संस्कृत सूची|संस्कृत साहित्य|चन्द्रालोकः| नवमो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - नवमो मयूखः जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । Tags : chandralokjayadevsanskritचंद्रलोकजयदेवसंस्कृत नवमो मयूखः Translation - भाषांतर मुख्यार्थस्याविवक्षायां पूर्वार्वाची च रूढितः ।प्रयोजनाच्च संबद्धं वदन्ती लक्षणा मता ॥१॥लक्षणीयस्वशब्दस्य मीलनामीलनाद्द्विधा ।लक्षणा सा त्रिधा सिद्ध-साध्यसाध्याङ्गभेदतः ॥२॥स्फुटास्फुटप्रभेदेन प्रयोजनं अपि द्विधा ।विदुः स्फुटं तटस्थत्वादर्थगत्वाद्द्विधा बुधाः ॥३॥अस्फुटं चार्थनिष्ठत्वात्तटस्थत्वादपि द्विधा ।लक्ष्यलक्षकनिष्ठत्वादर्थसंस्थं अपि द्विधा ॥४॥लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा ।अस्फुटत्वं तटस्थत्वं लक्ष्यस्थत्वं अमुष्य च ॥५॥अन्यास्तिस्र इति व्यक्ता शक्तितः सा चतुर्विधा ।इन्दुरेवैष तद्वक्त्रं उत्कर्षो लक्ष्यते मुखे ॥६॥प्रदीपं वर्धयेत्यत्र तटस्थं मङ्गलोदयः ।पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥७॥अमृतं सूक्तं इत्यादौ लक्ष्यस्थं अतिहृद्यता ।आभिमुख्यात्संनिधानात्तथाकारप्रतीतितः ॥८॥कार्यकारणभावात्सा वाच्यवाचकभावतः ।इत्येवमादेः संबन्धात्किंचान्यस्माच्चतुष्टयात् ॥९॥सादृश्यात्समवायात्सा वैपरीत्यात्क्रियान्वयात् ।सारोपाध्यवसानाख्ये गौणशुद्धे पृथक्पृथक् ॥१०॥गौणं सारोपं उद्दिष्टं इन्दुर्मुखं इतीदृशम् ।गौणं साध्यवसानं स्यादिन्दुरेवेदं ईदृशम् ॥११॥शुद्धं सारोपं उद्दिष्टं आयुर्घृतं इतीदृशम् ।शुद्धं साध्यवसानं स्यादायुरेवेदं ईदृशम् ॥१२॥उपादानार्पणद्वारे द्वे चान्ये इति षड्विधा ।कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च ॥१३॥लक्ष्यलक्षकवैशिष्ट्य-वैशिष्ट्याद्द्विविधा पुनः ।सरसं काव्यं अमृतं विद्या स्थिरतरं धनम् ॥१४॥तथा सहेतुरतथाभेदभिन्ना च कुत्रचित् ।सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः ॥१५॥शब्दे पदार्थे वाक्यार्थे संख्यायां कारके तथा ।लिङ्गे चेयं अलङ्काराङ्कुरबीजतया स्थिता ॥१६॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसंख्यः सुखयतु ॥१७॥ N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP