रच्छादिता स्वा पटुभिरसुरता पौण्डूकाद्वेतनिष्ठै: ॥५९॥

त्वन्निष्ठा सिद्ध्यसिद्ध्यो: प्रमतनियतिस्सिद्धिमेवाधिरुढा
वेदस्यामानतायां त्वदभिमतहतिर्मानतायं च तद्वत्‍ ।
साध्याऽसाध्याऽपि मुक्तिस्त्वदुपगमहता तत्समं चान्यदित्थं
रक्षोभ्य: प्रेषितोऽयं रघुपतिविशिखो राहुमीमांसकेभ्य: ॥६०॥

शुद्धस्याशुद्धसृष्टिकम इति कथितश्शुद्धसत्वे तु तत्त्वे
स्थानं नित्यं श्रुतं ततुस्मृतमपि कलया तत्र देहाद्यवस्था ।
सृष्टे: प्रागेकमेवेत्यपि निगमवच: स्त्रक्ष्यमाणव्यपेक्षं
नो तेत्स्वाभीष्टमायोपधिविलये स्वस्ति विश्वप्रसूत्यै ॥६१॥

ज्ञानस्थं चेदहस्यागमविदितमिति स्वीकृतं नित्यभूते:
षाड्‍गुण्यात्मत्वमेवं प्रसजति सह तत्पाठतोऽतो जडा सा ।
तत्सम्बन्धात्कुतश्चित्तदुपचरणमित्याहुरेके परे तु
ज्ञानत्वाजाड्यकण्ठोवत्यनुगुणमवदन्‍ मुख्यतामात्मनीव ॥६२॥

निस्संकोचा समस्तं चुलकयति मतिर्नित्यमुक्तेश्वराणां
बद्धानां नित्यभूतिनं विलसति तत: कस्य सा स्वप्रकाशा ।
मेवं नित्येश्वरादेस्सति मतिविभवे साऽस्तु तेनानपेक्षा
वेद्यानुद्भासकाले मतिरिव न तु सा बन्धकाले विभाति ॥६३॥

तत्त्वान्यप्राकृतानि त्रिगुण इव परीणामतश्चेद्भवेयु:
स्थानादि स्यादनित्यं न यदि न घटते भूततादीति चेन्न ।
अन्नत्यक्ष्मादितत्त्वक्रमनियतगुणप्रक्रियाद्यैकरुप्या-
न्नित्येऽपि स्यान्निमित्तानुगतिनियमितस्तत्तदाख्याविशेष: ॥६४॥

निर्दिष्टं पौष्करादौ स्वयमखिलकृता स्वं वपुर्नित्यसिद्धं
नित्या लिड्गेति चेकायननिगमविदो वाक्यभाष्यादि चेवम्‍ ।
नित्यत्वं वासुदेवाह्वयवपुषि जगौ मोक्षधर्मे मुनीन्द्रो
नित्येच्छातस्तदा ततदिह विहतिमान्‍ सांशजन्मादितर्क: ॥६५॥

अस्त्रैर्वा भूषणैर्वा किमिह भगवतोऽवाप्तकामस्य तस्मा-
द्देवो देहेऽपि वोतावरण इति जगु: केऽपि जैनोपजप्ता: ।
किं वा देहेन विश्वात्मन इति वदतां किं प्रतिब्रूयुरेते
तच्चेतस्याश्रितार्थ तदधिकरणकं सर्वमप्येवमस्तु ॥६६॥

रुपस्थानायुषाख्याजनिलयविधृतिव्याप्रुतीच्छागुणादे-
विंश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्यद्विरोधौ ।
इत्यंभूते निषेध: क्वचिदपि न विधिं बाधते सावकाश:
कल्याणैरस्य योगस्तदितरविरहोऽप्येकवाक्यश्रुतौ च ॥६७॥

देहादिर्देवतानां हविरनुभवनं संनिधेर्यौगपद्यं
प्रीतिर्दानं फलस्याप्यसदिति कथयन्त्यर्धलोकायतस्था: ।
तत्राध्यक्षादिदूरस्वमहिमसदृशाशेषवैशिष्ट्यमासां
तत्तद्विध्यर्थवादप्रभृतिभिरविदुस्तत्परेरेव शिष्टा: ॥६८॥

साधुत्राणादिहेतोस्तदुचितसमये विग्रहांशै: स्वकीयै:
स्वेच्छातस्सत्यरुपो विभुरवतरति स्वान्‍ गुणौघाननुज्झन्‍ ।
व्यूहे संकर्षणादौ गुणनियतिरभिव्यक्तिवैषम्यमात्रा-
द्‍वृद्धिह्वासाद्यभावात्म हि भवति सदा पूर्णषाड्गुण्यशाली ॥६९॥

शास्त्रादीनां प्रवृत्ति: प्रतितनु नियता स्याद्धि संकर्षणादौ
जीवादौ या विमज्याभिमतिरिह लयोत्पत्तिरक्षाविधिश्च ।
तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतस्तो तु नेयो
सर्वस्यैकोऽभिमन्ता स हि सकलजगद्वयायृतिष्वेककर्ता ॥७०॥

त्रिव्यूह: क्वापि देव: क्वचिदपि चतुर्व्यूह उक्तस्तदेवं
व्याधातेऽन्योन्यबाधादुभयमिदमस्त्कल्पनामात्रमस्तु ।
तन्नाद्ये व्यूहभेदे त्रियुगगुणतया चिन्तनीये परस्मा-
द्युक्ताभेदाविवक्षा तदनुपगमने तत्त्वसंख्यादिबाध: ॥७१॥

मूर्त्तीनां मूलमूलिप्रभृतिषु बहुधा वैपरीत्यप्रतीते-
वर्णादो बीजतादिव्यवहृतिवदियं वर्णना भावनार्था ।
मैवं कालादिभेदात्प्रशमितविहतो कल्पितत्वं न कल्प्यं
नो चेद्‍ब्रह्माद्युदन्तेष्वपि विषमकथाभेदवैयाकुलो स्यात ॥७२॥

ईशस्य व्यष्टिभेदानभिदधति मनोवाड्मयादीन्‍ यदन्ये
तत्र त्रेधा यदीष्टा विकृतिरविषया निर्विकारागमा: स्यु: ।
नित्यत्रित्वे तु नैकेश्वरनियमगतिभ्रान्तिसिद्धे विभागे
मायादायादपक्ष: श्रुतिरपि नियतैरस्त्वधिष्ठानभेदे: ॥७३॥

युक्ति: प्रश्नोत्तरादेनं हि पुरुषभिदां बुद्धिभेदं च मुक्त्वा
तस्माद्व्यहादिभेदे कतिचन पुरुषा: स्यु: परेणानुबद्धा: ।
तन्न स्वच्छन्दलील: स्वयमभिनयति स्वान्यतां सर्ववेदी
तद्वच्छिष्यादिवृत्तिप्रसृतिमिह सतां शिक्षयन्‍ सानुकम्प: ॥७४॥

विश्वान्तर्वर्तिबालोदरगत्मखिलं कस्य विश्वासभूमि-
स्तस्मादौपेन्द्रिमदृग्भवतु रसवशादिन्द्रजालं प्रवृत्तम्‍ ।
मा भूदाश्चर्यंशक्तेरवितयमिदमित्येव सर्वाप्तसिद्धे-
र्व्याघातस्योपशान्तिस्तदनुगुणदशाभेदयोगादिभि: स्यात्‍ ॥७५॥

यद्भावित्वेन बुद्धं भवति तदथ चातीतरुपं तदस्मि-
न्नुल्लेखो भिद्यते चेदकरणजमतेरैकरुप्यं प्रकुप्येत्‍ ।
प्राचीनोल्लेख एव स्थितवति तु गते भाविबुद्धिर्भ्रम: स्यात्‍
मेवं पूर्वापरादिक्रमनियतसदोल्लेखसत्यत्वसिद्धे: ॥७६॥

नीलं किंचित्तदानोमरुणमिति न खल्विन्द्रजालादृतेऽद्वा
नो चेदेवं विरोध: क्वचिदपि न भवेत्कश्च जेनेऽपराध: ।
तस्मादीशो विरुद्धद्वितयमघटयन्‍ सर्वशक्ति: कथं स्या-
न्मेवं व्याघातशून्येष्वनितरसुशकेष्वस्य तादृक्त्वसिद्धे: ॥७७॥

संगृह्य ज्ञानयत्नौ कतिचन निखिलस्त्रष्टुरिच्छां तु नेच्छन्‍
तस्यां द्वेष: क एषामनुमितिशरणानीकनासीरभाजाम्‍ ।
श्रुत्या तद्बोधयत्नावबिदधति यदि क्षम्यतामेवमिच्छा
निर्वाह्यं त्वाप्तकामप्रभृतिवचनमप्यान्यपर्योपरुद्धम्‍ ॥७८॥

स्वीकृत्येशानतत्त्वं कतिचन जहतस्तत्प्रसादिसाध्यं
गड्गाम्भ: पञ्चगव्यप्रभृतिवदवदन्‍ पावनत्वादि तस्य ।
तच्छ त्यादिप्रतीपं यदपि च फलदं दर्शितं निष्प्रसादं
तच्छेतस्य प्रसादादिति हि निजगदुर्धर्ममर्मज्ञचित्ता: ॥७९॥

त्रय्यन्तोदन्तचिन्तासहचरणसहैरेभिरस्मिन्‍ परस्मिन्‍
भक्तिश्रद्धास्तिकल्वप्रभृतिगुणसिरावेधिभिस्तर्कशस्त्रै: ।
स्वार्थंत्वस्वाश्रयत्वस्ववशयतनताद्यू हवर्गोपवर्गं
श्छेद्येताच्छेद्यपूर्वोक्तरसरयुगलस्यूततत्त्वस्थितीनाम्‍ ॥८०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2019-01-24T18:57:45.5500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

servo action

  • प्रेरित क्रिया 
RANDOM WORD

Did you know?

अतिथी व अतिथिसत्कार याचे विशेष महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site