संस्कृत सूची|संस्कृत साहित्य|चन्द्रालोकः| दशमो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - दशमो मयूखः जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । Tags : chandralokjayadevsanskritचंद्रलोकजयदेवसंस्कृत दशमो मयूखः Translation - भाषांतर धर्मं कंचित्पुरस्कृत्य प्रायः शब्दः प्रवर्तते ।ययार्थं स्पष्टं आचष्टे शब्दस्तां अभिधां विदुः ॥१॥जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया ।निर्देशेन तथा प्राहुः षड्विधां अभिधां बुधाः ॥२॥गौर्नीलः पाचको दण्डी डित्थः कंस इति क्रमात् ।कं संहिनस्ति कंसारिर्नरं च कं समाश्रितम् ॥३॥न योगादेरायतनं न सङ्केतनिकेतनम् ।वृत्त्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ॥४॥पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम् ।सुधानिधानं आसाद्य श्रयध्वं विबुधा मुदम् ॥५॥जयन्ति याज्ञिकश्रीमन्-महादेवाङ्गजन्मनः ।सूक्तिपीयूषवर्षस्य जयदेवकवेर्गिरः ॥६॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ॥७॥ N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP