संस्कृत सूची|संस्कृत साहित्य|चन्द्रालोकः| चतुर्थो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - चतुर्थो मयूखः जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । Tags : chandralokjayadevsanskritचंद्रलोकजयदेवसंस्कृत चतुर्थो मयूखः Translation - भाषांतर श्लेषो विघटमानार्थ-घटमानत्ववर्णनम् ।स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ॥१॥उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।भीतया मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः ॥२॥यस्मादन्तःस्थितः सर्वः स्वयं अर्थोऽवभासते ।सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥३॥समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा ।श्यामला कोमला बाला रमणं शरणं गता ॥४॥समाधिरर्थमहिमा लसद्घनरसात्मना ।स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥५॥माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् ।वयस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ॥६॥ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः ।रिपुं हत्वा यशः कृत्वा त्वदसिः कोशं आविशत् ॥७॥सौकुमार्यं अपारुष्यं पर्यायपरिवर्तनात् ।स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥८॥उदारता तु वैदग्ध्यं अग्राम्यत्वात्पृथङ्मता ।मानं मुञ्च प्रिये किंचिल्लोचनान्तं उदञ्चय ॥९॥शृङ्गारे च प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः ।अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥१०॥तिलकाद्यं इव स्त्रीणां विदग्धहृदयङ्गमम् ।व्यतिरिक्तं अलङ्कारं प्रकृतेर्भूषणं गिराम् ॥११॥विचित्रलक्षणो न्यासो निर्वाहः प्रौढिरौचिती ।शास्त्रान्तररहस्योक्तिः संग्रहो दिक्प्रदर्शिता ॥१२॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।चतुर्थस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥१३॥ N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP