हिंदी सूची|पूजा एवं विधी|नित्य कर्म पूजा|स्नानसे पूर्वके कृत्य|प्रात: स्मरणीय श्लोक| पुण्यश्लोकोंका स्मरण प्रात: स्मरणीय श्लोक प्रात: स्मरणीय श्लोक गणेशस्मरण विष्णुस्मरण शिवस्मरण देवीस्मरण सूर्यस्मरण त्रिदेवोंके साथ नवग्रहस्मरण ऋषिस्मरण प्रकृतिस्मरण पुण्यश्लोकोंका स्मरण पुण्यश्लोकोंका स्मरण प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे. Tags : devatadevipoojaदेवतादेवीपूजा पुण्यश्लोकोंका स्मरण Translation - भाषांतर पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दन: ।पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिर: ॥अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण:॥कृप: परशुरामश्च सप्तैते चिरजीविन: ॥ (पद्मपु० ५१।६-७)सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।जीवेद् वर्षशतं साग्रमपमृत्युविवर्जित: ॥ (आचारेन्दु, पृ० २२)कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम् ॥ (मार्क० स्मृ०, पृ० ३२)प्रह्रादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान् ।रुक्माड्गदार्जुनवसिष्ठबिभीषणादीन् पुण्यानिमान् परमभागवतान् नमामि ॥ धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।शत्रुर्विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगा: ॥ वाराणस्यां भैरवो देव: संसारभयनाशन: । अनेकजन्मकृतं पापं स्मरणेन विनश्यति ॥वाराणस्यां पूर्वभागे व्यासो नारायण: स्वयम् ।तस्य स्मरणमात्रेण अज्ञानी ज्ञानवान् भवेत् ॥वाराणस्यां पश्चिमे भागे भीमचण्डी महासती ।तस्या: स्मरणमात्रेण सर्वदा विजयी भवेत् ॥वाराणस्यामुत्तरे भागे सुमन्तुर्नाम वै द्विज: ।तस्य स्मरणमात्रेण निर्धनो धनवान् भवेत् ॥वाराणस्यां दक्षिणे भागे कुक्कुटो नाम ब्राह्मण: ।तस्य स्मरणमात्रेण दु:स्वप्न: सुस्वप्नो भवेत् ॥उमा उषा च वैदेही रमा गड्गेति पञ्चकम् प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥सोमनाथो वैद्यनाथो धन्वतरिरथाश्विनौ ।पञ्चैतान् य: स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥कपिला कालियोऽनन्तो वासुकिस्तक्षकस्तथा ।पञ्चैतान् स्मरतो नित्यं विषबाधा न जायते ॥हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् ।पञ्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ॥आदित्यश्च उपेन्द्रश्च चक्रपाणिर्महेश्वर: ।दण्डपाणि: प्रतापी स्यात् क्षुत्तृड्बाधा न बाधते ॥वसुर्वरुणसोमौ च सरस्वती च सागर: ।पञ्चैतान् संस्मरेद यस्तु तृषा तस्य न बाधते ॥सनत्कुमारदेवर्षिशुकभीष्मप्लवड्गमा:पञ्चैतान् स्मरतो नित्यं कामस्तस्य न बाधते ॥रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपि: ।पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।वन्दे काशीं गुहां गड्गां भवानीं मणिकर्णिकाम् ॥(पद्मपुराण)महार्षिर्भगवान् व्यास: कृत्वेमां संहितां पुरा ।श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयच्छुकम् ॥मातापितृसहस्त्राणि पुत्रदाराशतानि च ।संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥हर्षस्थानसहस्त्राणि भयस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतो: ।धर्मो नित्य: सुखदु:खे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्य: ॥इमां भारतसावित्रीं प्रातरुत्थाय य: पठेत् ।स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥(आचारेन्दु,पृ०२२ में व्यासवचन) सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।उज्जयिन्यां महाकालमोड्कारममलेश्वरम् ॥केदारं हिमवत्पृष्ठे डाकिन्यां भीमशड्करम् ।वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥द्वादशैतानि नामानि प्रातरुत्थाय य: पठेत् ।सर्वपापविनिर्मुक्त: सर्वसिध्दिफलो भवेत् ॥(आचारभूषण, पृ०१० में शिवपुराणका वचन) दैनिक कृत्य-सूची-निर्धारण -- इसी समय दिन-रातके कार्योंकी सूची तैयार कर लें । आज धर्मके कौन-कौनसे कार्य करने हैं ? धनके लिये क्या करना है ? शरीरमें कोई कष्ट नहीं है ? यदि है तो उसके कारण क्या हैं और उनका प्रतीकार क्या है ? N/A References : N/A Last Updated : November 25, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP