संस्कृत सूची|संस्कृत साहित्य|चन्द्रालोकः| सप्तमो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - सप्तमो मयूखः जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । Tags : chandralokjayadevsanskritचंद्रलोकजयदेवसंस्कृत सप्तमो मयूखः Translation - भाषांतर वृत्तिभेदैस्त्रिभिर्युक्ता स्रोतोभिरिव जाह्नवी ।भारती भाति गम्भीरा कुटिला सरला क्वचित् ॥१॥सांमुख्यं विदधानायाः स्फुटं अर्थान्तरे गिरः ।कटाक्ष इव लोलाक्ष्या व्यापारो व्यञ्जनात्मकः ॥२॥अविवक्षितवाच्यस्य द्वौ भेदौ वाच्यं एव चेत् ।अर्थान्तिरे संक्रमितं अत्यन्तं वा तिरस्कृतम् ॥३॥द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ ।चत्वारिंशद्युतैकेन भेदाः षट्चानयोः क्रमात् ॥४॥त्रिधा शब्दार्थतद्युग्म-शक्तिजन्मा स्फुटक्रमात् ।रसभावतदाभास-प्रमुखस्त्वस्फुटक्रमात् ॥५॥वस्त्वलङ्कारयोर्व्यक्तेर्भेदौ द्वौ शब्दशक्तिजौ ।अर्थशक्तिसमुत्थस्य भेदा द्वादश तद्यथा ॥६॥चत्वारो वस्त्वलंकारं अलंकारस्तु वस्तु यत् ।अलंकारं अलंकारो वस्तु वस्तु व्यनक्ति तत् ॥७॥वक्तुः कविनिबद्धस्य कवेर्वा प्रौढिनिर्मितः ।स्वसिद्धो वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ॥८॥शब्दार्थोभयभूरेकः स च वाक्यैकसंश्रयः ।पदैकदेशे रचना-वर्णवाक्यपदेष्वपि ॥९॥प्रबन्धे चेति षोढासौ रसाद्याख्योऽस्फुटक्रमः ।एषु सप्तदशस्वेकं परित्यज्यास्फुटक्रमम् ॥१०॥ये षोडशाद्या द्विगुणास्ते स्युर्वाक्यपदाश्रयात् ।प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः ॥११॥द्वात्रिंशद्द्वादशैकः षट्सर्वसंकलितध्वनेः ।भेदाः स्युरेकपञ्चाशत्संभिन्नास्तु सहस्रशः ॥१२॥वक्तृस्यूतं बोधयितुं व्यङ्ग्यं वक्तुरभीप्सितम् ।स्वाङ्कुरितं अतद्रूपं स्वयं उल्लसितं गिरः ॥१३॥कश्चित्साधारणः कश्चिदामन्त्र्य प्रतिबोधितः ।कश्चित्तटस्थः कश्चिच्च बोधितप्रतिबोधितः ॥१४॥इत्येवं बोद्धृवैचित्र्याद्वक्तृस्यूतं चतुर्विधम् ।उपेक्षानिह्नवाभ्यां च द्विधा स्वाङ्कुरितं मतम् ॥१५॥भूतादिकालभेदेन निह्नवः स्यादनेकधा ।अनेनापि प्रभेदेन व्यक्तिवल्ली विजृम्भते ॥१६॥नानाप्रभेदा नियता क्वचित्प्रकरणादिना ।अर्थेऽर्थं अन्यं यं वक्ति तद्वाच्यव्यङ्ग्यं इष्यते ॥१७॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः ॥१८॥ N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP